वाचस्पत्यम्
फलकोष || पु० फलस्य सुष्कस्य कोष इव । सुष्कावरकचर्म- युते अण्डकोषे तद्वृद्धिहेतुसाह सुश्रुतः “वातपित्तश्लेष्म- शोणितमेदोमूत्रान्त्रानिमित्ताः सप्त वृद्धयः । तासां मूत्रा- न्त्रनिमित्ते वृद्धी वातसमुत्थे केवलमुत्पत्तिहेतुरन्यतमः अधः प्रकुपितोऽन्यतमो हि दोषः फलकीषवाहिनीरभिप्रपद्य धमनीः फलकीषयोर्वृद्धिं जनयति तां वृद्धिमित्याचक्षते” ।