वाचस्पत्यम्
फलकोषक || पु० फलं मुष्क एव कोषोऽत्र कप् । मुष्के अण्डकोषे त्रिका० ।
शब्दकल्पद्रुमः
फलकोषकः || पुं, (फलं मुष्क एव कोषो यत्र । ततः कन् ।) मुष्कः । इति त्रिकाण्डशेषः ॥ (विवृति- रस्य मुष्कशब्दे ज्ञातव्या ॥)