वाचस्पत्यम्
फलचमस || पु० १ दधिमिश्रितवटत्वक्चूर्णे तदधिकृत्यप्रवृत्ते २ न्याय- भेदे च “फलचमसमस्मैभक्ष्यं ददातीति” श्रुत्या ऋत्विग्- भक्ष्यत्वेन फलचमसविधानात् ऋत्विन्भक्ष्यस्य च यज्ञशेष- द्रव्यत्वेन तत्सिद्धेः यज्ञेऽपि फलचमसलाभः । फल- चमसश्च दधिमिश्रितवटत्वक्चूर्णमिति” मल० त० रघु० ।
शब्दकल्पद्रुमः
फलचमसः || पुं, दधिमिश्रितवटत्वक्चूर्णम् । इति श्राद्धतत्त्वम् ॥