वाचस्पत्यम्
फलचोरक || पु० फलं चोर इव यस्य कप् । चोरनामगन्धद्रव्ये राजनि० ।
शब्दकल्पद्रुमः
फलचोरकः || पुं, (फलं चोर इवास्य कन् ।) चोरक- नामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥