संस्कृत-शब्दकोशः

फलत्रय फलद

फलत्रिक

वाचस्पत्यम्

फलत्रिक ||‍ न० ६ त० । त्रिफलायाम् शुण्टीपिप्पलीमरिचरूपा- याम् अमरः ।


शब्दकल्पद्रुमः

फलत्रिकं || क्ली (फलस्य त्रिकम् ।)
त्रिफला । (यथा, —
“पथ्याविभीतधात्रीणां फलैः स्यात्त्रिफला समैः । फलत्रिकञ्च त्रिफला सा वरा च प्रकीर्त्तिता ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
शुण्ठीपिप्पलीमरिचानि । इत्यमरः । २ । ९ । १११ ॥



Correction: