संस्कृत-शब्दकोशः

फललक्षणा फलवर्तुल

फलवत्

वाचस्पत्यम्

फलवत् ||‍ त्रि० फल + अस्तर्थे मतुप् षस्य वः । १ फलयुते पुरुषे २ तत्साधने यागादौ च “फलवत्सन्निधावफलं तद्रङ्गमिति न्यायः । ३ फलयुते वृक्षे पु० अमरः ।


शब्दकल्पद्रुमः

फलवान् || [त्] त्रि, (फलमस्यास्तीति । फल + मतुप् । मस्य वः ।)
फलयुक्तवृक्षः । तत्पर्य्यायः । फलिनः २ फली ३ । इत्यमरः ॥ फलितः ४ । इति राजनिर्घण्टः ॥ (यथा, मनुः । १ । ४७ । “अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥”)



Correction: