वाचस्पत्यम्
फलश्रुति || स्त्री श्रु—करणादौ क्तिन् ६ त० । १ वैदिककर्मणां फल- प्रतिपादनार्थशब्दे २ फलश्रवणे च “फलश्रुतिरियं नॄणां न श्रेयो रोचनं परम् । श्रेयो विवक्षया प्रोक्तं यथा भैषज्यरोचनम्” । अपिच “वेदोक्तमेव कुर्वाणी निःष- ङ्गोऽर्पितमीश्वरे । नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः” भाग० ११ स्क० मल० त० धृतवचनम् ।
शब्दकल्पद्रुमः
फलश्रुतिः || स्त्री (फलस्य कर्म्मफलस्य श्रुतिः श्रव- णम् ।)
कर्म्मफलश्रवणम् । यथा, —
“फलशुतिरियं नॄणां न श्रेयो रोचनं परम् । श्रेयो विवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥” अपि च । “वेदोक्तमेव कुर्व्वाणो निःसङ्गोऽर्पितमीश्वरे । नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः ॥” इति श्रीभागवते ११ स्कन्धः । इति मलमासतत्त्वम् ॥