संस्कृत-शब्दकोशः

फल्क फल्गुदा

फल्गु

वाचस्पत्यम्

फल्गु ||‍ त्रि० फल—उ गुक् च । १ रम्ये मेदि० २ असारे अमरः । ३ निरर्थके त्रिका० ४ मिथ्यावाक्ये शब्दर० ५ गयातीर्थस्थनद्यां स्त्री । मेदि० (फागु) इति ख्याते धूलिरूपे ६ पदार्थे ७ वलन्तसमये, जटा० । ८ काकोडुम्बरिकायाम् अमरः । फल्गुतीर्थमाहात्म्यं यथा “फलगुतीर्थं ब्रजेत् तस्मात् सर्वतीर्थात्तमोत्तमम् । मुक्तिर्भवति पितृणां कर्तृणां श्राद्धतः सदा । ब्रह्मणा प्रार्थितो विष्णुः फल्गुको ह्यभवत् पुरा । दक्षिणाग्निहुतं न्यू नं तद्रजः फल्गु- तीर्थकम् । तीर्थानि यानि सर्वाणि भुवनेष्वखिलेष्वपि । तानि स्नातुं समायान्ति फल्गुतीर्थं सुरैः सह । गङ्गा- पादोदकं विष्णोः फल्गुर्ह्यादिगदाधरः । स्वयं हि द्रवरूपेण तस्माद्गङ्गधिकं विदुः । अश्वमेधमहम्राणां सहस्रं यः समाचरेत् । नासौ तत्फलमाप्नोति फल्गु- तीर्थे यदाप्नुयात्” वायुपु० गयामा० ।


शब्दकल्पद्रुमः

फल्गु || त्रि (फल निष्पत्तौ + “फलिपाटिनमि- मनिजनामिति ।” उणा० १ । १९ । इत्युः गुगा- गमश्च ।)
असारम् । इत्यमरः । ३ । १ । ५६ ॥ (यथा, माघे । ३ । ७६ । “तरीषु तत्रत्यमफल्गु भाण्डं सांयात्रिकानावपतोऽभ्यनन्दत् ॥”)
निरर्थकम् । इति त्रिकाण्डशेषः ॥ (यथा, देवीभागवते । ५ । १५ । ३२ । “न फल्गुवाक्यैः प्रतिबोधनीयो राजा तु वीरैरिति नीतिशास्त्रम् ॥”)
सामान्यम् । क्षुद्रम् । यथा, भागवते । १ । १३ । ४७ । “अहस्तानि सहस्तानामपदानि चतुष्पदाम् । फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥”)


शब्दकल्पद्रुमः

फल्गुः || स्त्री (फल निष्पत्तौ + उः । गुगागमश्च ।)
गयास्थनदीभेदः । तस्या माहात्म्यादि यथा, — सार्द्धक्रोशद्बयं मानं गयायां परिकीर्त्तितम् । पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ॥ तत्र पिण्डप्रदानेन तृप्तिर्भवति शाश्वती । नगाज्जनार्द्दनाच्चैव कूपाच्चोत्तरमानसात् ॥ एतद्गयाशिरः प्रोक्तं फल्गुतीर्थं तदुच्यते । तत्र पिण्डप्रदानेन पितॄणां परमा गतिः ॥ पृथिव्यां यानि तीर्थानि ये समुद्राः सरांसि च । फल्गुतीर्थं गमिष्यन्ति वारमेकं दिने दिने ॥” इति गारुडे ८३ अध्यायः ॥ अन्यत् गयाशब्दे द्रष्टव्यम् ॥ * ॥
काकोडम्बरिका । इत्यमरः ॥ काकडुमुर इति भाषा ॥ (अस्याः पर्य्यायो यथा, —
“भद्रा मलपूः फल्गुः स्यात् काकडुम्बरिका च सा ॥” इति वैद्यकरत्नमालायाम् ॥)
अस्या गुणाः । गुरुत्वम् । ग्राहित्वम् । शीत- लत्वम् । स्वादुत्वम् । तृप्तिकारित्वञ्च । इति राजवल्लभः ॥ रेणुभेदः । फागु इति प्रसिद्धः । मिथ्यावाक्यम् । इति शब्दरत्नावली ॥ वस- न्तर्त्तुः । इति जटाधरः ॥



Correction: