वाचस्पत्यम्
फे(णि)निका || स्त्री (णाजा) इति ख्याते पक्वान्नभेदे कृतान्न- धब्दे २१८३ । ३४ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
फेनिका || स्त्री (फेन इवाकृतिरस्त्यस्याः । फेन + ठन् । टाप् ।)
पक्वान्नविशेषः । खाजा इति भाषा । यथा, —
“समिताया घृताद्याया वर्त्तीर्दीर्घाः समाचरेत् । तास्तु सन्निहिता दीर्घाः पीठस्योपरि धारयेत् ॥ वेल्लयेद् वेल्लनेनैता यथैका पर्पटी भवेत् । ततश्छुरिकया तान्तु संलग्नामेव कर्त्तयेत् ॥ ततस्तु वेल्लयेद्भूयः सट्टकेन च लेपयेत् । शालिचूर्णं घृतं तोयं मिश्रितं सट्टकं भवेत् ॥ ततः संवृत्य तां लोप्त्रीं विदधीत पृथक् पृथक् । पुनस्तां वेल्लयेत् लोप्त्रीं यथा स्यान्मण्डलाकृतिः ॥ ततस्तां सुपचेदाज्ये भवेयुश्च पुटाः स्फुटाः । सुगन्धया शर्करया तदुद्धूलनमाचरेत् ॥ सिद्ध्वैषा फेनिकानाम्नी मण्ठकेन समा गुणैः । ततः किञ्चिल्लघुरियं विशेषोऽयमुदाहृतः ॥” इति भावप्रकाशः ॥