वाचस्पत्यम्
फेरण्ड || पुंस्त्री० फे इत्यव्यक्तं रण्डति रण्ड—अच् । शृगाले हेमच० स्त्रियां जातित्वात् ङीष् ।
शब्दकल्पद्रुमः
फेरण्डः || पुं, (फे इत्यव्यक्तशब्देन रण्डतीति । रण्ड + अच् ।) शृगालः । इति हेमचन्द्रः । ४ । ३५५ ॥