संस्कृत-शब्दकोशः

बदरवल्ली बदरामलक

बदरा

शब्दकल्पद्रुमः

बदरा || स्त्री (बदति छिन्नायामपि पुनः प्ररोह- णात् स्थिरीभवति या । बद् + बाहुलकादरः । टाप् ।)
वराहक्रान्तावृक्षः । (तत्पर्य्यायो यथा, “वाराहीकन्द एवान्यैश्चर्म्मकारालुको मतः । अनूपसम्भवे देशे वाराह इव लोमवान् । विदारी स्वादुकन्दा च सा तु क्रोष्ट्री सिता स्मृता ॥ इक्षुगन्धा क्षीरवल्ली क्षीरशुक्ला पयस्विनी । वाराहवदना गृष्टिर्बदरेत्यपि कथ्यते ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
कार्पासीवृक्षः । इत्यमरः । २ । ४ । ११६ ॥ एलापर्णी । इति मेदिनी । रे, २०७ ॥ विष्णु- क्रान्ता । इति विश्वः ॥



Correction: