वाचस्पत्यम्
ब(व)दरामलक || न० ब(व)दरमिवामलकम् । १ प्राचीनामलके हारा० । समा० द्व० । २ वदरामलकफलयोः समाहारे न०
शब्दकल्पद्रुमः
बदरामलकं || क्ली (बदरफलमिवामलकम् ।) प्राचीनामलकम् । इति हारावली । १०२ ॥