वाचस्पत्यम्
बर्ह || दाने बधे स्तृतौ बाचि च भ्वा० आ० सक० सेट् । बर्हते अबर्हिष्ट “विगर्हितं धर्मधनैर्निबर्हणम्” नैष० ।
वाचस्पत्यम्
बर्ह || न० बर्ह—अच् । १ मयूरपिच्छे अमरः । २ पत्रे ३ परीवारे हेमच० मयूरपिच्छे पु स्त्वमपि । “कं हरेदेष बर्हः” इति विक्रनो० प्रयोगात् “यथा बर्हाणि चित्राणि बिभर्त्ति भुजगाशनः” क्लीवे प्रयोगः ।
शब्दकल्पद्रुमः
बर्हं is an alternate of वर्हं. व(व)र्हं || क्ली (वर्हयति दीप्यते इति । वर्ह + अच् ।)
मयूरपिच्छम् । इत्यमरः । २ । ५ । ३१ ॥ (यथा, महाभारते । १२ । १२० । ४ । “यथा वर्हाणि चित्राणि बिभर्त्ति भुजगाशनः । तथा बहुविधं राजारूपं कुर्व्वीत धर्म्मवित् ॥”)
ग्रन्थिपर्णम् । इति भरतः ॥ (वर्हतीति । वृह वृद्धौ + अच् ।)
पत्रम् । इति शब्दरत्नावली ॥ (यथा, रघुः । ६ । १७ । “विलासिनी विभ्रमदन्तपत्त्र- मापाण्डुरं केतकवर्हमन्यः । प्रियानितम्बोत्तितसन्निवेशै- र्विपाटयामास युवा नखाग्रैः ॥”)
परीवारः । इति हेमचन्द्रः ॥
शब्दकल्पद्रुमः
बर्ह || ङ स्तृतौ । हिंसायाम् । दाने । वाचि । इति कविकल्पदुमः ॥ (भ्वा०-आत्म०-सक० सेट् ।)
रेफोपधः । ङ, बर्हते । इति दुर्गा- दासः ॥