वाचस्पत्यम्
बलात्कार || पु० बलात् + कृ—घञ् । बलपूर्वककरणे, हडात्करणे च ।
शब्दकल्पद्रुमः
बलात्कारः || पुं, (बलात्करणम् । बलात् + कृ + भावे घञ् ।)
हठात्करणम् । तत्पर्य्यायः । प्रसभम् २ हठः ३ । इत्यमरः । २ । ८ । १०८ ॥ हठात्कारः ४ प्रसभः ५ । इति शब्दरत्नावली ॥ “मत्ताभियुक्तस्त्रीबालबलात्कारकृतञ्च यत् । तदप्रमाणं लिखितं भयोपधिकृतन्तथा ॥” इति ऋणादाने मिताक्षराधृतनारदवचनम् ॥ (यथा, रघुः । १० । ४७ । “शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः ॥”)