शब्दकल्पद्रुमः
बष्कयणी || स्त्री (बष्कयस्तरुणवत्सः । सोऽस्ति अस्याः । बष्कय + पामादित्वान्नः पक्षे इनिः । अट्कुप्वाङिति णत्वम् । ततो ङीष् ।)
चिरप्रसूता गौः । इत्यमरभरतौ ॥ (यथा, सिद्धान्तकौमुद्याम् । २ । १ । ६५ । “पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्क- यणीप्रवक्तृश्रोत्रियाध्यापकधूर्त्तैर्जातिः ॥”)