संस्कृत-शब्दकोशः

बष्कयणी बस्कयिनी

बष्कयिणी

वाचस्पत्यम्

बष्क(स्क)यिणी(नी) ||‍ स्त्री मस्क गतौ अयन् पृषो० मस्य बः सस्य वा षत्वम् । बष्क(स्क)योऽस्यास्ति इनि ङीप् षम- ध्यत्वेणत्वम् । चिरप्रसूतायां गवि अमरः । बष्क(स्क)यं नयतीति नी—ड गौ० ङीष् षमध्यत्वे पूर्व० णत्वम् । बष्क(स्क)यणी(नी) इत्यप्यत्र स्त्री ।


शब्दकल्पद्रुमः

बष्कयिणी || स्त्री (बष्कयस्तरुणवत्सः । सोऽस्ति अस्याः । बष्कय + पामादित्वान्नः पक्षे इनिः । अट्कुप्वाङिति णत्वम् । ततो ङीष् ।)
चिरप्रसूता गौः । इत्यमरभरतौ ॥ (यथा, सिद्धान्तकौमुद्याम् । २ । १ । ६५ । “पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्क- यणीप्रवक्तृश्रोत्रियाध्यापकधूर्त्तैर्जातिः ॥”)



Correction: