शब्दकल्पद्रुमः
बहुपत्रा || स्त्री (बहुपत्र + टाप् ।)
तरुणी- पुष्पम् । इति राजनिर्घण्टः ॥ (भूम्यामलकी । तत्पर्य्यायो यथा, —
“भूम्यामलकिका प्रोक्ता शिवा तामलकीति च । बहुपत्रा बहुफला बहुवीर्य्याज्झटापि च ॥”)
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)