संस्कृत-शब्दकोशः

बहुपत्रा बहुपत्री

बहुपत्रिका

शब्दकल्पद्रुमः

बहुपत्रिका || (बहुपत्रा + संज्ञायां स्वार्थे वा कन् । टापि अत इत्वम् ।)
भूम्यामलकी । मेथिका । (अस्थाः पर्य्यायो यथा, “मेथिका मिथिनिर्मेथिर्दीपनी बहुपत्रिका । बोधिनी बहुबीजा च जातिगन्धफला तथा ॥ वल्लरी चैव कामन्था मिश्रपुष्पा च कैरवी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
महाशतावरी । इति राजनिर्घण्टः ॥



Correction: