शब्दकल्पद्रुमः
बहुफला || स्त्री (बहूनि फलानि यस्याः ।) क्षविका । माषपर्णी । काकमाची । त्रपुसी । शशाण्डुली । क्षुद्रकारवेल्ली । इति राज- निर्घण्टः ॥ भूम्यामलकी । इति भावप्रकाशः ॥