शब्दकल्पद्रुमः
बहुरूपा || स्त्री (बहुरूपस्य शिवस्य स्त्री । टाप् ।) दुर्गा । यथा, — “अरूपा परभावत्वाद्बहुरूपा क्रियात्मिका । जाता शैलेन्द्रगेहे सा शैलराजसुता ततः ॥” इति देवीपुराणे ४५ अध्यायः ॥