बहुरूपा
बहुरेतस्
बहुरेखा
शब्दकल्पद्रुमः
बहुरेखा || स्त्री (बह्वी बहुला रेखा करस्थादि- चिह्नम् ।)
प्रचुरदीर्घचिह्नम् । बहुरेखायुक्तानां दोषो यथा, —
“रेखामिर्ब्बहुभिः क्लेशं स्वल्पाभिर्धनहीनताम् । रक्ताभिः सुखमाप्नोति कृष्णाभिः प्रेष्यतां व्रजेत् ॥” इति गारुडे ६४ अध्यायः ॥