शब्दकल्पद्रुमः
बहुवारः || पुं, (बहूनि वारयतीति । बहु + वृ + णिच् + अण् ।)
वृक्षविशेषः । बहुयार इति ख्यातः । तत्पर्य्यायः । शेलुः २ शीतः ३ श्लेष्मातः ४ श्लेष्मातकः ५ उद्दालः ६ उद्दालकः ७ । इति शब्दरत्नावली ॥ सेलुः ८ । इत्यमरटीकायां भरतः ॥ अस्य फलगुणाः । हिमत्वम् । श्लेष्म- लत्वम् । शुक्रकारित्वम् । गुरुत्वम् । दुर्जरत्वम् । मधुरत्वञ्च । इति राजवल्लभः ॥