वाचस्पत्यम्
ब(व)हुवारक || पु० ब(व)हूनि वारयति अण्, ण्वुल् वा । श्लेष्मातके (लोना आता) शब्दर० ।
शब्दकल्पद्रुमः
बहुवारकः || पुं, (बहूनि रूक्षादीनि वारयतीति । बहु + वृ + णिच् + ण्वुल् ।)
वृक्षविशेषः । (अस्य गुणा बहुवारशब्दे उक्ताः । बहुयार इति ख्यातः । यथा, मनुसंहितायाः । ५ । ६ । श्लोकस्य टीकायां कुल्लूकभट्टः । “शेलुं वहुवारकफलं गोभवं पेयूषं नवप्रसूताया गोः क्षीरमग्निसंयो- गात् कठिनं भवति एतान् यत्नतस्त्यजेत् ॥”)