वाचस्पत्यम्
बाल(लि)खिल्य || पु० ब० अङ्गुष्ठपर्वमितेषु षष्टिसहस्रसंख्येषु “क्रतोश्च सन्ततिर्भार्य्या बालखिल्यानसूयत । षष्टिर्यानि सहस्राणि ऋषीणामूर्ध्वरेतसाम्” मार्क पु० उक्तेषु १ मुनि- भेदेषु । तेषां पारमाणञ्च अङ्गुष्ठमात्र यथाक्तं भा० स० ३१ अ० । “अथापश्यदृषीन् ह्रस्वान् अङ्गुष्ठोदरवर्ष्मणः । पलाशवृन्तिकामेकां सहितान् वहतः पथि । प्रलीनान् स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् । क्लिश्यमानान् मन्त्रबलान् गोष्पदे संप्लुतोदके” । “प्राणा वै बालखिल्याः” चरणव्यूहभाव्येक्तेषु २ प्राणेषु च ।
शब्दकल्पद्रुमः
बालखिल्यः || पुं, बालखिल्यमुनिः । यथा, —
“विधिना निर्म्मिता पूर्ब्बं वेदी परमपावनी । अग्निवेश्यादिमुनयो बालखिल्यादयः स्थिताः ॥” इति बृहद्रामायणे चित्रकूटमाहात्म्ये १ सर्गः ॥ (बालखिल्यास्तु अङ्गुष्ठपरिमिताः षष्टिसहस्र- संख्यकाः । यथा, मार्कण्डेये । ५२ । २४ । “क्रतोश्च सन्ततिर्भार्य्या बालखिल्यानसूयत । षष्टिर्यानि सहस्राणि ऋषीणामूर्द्वरेतसाम् ॥” अङ्गुष्ठपरिमितमुक्तमेतेषान्देहपरिमाणम् । यथा, महाभारते । १ । ३१ । ८ — ९ । “अथापश्यदृषीन् ह्नस्वान् अङ्गुष्ठोदरवर्ष्मणः । पलाशवृन्तिकामेकां सहितान् वहतः पथि ॥ क्लिश्यमानान् मन्दबलान् गोष्पदे संप्लुतोदके ॥”)