संस्कृत-शब्दकोशः

बालपत्रक बालपुष्पिका

बालपाश्या

वाचस्पत्यम्

बालपाश्या ||‍ स्त्री बालस्य केशस्य समीपस्था पाश्या । सीमन्ता न्तिकस्थस्वर्णादिरचितपट्टिकारूपे भूषाभेदे (सिँती) अमरः-


शब्दकल्पद्रुमः

बालपाश्या || स्त्री (बालपाशे केशसमूहे साधुः तत्र साधुरिति यत् ।)
सीमन्तिकास्थितस्वर्णादि- रचितपट्टिका । सिँती इति भाषा । तत्- पर्य्यायः । परितथ्या २ । इत्यमरः । २ । ६ । १०३ ॥ बालपाशस्थितमणिः । इति तट्टीकायां तर्क- वागीशः ॥



Correction: