संस्कृत-शब्दकोशः

बालहस्त बालाकि

बाला

वाचस्पत्यम्

बाला ||‍ स्त्री० बालाः केशाकाराः पदार्थाः सन्त्यँस्य अच् । १ नारिकेले २ हरिद्रायां ३ मल्लिकाभेदे, ४ बलये, ५ मेध्ये च ६ त्रुटौ स्त्री मेदि० ७ घृतकुमार्य्यां (वाला) ८ गन्धद्रव्यभेदे, शब्दच० । ९ अम्बष्ठायां, १० नीलझिण्ट्याम् स्त्री राजनि० ११ षोडशवर्षीयायां स्त्रियां १२ कन्यायाञ्च “बर्षमात्रा भवेद् बाला” प्रा० त० उक्तायामेकवर्षीयायां १३ गवि स्त्री १४ देवी मूर्त्तिभेदे तन्त्रसारः । स्वार्थे क अत इत्त्वम् । बालिका तत्रैव । बालुकायां, पत्रकाहलायां मेदि० कर्णभूषणे (कानबाला) मेदि० एलायां शब्द० ।


शब्दकल्पद्रुमः

बाला || स्त्री (बालाः केशा इव पदार्था विद्यन्ते यस्याः । बाल + अर्श आद्यच् ततष्टाप् ।)
नारिकेलः । हरिद्रा । मल्लिकाभेदः । अलङ्कार- भेदः । मेध्यम् । त्रुटिः । स्त्री । इति मुद्राङ्किता मेदिनी ॥ घृतकुमारी । ह्रीवेरम् । इति शब्द- चन्दिका ॥ अम्बष्ठा । नीलझिण्टी । इति राज- निर्घण्टः ॥ एकवर्षवयस्का गौः । यथा, —
“वर्षमात्रातुबाला स्यादतिबाला द्विवार्षिकी ।” इति प्रायश्चित्ततत्त्वम् ॥ षोडशवर्षोया स्त्री । सा ग्रीष्मशरत्काले च प्रशंसनीया हर्षदा च । इति राजवल्लभः ॥ (यथा, रतिमञ्जर्य्याम् । “बाला स्त्री प्राणदा प्रोक्ता तरुणी प्राण- हारिणी । प्रौढा करोति वृद्धत्वं वृद्धा मरणमादिशेत् ॥” यथा, मेघदूते । ८३ । “गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं बाल्य- रूपाम् ॥” कन्यामात्रेऽपि । यथा, मार्कण्डये । २१ । २८ । “इयञ्च मूर्च्छामगत् कारणं यत् शृणुष्व तत् । त्वयि प्रीतिमती बाला दर्शनादेव मानद ! ॥” पञ्चवर्षा स्मृता बाला । इति हारीते । १ । ५ ।)
ऊनद्बिवार्षिकी कन्या । तस्यास्तद्बयस्कबालस्य च अग्निसंस्कारादिनिषेधो यथा, —
“अजातदन्ता ये बाला ये च गर्भाद्बिनिःसृताः । न तेषामग्निसंस्कारो न पिण्डं नोदकक्रिया ॥” इति गारुडे १०७ अध्यायः ॥



Correction: