संस्कृत-शब्दकोशः

बालायनि बालि

बालार्क

वाचस्पत्यम्

बालार्क ||‍ पु० कर्म० । प्रातःकालीनसूर्य्ये “बालाकैस्तरुणं दधि” चाणक्य ।


शब्दकल्पद्रुमः

बालार्कः || पुं, (बालो नवोदितोऽर्कः सूर्य्यः ।)
प्रातःकालीनसूर्य्यः । यथा, —
“रक्तवस्त्रपरीधानां बालार्कसदृशीं तनूम् ॥” इत्यादि विश्वसारे जगद्धात्रीध्यानम् ॥ कन्याराशिस्थसूर्य्यः । यथा, —
“शुष्कमांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि । प्रभाते मैथुनं निद्रा सद्यःप्राणहराणि षट् ॥” इति चाणक्यम् ॥



Correction: