वाचस्पत्यम्
बालि || पु० बाले केशे जातः इञ् । केशे इन्द्रस्कन्नशुक्रजाते वानरभेदे । बालः उत्पत्तिस्थानत्वेनास्त्यस्य इनि । बालिन् तत्रार्थे त्रिका० । तदुत्पत्तिकथा रामा० उत्तरा० ३७ स० यथा “उत्प्लुत्य तस्मात् स ह्रदादुत्थितः प्लवगः पुनः । तस्पि- न्नेव क्षणे राम! स्त्रीत्वं प्राप स वानरः । तद्रूपमद्भुतं दृष्ट्वा त्यजितौ धैर्य्यमात्मनः । ततस्तस्यां सुरेन्द्रेण स्कन्नं शिरञ्चि पातितम् । अनासाद्यैव तां नारी सन्निवृत्तमथा भवत् । ततः सा वानरपतिं जज्ञे वानरमीश्वरम् । अ- मोघरेतसस्तस्य वासवस्य महात्मनः । बालेषु पतितं बीजं बाली नाम बभूव ह । भास्करेणापि तस्यां वै कन्दर्प- वशवर्त्तिना । बीजं निषिक्तं ग्रीवायां विधानमनुवर्त्तता । ग्रीवायां पतितं बीजं सुग्रीवः समजायत” ।
शब्दकल्पद्रुमः
बालिः || पुं, (बाले केशे जातः । बाल + इञ् ।)
कपिविशेषः । तत्पर्य्यायः । ऐन्द्रः २ बाली ३ । इति त्रिकाण्डशेषः ॥ (अयमेव श्रीरामेण हतः । अस्य जन्मादिकविवृतिस्तु बालिन् शब्दे द्रष्टव्या ।)