संस्कृत-शब्दकोशः

बाहुकुलेयक बाहुत्र

बाहुज

वाचस्पत्यम्

बाहुज ||‍ पु० बाहुभ्यां ब्र(व्र)ह्मबाहुभ्यां जायते जन—ड । १ क्षत्रिये अमरः । ‘बाहू राजन्यावि’ ति श्रुतिः । २ कीरे ३ स्वयं जाततिले च मेदि० ४ बाहुजातमात्रे त्रि० ।


शब्दकल्पद्रुमः

बाहुजः || पुं, (ब्रह्मणो बाहुभ्यां जायते यः । बाहु + जन् + ड । “ब्राह्मणोऽस्य मुखमासीत् बाहू राजन्यः स्मृतः । ऊरुस्तदस्य यद्वैश्यः पद्भ्यां शूद्रोऽभ्यजायत ॥” इति श्रुतेस्तथात्वम् ।)
क्षत्त्रियः । इत्यमरः । २ । ८ । १ । (यथा, —
“वत्स ! वाराणसीं गच्छ त्वं विश्वेश्वरवल्लभाम् । तत्र नाम्ना दिवोदासः काशिराजोऽस्ति- बाहुजः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
कीरः । स्वयंजाततिलः । इति मेदिनी । जे, २७ । बाहुजाते त्रि ॥



Correction: