शब्दकल्पद्रुमः
बिडालः is an alternate of विडालः. वि(बि)डालः || पुं, (विड आक्रोशे + “तमिविशि- विडीति ।” उणा० १ । ११७ । इति कालन् ।)
नेत्रपिण्डः । इति मेदिनी । ले, १३३ ॥ नेत्रौषध- विशेषः । इति भावप्रकाशः ॥ स्वनामख्यात- पशुः । विल्ली इति हिन्दीभाषा । तत्पर्य्यायः । ओतुः २ मार्ज्जारः ३ वृषदंशकः ४ आखुमुक् ५ । इत्यमरः ॥ विरालः ६ विलालः ७ । इति तट्टीका ॥ दीप्ताक्षः ८ नक्तञ्चरी ९ जाहकः १० विडारकः ११ । इति शब्दरत्नावली ॥ त्रिशङ्कुः १२ जिह्वापः १३ मेनादः १४ सूचकः १५ । इति जटाधरः ॥ भूषिकारातिः १६ शालावृकः १७ मायावी १८ दीप्तलोचनः १९ । इति राज- निर्घण्टः ॥ (यथा, मनुः । ११ । १६० । “विडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च । केशकीटावपन्नञ्च पिबेद्ब्रह्मसुवर्च्चलाम् ॥”)