संस्कृत-शब्दकोशः

बिन्दवि बिन्दुचित्रक

बिन्दु

वाचस्पत्यम्

बिन्दु ||‍ पु० बिदि० उ । १ अल्पेऽंशे अमरः । २ राजभेदे ततोऽपत्ये विदा० अञ् । वैन्दव तदपत्ये पुंस्त्री० । २ रेखागणित प्रसिद्धे स्थूलत्वदीर्घत्वहीने लक्षयितुं शक्ये २ प्रदार्थे क्षेत्रशब्दे २३८९ पृ० दृश्यम् । सा० द० उक्ते ३ अर्थप्रकृतिभेदे “वीजं बिन्दुः पताका च प्रकरी कार्य्यमेव च । अर्थप्रकृतयः पञ्च” उद्दिश्य “अवा- न्तरार्थविच्छेदे बिन्दुरुच्छेदकारणम्” लक्षितम् । ४ अनु स्वारमूचके रेखाभेदे । “बन्दुद्विबिन्दुमात्रौ” मुग्धबो० शा० ति० उक्ते ५ नादजन्ये क्रियाप्राधान्यलक्षणे चिच्छक्ते- रवस्थाभेदे यथा “सच्चिदानन्दविभवात् सकलात् परमे- श्वरात् । आसीच्छक्तिस्ततो नादो नादात् बिन्दुसमु- द्भवः” । तद्व्याख्यायां राघवभट्टधृतम् “सा तत्त्वसंज्ञा चिन्मात्रज्योतिषः सन्निधेस्तदा । विचिकोर्षुर्घनीभूता क्वचिदभ्येति बिन्दुताम्” “अभिव्यक्ता परा शक्तिरविना भावलक्षणा । अखण्डपरचिच्छक्तिजाता चिद्रपिणी विभुः । समस्ततत्त्वभावेन विवर्त्तेच्छासमन्बिता । प्रयाति बिन्दुभावञ्च क्रियाप्राधान्यलक्षणम्” । तस्मादेव रौद्री- रुद्रयोराविर्भावः यथाक्तं शा० ति० “रौद्री बिन्दोस्ततो नादात् ज्येष्ठा वीजादजायत । समेताभ्यः समुत्पन्ना रुद्रब्रह्मरमाधिपाः” । ६ वीजभेदे “बिन्दुः शिवात्मको बीज शक्तिर्नार्दतयोर्मिथः । समवायः समाख्यातः सर्वागम- विशारदैः” शा० ति० ।


शब्दकल्पद्रुमः

बिन्दुः is an alternate of विन्दुः. वि(बि)न्दुः || त्रि (वेत्ति तच्छीलः । विदज्ञाने + “बिन्दुरिच्छुः ।” ३ । २ । १६९ । इति उप्रत्ययो लुमागमश्च निपात्यते ।)
ज्ञाता । इत्यमरः ॥ दाता । इत्यजयपालः ॥ वेदितव्यः । इति शब्दरत्नावली ॥


शब्दकल्पद्रुमः

बिन्दुः is an alternate of विन्दुः. वि(बि)न्दुः || पुं, (बिदि अवयवे + बाहुलकादुः ।)
जलकणा । तत्पर्य्यायः । पृषत् २ पृषतः ३ विप्रुट् ४ । इत्यमरः ॥ पृषन्ति ५ विप्लट् ६ । इति तट्टीका ॥ (यथा, पञ्चतन्त्रे । “जलबिन्दुप्रपातेन क्रमशः पूर्य्यते घटः । स हेतुः सर्व्वशास्त्रस्य धर्म्मस्य च धनस्य च ॥”)
दन्तक्षतविशेषः । भ्रुवोर्मध्यम् । रूपकार्थ- प्रकृतिः । इति मेदिनी । दे, १०-११ ॥ अनुस्वारः । यथा । “बिन्दुद्बिबिन्दुमात्रौ वर्णौ क्रमान्नुवी संज्ञौ स्तः ।” इति मुग्धबोधव्याकरणम् ॥ अपि च । “शिवो वह्निसमायुक्तो वामाक्षिबिन्दुभूषितः । एकाक्षरो महामन्त्रः श्रीसूर्य्यस्य प्रकीर्त्तितः ॥” इति सूर्य्यकवचम् ॥ बन्दूत्पत्तिर्यथा, —
“सच्चिदानन्दविभवात् सकलात् परमेश्वरात् । आसीच्छक्तिस्ततो नादो नादाद्बिन्दुसमुद्भवः ॥” इति सारदातिलके १ पटलः ॥ अपि च । “आसीद्बिन्दुस्ततो नादो नादाच्छक्तिः समुद्भवा । नादरूपा महेशानी चिद्रूपा परमा कला ॥ नादाच्चैव समुत्पन्नः अर्द्धबिन्दुर्महेश्वरि । सार्द्धत्रितयबिन्दुभ्यों भुजङ्गी कुलकुण्डली ॥” इति कुब्जिकातन्त्रे १ पटलः ॥ “बिन्दुर्नादो बीजमिति तस्य भेदाः समीरिताः । बिन्दुः शिवात्मको बीजं शक्तिर्नादस्तयोर्मिथः ॥ समवायः समाख्यातः सर्व्वागमविशारदैः ॥” इति सारदातिलकः ॥ अन्यच्च । “बिन्दुः शिवात्मकस्तत्र बीजं शक्त्यात्मक स्मृतम् । तयोर्योगे भवेन्नादस्ताभ्यो जातास्त्रिशक्तयः ॥” इति क्रियासारः ॥



Correction: