वाचस्पत्यम्
बिलेशय || पुंस्त्री० बिले शेते शी—अच् अलुक्स० । १ सर्पे अमरः २ मूषिके जटा० ३ गोधायां ४ शशे ५ शल्लक्याञ्च भावप्र० । “गोधाशशभुजङ्गाखु शल्लक्याद्या बिलेशयाः । बिलेशया वातहरा मधुरा रसपाकयोः । वृंहणा बद्धविण्मूत्र । वीर्य्योष्णा अपि कीर्त्तिताः” तत्र तन्मांसगुणा उक्ताः ।
शब्दकल्पद्रुमः
बिलेशयः is an alternate of विलेशयः. वि(बि)लेशयः || पुं, (विले शेते इति । विले + शी + “अधिकरणे शेतेः ।” ३ । २ । १५ । इत्यच् । शय- वासेत्यलुक् ।)
सर्पः । इत्यमरः ॥ मूषिकः । इति जटाधरः ॥ गोधा । शशः । शल्लकी । यथा, —
“गोधाशशभुजङ्गाखुशल्लक्याव्या विलेशयाः । विलेशया वातहरा मधुरा रसपाकयोः । बृंहणा वद्धविण्मूत्रा वीर्य्योष्णा अपि कीर्त्तिताः ॥” इति भावप्रकाशः ॥ (गर्त्तशायिनि, त्रि । यथा, महाभारते । १ । ४५ । ४ । “स ददर्श पितॄन् गर्त्ते लम्बमानानधोमुखान् । एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् । तं तन्तुञ्च शनैराखुमाददानं विलेशयम् ॥”)