संस्कृत-शब्दकोशः

बुद्धान्त बुद्धिकामा

बुद्धि

वाचस्पत्यम्

बुद्धि ||‍ स्त्री० बुध—क्तिन् । १ ज्ञाने, २ सुखदुःखाद्यष्टबिध- धर्मयुते प्रकृतिपरिणामभेदे “महत्तत्त्वमिति प्रोक्तं बुद्धि- तत्त्वं तदुच्यते” सां० प्र० भा० धृतवाक्यम् । वेदान्तोक्ते निश्चयात्मकवृत्तियुते ३ अन्तःकरणे च । “मनोबुद्धिरह- ङ्कारश्चित्तं करणयान्तरम् । संशयो निश्चयो गर्बः स्मरणं विषया अमी” वेदान्तप० । ४ धर्मपत्नीभेदे भा० आ० ६६ अ० । कणा० सूत्रोपस्करवृत्तौ सांख्यमतसिद्धमहत्तत्वरूपबुद्धितत्व- निराकरणेन बुद्धेर्ज्ञानपर्य्यायता तद्भोदाश्चोका यथा “द्र- व्येषु ज्ञानं व्याख्यातम्” सू० “विषयेण तिषयिणं तृतीया- ध्यायस्थमुपलक्षयति । “इन्द्रियार्यप्रसिद्धिरिन्द्रियार्थेभ्योऽर्था न्तरस्य हेतुः” “आत्मेन्द्रियार्थसन्निकर्षाद् यन्निष्पद्यते तद- न्यत्र” इत्येताभ्यां सूताभ्यां ज्ञानं व्याख्यातमित्यर्था” । तत्र बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्य्यायाः” गौ० सू० समान- तन्त्रे बुद्धिलक्षणे साङ्ख्यमतनिरासार्थं पर्थ्यायाभिधानम् । साङ्ख्या हि बुद्ध्यादिशब्दानामर्थभेदमाचक्षते तथा हि सत्त्व- रजस्तमसां साम्यावस्था प्रकृतिः, सा चैकैव पुरुषास्तु परं भिद्यन्ते ते च कूटस्था नित्या अपरिणाभिनो नित्यचैतन्य- स्वभावाः ते च पङ्गवोऽपरिणामित्वात् पकृतिस्त्वन्धा जड- वात यदा विषयभोनेच्छा प्रकृतिपुरुषभेददिदृक्षा च प्रकृते- र्भवति तदा सा पुरुषोपरागवशात् परिणमेत् तस्याश्चाद्यः गरिणामो द्धिरन्तःकरणविशेषः बुद्धिरेव महत्तत्र तदु- क्तम् “प्रकृतेर्सहान्” इति सां० सू० । सा च बुद्धिर्दर्पणवान्न र्मला तस्याश्च बहिरिन्द्रियप्रणाडिकया विषयाकारो यः परिणतिभेदो घट इति पट इत्याद्याकारस्तज्ज्ञानं वृत्ति- रिति चाख्यायते खच्छार्या बुद्धौ वर्त्तमानेन ज्ञानेन चैत- ज्यस्य पुरुषस्य भेदाग्रहादहं जानामीति यौऽभिमानविशेषः सैवोपलब्धिः । स्रक्चन्दनादिविषयसन्नि कर्षादिन्द्रियप्रणा- डिकयैव सुखदुःखाद्याकारो बुद्धेरेव यः परिणामविशेषः स प्रत्ययः । अतएव ज्ञानसुखदुःखेच्छाद्वेषप्रयत्नसंस्कारध- र्माऽधर्माः सर्वएव बुद्धेः परिणामविशेषाः सूक्ष्ममात्रया प्रकृतावे वर्त्तमाना अवस्थाभेदादाविर्भवन्ति तिरोभवन्ति च । पुरुषस्तु पुष्करपलाशवन्निर्लेपः प्रतिविम्बते परं बुद्धा- वितिं यन्मन्यन्ते । तदनेन पर्य्यायाभिधानसूचितप्रमाणेन निराक्रियते तथा हि बुद्धिशब्दो यदि बुध्यतेऽनयेति कर- णव्युत्पन्नस्तदा मन एव तत्पर्य्यवस्यति नच मनः प्रत्यक्षम् बुद्धिस्त्वहं बुध्ये इति प्रत्यक्षवेद्यैव । नचान्तःकरणस्य ज्ञाना- द्याधर्मा कर्तृधर्मत्वेनैव तेषां सिद्धेः भवति हि अहं जाने अहं प्रत्येमि अहमुपलभे इत्यहन्त्वसामानाधिकरण्येन प्रतिभासः । अभिमानोऽसाविति चेत् तात्त्विकत्वे वाधका- भावात् । पुरुषस्यागन्तुकधरानाधारत्वं कूटस्थत्वं तदेव बाधकमिति चेन्नामन्तुकधर्माधारत्वेऽपि नित्यत्वसम्भवात् न हि धर्मी धर्मश्चेत्येकं तत्त्वं येन धर्मोत्पादविनाशावेव धर्म्युत्पादविनाशौ स्यातां तथा च यएव चेतायते स एव बुध्यते जानात्युपलभ्यते पत्येति चेति नार्थान्तरकल्पना युक्तेति दिक् । तच्च ज्ञानं द्विविधं विद्या चाविद्या च विद्या चतुर्व्विधा प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा । अवि० द्याऽपि चतुर्व्विधा संशयविपर्य्ययस्वप्नानध्यावसायलक्षणा । तत्र यल्लैङ्गिकं तदनिन्द्रियजम् कुतएतदित्याह” उप० वृ० । “तत्रात्मा मनश्चाप्रत्यक्षे” कणा० सू० । “आत्माऽत्र परात्मा स्वात्मा वा खात्मनि मानसस्य क्वा० चित्काहम्प्रत्ययस्याहं गौरः कृशो महाबाहुरिव्यादि प्रत्ययतिरस्कृतत्वात् स्वात्मनोऽप्यप्रत्यक्षतोक्ता । चकारादा- काशकालदिशां षायोः परमाणूनाञ्च द्रव्याणामुपग्रहः । इन्द्रियजमपि द्विविधं सर्वज्ञीयमसर्वज्ञीयञ्च सर्वज्ञीयं योग- जधर्मलक्षणया प्रत्यासत्त्या तत्तत्पदार्थसार्थज्ञानं तथा हि परमाणवः प्रत्यक्षप्रसक्ताः प्रमेयत्वादभिधेयत्वात् सत्त्वात् । सामग्रीविरहात् कथमेवं महत्त्वस्यापि प्रत्यक्षं प्रति कारणत्वात् न च परमाणवो महन्तः रूपवत्त्व- स्यापि चाक्षुषप्रत्यक्षकारणत्वात् न च दिगादयो रूपवन्त इति चेन्न योगजधर्मसहकारिणा मनसैव तत्सम्भवात् तदुपग्रहाच्चक्षुरादिना वा । अचिन्त्यप्रभावोहि योगजो धर्मो न सहकार्य्यन्तरमपेक्षते । विवादाध्यासितः पुरुषो न सर्वज्ञः पुरुषत्वादहमिवेत्यादि तु प्रामाकरो न मीमां- साभिज्ञः पुरुषत्वादहमिवेत्यादिवद्विपक्षबाधकतर्कशून्य- त्वादप्रयोजकम् । असर्वज्ञीयञ्च प्रत्यक्षं द्विविधं सविकल्पकं निर्विकल्पकञ्च सविकल्पकं ज्ञानं न प्रमाणमिति कीर्त्ति- दिङ्नागादयः तथा हि अभिलापर्ससगेयोग्यप्रतिभासं हि तत् नह्यभिलापेन नाम्ना सम्भवत्यर्थस्य सम्बन्धो येन घट इति पट इति वा नामानुरञ्जितः प्रत्ययः स्यात् नच जात्यादि परमार्थसत् येन तद्वैशिष्ट्यं बिषयेषु इन्द्रिय गोचरः तस्मादिन्द्रियेणालोचनं जन्यते आलोचनमहिम्ना च सबिकल्पकमुत्पद्यमानं तत्रार्थे प्रवर्त्तयत् प्रत्यक्षमिति चोच्यते इति । तच्चैतदनुपपन्नमभिलापसंसर्गयोग्यप्रति- भासञ्च भवेत् प्रमाणञ्चेन्द्रियार्थसन्निकर्षजन्यं स्यादिति सन्दिग्धव्यतिरेकित्वं नामवैशिष्ठ्यञ्च चाक्षुषज्ञाने सम्भव- त्येव सुरभि चन्दनमितिवदुवनीतभानसम्भवात् । यद्वा संज्ञावैशिष्ठ्यं प्रत्यक्षज्ञाने न भासते संज्ञायाः स्मरणमात्रम् स्मृतैव साऽर्थव्यावर्त्तिका अभावज्ञाने प्रतियोगिस्मरणवत् जात्यादिकञ्च वस्तुभूतं साधितमेबातः सविकल्पकमपीन्द्रि- यार्थसन्निकर्षजत्वात् प्रत्यक्षम् प्रमाणम् । ननु निर्विकल्पकं न व्यवहारप्रवर्त्तकं न वा व्यवहारविषय इति किन्तत्र प्रमाणमिति चेत् सविकल्पकमेव तद्धि विशिष्टज्ञानम् न च विशेषणज्ञानमन्तरेण तदुत्पद्यते विशिष्टज्ञाने हि विशे- षणज्ञानविशेष्येन्द्रियसन्निकर्षतटुभयासंसर्गाग्रहस्य कार- णत्वावधारणात्” उपस्करवृत्तिः । “सा च सात्त्विकराजसतामसभेदेन त्रिविधा । तत्र सा- त्त्विकी यथा “प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये । बन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थ! सात्त्विकी” । राजसी यथा “यया धर्ममधर्मञ्च कार्य्यञ्चाकार्य्यमेव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ! राजसी” । तामसी यथा “अधर्मं धर्ममिति या मन्यते तमसावृता । मर्वा- र्थान् विपरीतांश्च बुद्धिः सा पार्थ! तामसी” गीता० तस्याः पञ्चगुणा यथा । “इष्टाऽनिष्टविपत्तिश्च व्यव- सायः समाधिता । संशयप्रतिपत्तिश्च बुद्धेः पञ्च गु- णान् विदुः” महाभारते मोक्षधर्मः “इष्टानि- ष्टविपत्तिः इष्टानिष्टार्ना वृत्तिविशेषाणां विपत्तिर्नाशः निद्रास्वपा वृत्तिरित्यर्थः । व्यवसायः उत्साहः । समा- धिता चित्तस्थैर्य्यं चित्तवृत्तिनिरोध इत्यर्थः संशयः द्वयस्पृक् ज्ञानम् । प्रतिपत्तिः प्रत्यक्षादिप्रमाणवृत्तिः” तट्टीका । तस्याः सप्त गुणा यथा “शुश्रूषा श्रवण- ञ्चैव ग्रहणं धारणन्तथा । ऊहापोहोऽर्थविज्ञानं तत्त्व- ज्ञानञ्च धीगुणाः” हेमच० । तस्या वृत्तिः पञ्चधा यथा । “प्रमाणविपर्य्ययविकल्पनिद्रास्मृतयः” पात० सू० तल्लक्षणं च तत्तच्छब्दे दृश्यम् । बुद्धिक्षयकरा यथा “शोकः क्रोधश्च लोभश्च कामो मोहः परासुता । ईर्ष्या मानो विचिकित्सा हिंसाऽसूया जुगुप्सता । द्वादशैते बुद्धिनाशहेतवो मानसा मलाः” । कालिकापु० १८ अ० । “बुद्धिक्षयकरा एते माषकासार- मृत्तिकाः” । बुद्धिवृद्धिकरा यथा “निम्बाटरूषवृन्ताश्च बुद्धिवृद्धिकरा मताः । बुद्धिक्षयकरान्नित्यं त्यजेद्राजा च भोजने । भोजयेदन्वहं बुद्धिवृद्धिहेतुं नृपोत्तमः । काकिकापु० ८९ अ० ।


शब्दकल्पद्रुमः

बुद्धिः is an alternate of वुद्धिः. वु(बु)द्धिः || स्त्री (वुध + क्तिन् ।)
आत्मनो गुण- विशेषः । सा त्रिविधा यथा, —
“प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये । बन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ यया धर्म्ममधर्म्मञ्च कार्य्यञ्चाकार्य्यमेव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥ अधर्म्मं धर्म्ममिति या मन्यते तमसावृता । सर्व्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥” इति श्रीभगद्गीतायाम् १८ अध्यायः ॥


शब्दकल्पद्रुमः

बुद्धिः || स्त्री (बुध्यतेऽनयेति । बुध् + क्तिन् ।)
निश्चयात्मिकान्तःकरणवृत्तिः । इति वेदान्त- सारः ॥ सविकल्पकज्ञानम् । इति चण्डी- टीकायां नागभट्टः ॥ तत्पर्य्यायः । मनीषा २ धिषणा ३ धीः ४ प्रज्ञा ५ शेमुषी ६ मतिः ७ प्रेक्षा ८ उपलब्धिः ९ चित् १० सम्बित् ११ प्रतिपत् १२ ज्ञप्तिः १३ चेतना १४ । इत्यमरः । १ । ५ । १ ॥ धारणा १५ प्रतिपत्तिः १६ मेधा १७ मननम् १८ मनः १९ ज्ञानम् २० बोधः २१ हृल्लेखः २२ संख्या २३ प्रतिभा २४ । इति राजनिर्घण्टः ॥ आत्मजा २५ पण्डा २६ विज्ञा- नम् २७ । इति शब्दरत्नावली ॥ * ॥
अस्याः स्वरूपं यथा, —
“बुद्धिर्विवेचनारूपा सा ज्ञानजननी श्रुतौ ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥ अस्या अध्यात्माधिभूताधिदैवतानि यथा, —
“अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी । अधिभूतञ्च मन्तव्यं ब्रह्मा तत्राधिदैवतम् ॥” इति महाभारते आश्वमेधिकपर्व्व ॥ * ॥
सा च सात्त्विकराजसतामसभेदेन त्रिविधा । सात्त्विकी यथा, —
“प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये । बन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थ ! सात्त्विकी ॥” राजसी यथा, —
“यथा धर्म्ममधर्म्मञ्च कार्य्यञ्चाकार्य्यमेव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ ! राजसी ॥” तामसी यथा, —
“अधर्म्मं धर्म्ममिति या मन्यते तमसावृता । सर्व्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ ! तामसी ॥” इति श्रीभगवद्गीता ॥ तस्याः पञ्च गुणा यथा, —
“इष्टानिष्टविपत्तिश्च व्यवसायः समाधिता । संशयः प्रतिपत्तिश्च बुद्धेः पञ्च गुणान् विदुः ॥” इति महाभारते मोक्षधर्म्मः । इष्टानिष्टविपत्तिः इष्टानिष्टानां वृत्तिविशेषाणां विपत्तिर्नाशः निद्रारूपा वृत्तिरित्यर्थः । व्यव- सायः उत्साहः । समाधिता चित्तस्थैर्य्यं चित्तवृत्तिनिरोध इत्यर्थः । संशयः कोटिद्बयस्पृक् ज्ञानम् । प्रतिपत्तिः प्रत्यक्षादिप्रमाणवृत्तिः । इति तट्टीका ॥ * ॥
तस्याः सप्त गुणा यथा —
“शुश्रूषा श्रवणञ्चैव ग्रहणं धारणन्तथा । ऊहोपोहोऽर्थविज्ञानं तत्त्वज्ञानञ्च धीगुणाः ॥” इति हेमचन्द्रः ॥ * ॥
तस्या वृत्तिः पञ्चधा यथा । प्रमाणम् १ विप- र्य्ययः २ विकल्पः ३ निद्रा ४ स्मृतिः ५ । इति पातञ्जलम् ॥ * ॥
बुद्धिक्षयकरा यथा, —
“शोकः क्रोधश्च लोभश्च कामो मोहः परासुता । ईर्ष्या मानो विचिकित्सा कृपासूया जुगुप्सता ॥ द्वादशैते बुद्धिनाशहेतवो मानसा मलाः ।” इति कालिकापुराणे १८ अध्यायः ॥ * ॥
अपि च । “बुद्धिक्षयकरा एते माषकासवमृत्तिकाः ॥” बुद्धिबृद्धिकरा यथा, —
“निम्बाटरूषवृन्ताश्च बुद्धिवृद्धिकरा मताः ॥ बुद्धिक्षयकरान्नित्यं त्यजेद्राजा च भोजने । भोजयेदन्वहं बुद्धिबृद्धिहेतुं नृपोत्तम ! ॥” इति कालिकापुराणे ८९ अध्यायः ॥ * ॥
न्यायमते सा विभुगुणः पुनर्द्विविधा अनुभूतिः स्मृतिश्च । यथा, —
“विभुर्बुद्ध्यादिगुणवान् बुद्धिस्तु द्विविधा मता । अनुभूतिः स्मृतिश्च स्यादनुभूतिश्चतुर्विधा ॥ प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे ।” इति भाषापरिच्छेदः ॥



Correction: