संस्कृत-शब्दकोशः

बुभुक्षा बुल

बुभुक्षित

वाचस्पत्यम्

बुभुक्षित ||‍ त्रि० बुभुक्षा + तार० इतच् । क्षुधायुक्ते “बुभुक्षितः किं द्विकरेण भुङ्क्ते” इत्युद्भटः ।


शब्दकल्पद्रुमः

बुभुक्षितः || त्रि (बुभुक्षा भोजनेच्छा सञ्जातास्य । वुभुक्षा + “तदस्य संजातं तारकादिभ्य इतच् ।” ५ । २ । ३६ । इति इतच् ।)
क्षुधितः । इत्य- मरः । ३ । १ । १० ॥ (यथा, मनुः । १० । १०५ । “अजीगर्त्तः सुतं हन्तुमुपासर्पद्वुभुक्षितः । न चालिप्यत पापेन क्षुत्प्रती कारमाचरन् ॥”)



Correction: