वाचस्पत्यम्
बोधक || त्रि० बुध—णिच् ण्वुल् । १ ज्ञानजनके बोधकरे सूचके वैतालिके शब्दमा० ।
शब्दकल्पद्रुमः
बोधकः || पुं, (बोधयतीति । बुध् + णिच् + ण्वुल् ।)
सूचकः । इति शब्दमाला ॥ पुस्तकान्तरे बाधकोऽपि पाठः । बोधजनके त्रि ॥ (यथा, स्राहित्यदर्पणे । २ । ४ । “वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः ॥”)