संस्कृत-शब्दकोशः

बोधिसत्त्व बौध

बौद्ध

वाचस्पत्यम्

बौद्ध ||‍ न० बुद्धेन प्रोक्तमण् । १ बुद्धशास्त्रभेदे तच्च शास्त्रं प्रथमं वृहस्पतिना प्रयुक्तं तच्च बुद्धावतारे प्रपञ्चितम् । यथोक्तं मत्स्यपु० २४ अ० । “आयुषो नहुषः पुत्रो वृद्धशर्मा तथैव च । रजिर्दम्भो विपाप्मा च वीराः पञ्च महारथाः । रजेः पुत्रशतं जज्ञे राजेयमिति विश्रुतम्” इत्युपक्रमे “रजिपुत्रैस्तदा- छिन्नं षलादिन्द्रस्य वैभवम् । यज्ञभागश्च राज्यञ्च तपोबल गुणान्यितैः । राज्याद् भ्रष्टस्तदा शक्रो रजिपुत्रैर्निपी- डितः । प्राह वाचस्पतिंदीनः पीडितोऽस्मि रजेः सुतैः । न यज्ँअभागो राज्यं मे निर्जितश्च बृहस्पते! । राज्य- लाभाय मे यत्नं बिधत्स्व धिषणाधिप! । ततो बृहस्पतिः शक्रमकरोद्बलदर्पितम् । ग्रहशान्तिविधानेन पौष्टि- केन च कर्मणा । गत्वाथ मोहयामास रजिपुत्रान् बृह० स्पतिः । जिनधर्मं समास्थाय वेदबाह्यं स वेदवित् । वेदत्रयीपरिभ्रष्टांश्चकार धिषणाधिपः । वेदबाह्यान् परि- ज्ञाय हेतुवादसमन्वितान् । जघान शक्रो वज्रेण सर्वान् धर्मबहिष्कृतान्” । तदधीते वेत्ति वा पुनः अण् । २ तच्छ- त्राध्यायिनि ३ तद्वे त्तरि च त्रि० । बुद्धशब्दे तन्मतं दर्शितम् ।


शब्दकल्पद्रुमः

बौद्धं is an alternate of वौद्धं. वौ(बौ)द्धं || क्ली (बुद्धेन कृतम् । वुद्ध + अण् ।)
वुद्ध- कृतनिरीश्वरशास्त्रम् । तत् सर्व्वैः शास्त्रकारैः खण्डितं अतएवाग्राह्यम् । जिनधर्म्मः । यथा, “ततो बृहस्पतिः शक्रमकरोद्बलदर्पितम् । ग्रहशान्तिविधानेन पौष्टिकेन च कर्म्मणा ॥ गत्वाथ मोहयामास राजपुत्त्रान् बृहस्पतिः । जिनधर्म्मं समास्थाय वेदवाह्यं स वेदवित् ॥ वेदत्रयीपरिभ्रष्टांश्चकार धिषणाधिपः । वेदवाह्यान् परिज्ञाय हेतुवादसमन्वितान् । जघान शक्रो वज्रेण सर्व्वधर्म्मबहिष्कृतान् ॥” इति मात्स्ये सोमवंशानुकीर्त्तनं नाम २४ अः ॥ बुद्धसम्बन्धिनि, त्रि ॥


शब्दकल्पद्रुमः

बौद्धं || क्ली (बुद्धेन प्रणीतम् । बुद्ध + अण् ।)
बुद्धकृतनिरीश्वरशास्त्रम् । तत् सर्व्वैः शास्त्र कारैः खण्डितं अग्राह्यम् । इति श्रीभागवतम् । बौद्धशास्त्रसंस्थापनकर्त्ता बृहस्पतिः । यथा, —
“प्राह वाचस्पतिं देवः पीडितोऽस्मि रजेः सुतैः । न यज्ञभागो राज्यं मे निर्जितश्च बृहस्पते ! । राज्यलाभाय मे यत्नं विधत्स्व धिषणाधिप ! ॥ ततो बृहस्पतिः शक्रमकरोद्बलदर्पितम् । ग्रहशान्तिविधानेन पौष्टिकेन च कर्म्मणा ॥ गत्वाथ मोहयामास राजपुत्त्रान् बृहस्पतिः । जिनधर्म्मं समास्थाय वेदवाह्यं स वेदवित् ॥ वेदत्रयीपरिम्रष्टांश्चकार धिषणाधिपः । वेदवाह्यान् परिज्ञाय हेतुवादसमन्वितान् । जघान शक्रो वज्रेण सर्व्वधर्म्मबहिष्कृतान् ॥” इति मात्स्ये २४ अध्यायः ॥ (बौद्धदर्शनं यथा, सर्व्वदर्शनसंग्रहे । “अत्र बौद्धैरभिधीयते यदभ्यध्यायि अविनाभावो दुर्बोध इति तदसाधीयः तादात्म्यतदुत्पत्तिभ्या- सविनाभावस्य सुज्ञानत्वात् । तदुक्तम्, “कार्य्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमो दर्शनान्तरदर्शनात् ॥” इति ॥ अन्वयव्यतिरेकावविनाभावनिश्चायकावितिपक्षे साध्यसाधनयोरव्यभिचारो दुरवधारणो भवेत् भूते भविष्यति वर्त्तमाने अनुपलभ्यमानेऽपि व्यभिचारशङ्काया अनिवारणात् । ननु तथा- विधस्थले तावकेऽपि मते व्यभिचारशङ्का दुष्परिहरेति चेत् मैवं वोचः विनापि कारणं कार्य्यमुत्पद्यतामिमेवंविधायाः शङ्काया व्याघा- तावधिकतया निवृत्तत्वात् । तदेव ह्याशङ्क्येत यस्मिन्नाशङ्क्यमाने व्याघातादयो नावतरेयुः तदुक्तं व्याघातावधिराशङ्केति । तस्मात्तदुत्पत्ति- निश्चयेन अविनाभावो निश्चीयते तदुत्पत्ति- निश्चयश्च कार्य्यहेत्वोः प्रत्यक्षोपलम्भानुपलम्भ- पञ्चकनिबन्धनः । कार्य्यस्योत्पत्तेः प्रागनुपलम्भः कारणोपलम्भे सत्युपलम्भः उपलब्धस्य पश्चात् कारणानुपलम्भादनुपलम्भ इति पञ्चकारण्या धूमधूमध्वजयोः कार्य्यकारणभावो निश्चीयते तथा तादात्म्यंनिश्चयेनाप्यविनाभावो निश्चीयते यदि शिंशपा वृक्षत्वमतिपतेत् स्वात्मानमेव जह्यादिति विपक्षे बाधकप्रवृत्तेः अप्रवृत्ते तु बाधके भूयः सहभावोपलम्भेऽपि व्यभिचार- शङ्कायाः को निवारयिता । शिंशपावृक्षयोश्च तादात्म्यनिश्चयो वृक्षोऽयं शिंशपेति सामाना- धिकरण्यबलादुपपद्यते । न ह्यत्यन्ताभेदे तत् सम्भवति पर्य्यायत्वेन युगपदपि प्रयोगायोगात् नाप्यत्यन्तभेदे गवाश्वयोरनुपलम्भात् । तस्मात् कार्य्यात्मानौ कारणमात्मानमनुमापयत इति सिद्धम् । यदि कश्चित् प्रामाण्यमनुमानस्य नाङ्गीकुर्य्यात् तं प्रति ब्रूयात् अनुमानं प्रमाणं न भवतीत्ये- तावन्मात्रमुच्यते तत्र न किञ्चन साधनमुप- न्यस्यते उपन्यस्यते वा । न प्रथमः एकाकिनी प्रतिज्ञा हि प्रतिज्ञातं न साधयेदिति न्यायात् । नापि चरमः अनुमानं प्रमाणं न भवतीति ब्रुवाणेन त्वया अशिरस्कवचनस्योपन्यासे मम माता बन्ध्येतिवद्व्याघातापातात् । किञ्च प्रमाण- तदाभासव्यवस्थापनं तत्समानजातीयत्वादिति वदता भवतैव स्वीकृतं स्वभावानुमानम् । पर- गता विप्रतिपत्तिस्तु वचनलिङ्गेनेति ब्रुवता कार्य्यलिङ्गकमनुमानम् अनुपलब्ध्या कञ्चिदर्थं प्रतिषेधयतानुपलब्धिलिङ्गकमनुमानम् । तथा- चोक्तं तथागतैः । “प्रमाणान्तरसामान्यस्थितिरन्यधियां गतेः । प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ॥” इति ॥ पराक्रान्तञ्चात्र सूरिभिरिति ग्रन्थभूयस्त्वभया- दुपरम्यते । ते च बौद्धाश्चतुर्विधया भावनया परमपुरुषार्थं कथयन्ति । ते च माध्यमिकयोगाचारसौत्रा- न्तिकवैभाषिकसंज्ञाभिः प्रसिद्धा बौद्धा यथा- क्रमं सर्व्वशून्यत्व-वाह्यशून्यत्व-बाह्यार्थानुमेयत्व- वाह्यार्थप्रत्यक्षत्ववादानातिष्ठन्ते । यद्यपि भग- वान् बुद्ध्व एक एव बोधयिता तथापि बोद्ध- व्यानां बुद्धिभेदाच्चातुर्विध्यं यथा गतोऽस्तमर्क इत्युक्ते जारचौरानूचानादयः स्वेष्टानुसारेणा- भिसरणपरस्वहरणसदाचरणादिसमयं बुध्यन्ते । सर्व्वं क्षणिकं क्षणिकं दुःखं दुःखं स्वलक्षणं स्वलक्षणं शून्यं शून्यमिति भावनाचतुष्टयमुप- दिष्टं द्रष्टव्यम् । तत्र क्षणिकत्वं नीलादिक्षणानां सत्त्वेनानुमातव्यं यत् सत् तत् क्षणिकं यथा जलधरपटलं सन्तश्चामी भावा इति । न चाय- मसिद्धो हेतुः अर्थक्रियाकारित्वलक्षणस्य सत्त्वस्य नीलादिक्षणानां प्रत्यक्षासिद्धत्वात् व्यापक- व्यावृत्त्या व्याप्यव्यावृत्तिन्यायेन व्यापकक्रमा- क्रमव्यावृत्तावक्षणिकात् सत्त्वव्यावृत्तेः सिद्ध- त्वाच्च । तच्चार्थक्रियाकारित्वं क्रमाक्रमाभ्यां व्याप्तं न च क्रमाक्रमाभ्यामन्यः प्रकारः समस्ति परस्परविरोधे हि न प्रकारान्तरस्थितिः । नैकतापि विरुद्धानामुक्तिमात्रविरोधत इति न्यायेन व्याघातस्योद्भटत्वात् । तौ च क्रमाक्रमौ स्थायिनः सकाशाद्व्यावर्त्तमानौ अर्थक्रियामपि व्यावर्त्तयन्तौ क्षणिकत्वपक्ष एव सत्त्वं व्यवस्था- पयत इति सिद्धम् । नन्वक्षणिकस्यार्थक्रियाकारित्वं किं न स्यादिति चेत् तदयुक्तं विकल्पासहत्वात् तथा हि वर्त्त- मानार्थक्रियाकरणकाले अतीतानागतयोः किमर्थक्रिययोः स्थायिनः सामर्थ्यमस्ति नो वा । आद्ये तयोरनिराकरणप्रसङ्गः समर्थस्य क्षेपा- योगात् यत् यदा यत्करणसमर्थं तत् तदा तत्- करोत्येव यथा सामग्री स्वकार्य्यं समर्थश्चायं भाव इति प्रसङ्गानुमानाच्च । द्वितीयेऽपि कदापि न कुर्य्यात् सामर्थ्यमात्रानुबन्धित्वादर्थ- क्रियाकारित्वस्य यत् यदा यन्न करोति तत् तदा तत्रासमर्थं यथा हि शिलाशकलमङ्कुरे न चैष वर्त्तमानार्थक्रियाकरणकाले वृत्तवर्त्तिष्य माणे अर्थक्रिये करोतीति तद्विपर्य्ययाच्च । ननु क्रम- वत्सहकारिलाभात् स्थायिनः अतीतानागतयोः क्रमेण क्रमणमुपपद्यते इति चेत् तत्रेदं भवान् पृष्टो व्याचष्टां सहकारिणः किं भावस्योप- कुर्व्वन्ति न वा न चेत् नापेक्षणीयास्ते अकि- ञ्चित् कुर्व्वतां तेषां तादात्म्यायोगात् । उप- कारकत्वपक्षे सोऽयमुपकारः किं भावाद्भिद्यते न वा भेदपक्षे आगन्तुकस्यैव तस्य कारणत्वं स्यात् न भावस्याक्षणिकस्य आगन्तुकातिशया- न्वयव्यतिरेकानुविधायित्वात् । कार्य्यस्य । तदु- क्तम् । “वर्षातपाभ्यां किं व्योम्नश्चर्म्मण्यस्ति तयोः फलम् । चर्म्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्फलः ॥” इति । अथ भावस्तैः सहकारिभिः सहैव कार्य्यं करो- तीति स्वभाव इति चेत् अङ्ग तर्हि सहकारिणो न जह्यात् प्रत्युत पलायमानानपि गले पाशेन बद्ध्वा कृत्यं कार्य्यं कुर्य्यात् स्वभावस्यानपायात् । किञ्च सहकारिजन्योऽतिशयः किमतिशया- न्तरमारभते न वा उभयथापि प्रागुक्तदूषण- पाषाणवर्षणप्रसङ्गः । अतिशयान्तरारम्भपक्षे बहुमुखानवस्थादौस्थ्यमपि स्यात् अतिशये जनयितव्ये सहकार्य्यन्तरापेक्षायां तत्परम्परा- पात इत्येकानवस्थाऽऽस्थेया तथाहि सह- कारिभिः सलिलपवनादिभिः पदार्थसार्थैराधी- यमाने बीजस्यातिशये बीजमुत्पादकमभ्युपेयम् अपरथा तदभावेऽप्यतिशयः प्रादुर्भवेत् बीज- ञ्चातिशयमादधानं सहकारिसापेक्षमेवाधत्ते अन्यथा सर्व्वदोपकारापत्तौ अङ्कुरस्यापि सदो- दयः प्रसज्येत । तस्मादतिशयार्थमपेक्षमाणैः सहकारिभिरतिशयान्तरमाधेयं बीजे तस्मिन्न- प्युपकारे पूर्ब्बन्यायेन सहकारिसापेक्षस्य बीजस्य जनकत्वे सहकारिसम्पाद्यबीजगताति- शयानवस्था प्रथमा व्यवस्थिता । अथोपकारः कार्य्यार्थमपेक्षमाणोऽपि बीजादिनिरपेक्षं कार्य्यं जनयति तत्सापेक्षो वा । प्रथमे बीजादेरहेतु- त्वमापतेत् । द्बितीये अपेक्ष्यमाणेन बीजादिना उपकारे अतिशय आधेयः एवं तत्र तत्रा- पीति बीजादिजन्यातिशयनिष्ठातिशयपरम्परा- पात इति द्वितीयानवस्था स्थिरा भवेत् । एव- मपेक्ष्यमाणेनोपकारेण बीजादौ धर्म्मिण्युप- कारान्तरमाधेयमित्युपकाराधेयबीजातिशया- श्रयातिशयपरम्परापात इति तृतीयानवस्था दुरवस्था स्यात् । अथ भावादभिन्नोऽतिशयः सहकारिभिराधीयत इत्यभ्युपगम्यते तहि प्राचीनो भावोऽनतिशयात्मा निवृत्तः अन्यश्चा- तिशयात्मा कुर्व्वद्रूपादिपदवेदनीया जायत इति फलितं ममापि मनोरथद्रुमेण । तस्मादक्षणिकस्यार्थक्रिया दुर्घटा नाप्यक्रमेण घटते विकल्पासहत्वात् । तथाहि युगपत- सकलकार्य्यकरणसमर्थः स भावस्तदुत्तरकालमनु- वर्त्तते न वा । प्रथमे तत्कालवत् कालान्तरेऽप्रि तावत् कार्य्यकारणमापतेत् । द्बितीये स्थायि- त्ववृत्त्याशा मूषिकभक्षितबीजादावङ्कुरादि- जननप्रार्थनामनुहरेत् । यद् विरुद्धधर्म्माध्यस्तं तन्नाना यथा शीतोष्णे । विरुद्धधर्म्माध्यस्त- श्चायमिति जलधरे प्रतिबन्धसिद्धिः । न चाय- मसिद्धो हेतुः स्थायिनि कालभेदेन सामर्थ्यासा- मर्थ्ययोः प्रसङ्गतद्विपर्य्ययसिद्धत्वात्तत्रासामथ्य- साधकौ प्रसङ्गतद्विपर्य्ययौ प्रागुक्तौ सामर्थ्य- साधकावभिधीयेते यद्यदा यज्जननासमर्थं तत्तदा तन्न करोति यथा शिलाशकलमङ्कुरम् असमर्थश्चायं वर्त्तमानार्थक्रियाकरणकाले अतीतानागतयोरथक्रिययोरिति प्रसङ्गः यद्- यदा यत् करोति तत्तदा तत्र समर्थं यथा सामग्री स्वकार्य्ये करोति चायमतीतानागतकाले तत्- कालवर्त्तिन्यावर्थक्रिये भाव इति प्रसङ्गव्यत्ययः विपर्य्ययः । तस्माद्विपक्षे क्रमयौगपद्यव्यावृत्त्या व्यापकानुपलम्भेनाधिगतव्यतिरेकव्याप्तिकं प्रसङ्ग- तद्विपर्य्ययबलात् ग्रहीतान्वयव्याप्तिकं सत्त्वं क्षणिकत्वपक्ष एव व्यवस्थास्यतीति सिद्धम् । तदुक्तं ज्ञानश्रिया । “यत् सत्तत् क्षणिकं यथा जलधरः सन्तश्च भावा अमी सत्ताशक्तिरिहार्थकर्म्मणि मितेः सिद्धेषु सिद्धा न सा । नाप्येकैव विधान्यथा परकृतेनापि क्रियादिर्भवेत् । द्वेधापि क्षणभङ्गसङ्गतिरतः साध्ये च विश्रा- म्यति ॥” इति ॥ न च कणभक्षाक्षचरणादिपक्षकक्षीकारेण सत्तासामान्ययोगित्वमेव सत्वमिति मन्तव्यं सामान्यविशेषसमवायानामसत्त्वप्रसङ्गात् । न च तत्र स्वरूपसत्तानिबन्धनः सद्व्यवहारः प्रयो- जकगौरवापत्तेः अनुगतत्वाननुगतत्वविकल्प- पराहतेश्च सर्षपमहीधरादिषु विलक्षणेषु क्षणेष्वनुगतस्याकारस्य मणिषु सूत्रवद्भूतकणेषु गुणवच्चाप्रतिभासनाच्च । किञ्च सामान्यं सर्व्व- गतं स्वाश्रयसर्व्वगतं वा प्रथमे सर्व्ववस्तुसङ्कर- प्रसङ्गः अपसिद्ध्वान्तापत्तिश्च यतः प्रोक्तं प्रशस्त- पादेन स्वविषयसर्व्वगतमिति । किञ्च विद्यमाने घटे वर्त्तमानं सामान्यमन्यत्र जायमानेन सम्बध्यमानं तस्मादागच्छत् सम्बध्यते अनाग- च्छद्वा आद्ये द्रव्यत्वापत्तिः द्वितीये सम्बन्धानुप- पत्तिः । किञ्च विनष्टे घटे सामान्यमवतिष्ठते विनश्यति स्थानान्तरं गच्छति वा प्रथमे निरा- धारत्वापत्तिः द्वितीये नित्यत्ववाचो युक्त्ययुक्तिः ष्टतीये द्रव्यत्वप्रसक्तिः इत्यादि दूषणग्रहग्रस्त- त्वात् सामान्यमप्रामाणिकम् । तदुक्तम् । “अन्यत्र वर्त्तमानस्य ततोऽन्यस्थानजन्मनि । तस्मादचलतः स्थानाद्वृत्तिरित्यतियुक्तता ॥ यत्रासौ वर्त्तते भावस्तेन सम्बध्यते न तु । तद्देशिनञ्च व्याप्नोति किमप्येतन्महाद्भुतम् ॥ न याति न च तत्रासीदस्ति पश्चान्नचांशवत् । जहाति पूर्ब्बं नाधारमहो व्यसनसन्ततिः ॥” इति ॥ अनुवृत्तप्रत्ययः किमालम्बन इति चेत् अङ्ग अन्यापोहालम्बन एवेति सन्तोष्टव्यमायुष्मतेति अलमतिप्रसङ्गेन । सर्व्वस्य संसारस्य दुःखात्मकत्वं सर्व्वतीर्थकर- सम्मतम् अन्यथा तन्निविवृत्सूनां तेषां तन्निवृत्त्यु- पाये प्रवृत्त्यनुपपत्तेः । तस्मात् सर्व्वं दुःखं दुःखमिति भावनीयम् । ननु किंवदिति पृष्टे दृष्टान्तः कथनीय इति चेन्मैवं स्वलक्षणानां क्षणानां क्षणिकतया सालक्षण्याभावात् नैतेन सदृशमपरमिति वक्तुमशक्यत्वात् । ततः स्वल- क्षणं स्वलक्षणमिति भावनीयम् एवं शून्यं शून्यमित्यपि भावनीयं स्वप्ने जागरणे च न मया दृष्टमिदं रजतादीति विशिष्टनिषेधस्यो- पलम्भात् । यदि दृष्टं सत् तदा तद्विशिष्टस्य दर्शनस्येदन्ताया अधिष्ठानस्य च तस्मिन्नध्यस्तस्य रजतत्वादेस्तत्सम्बन्धस्य च समवायादेः सत्त्वं स्यात् न चैतदिष्टं कस्यचिद्वादिनः । न चार्द्ध जरतीयमुचितं न हि कुक्कुट्या एको भागः पाकाय अपरो भागः प्रसवाय कल्प्यतामिति कल्प्यते । तस्मादध्यस्ताधिष्ठानतत्सम्बन्धदर्शन- द्रष्टॄणां मध्ये एकस्यानेकस्य वा असत्त्वे निषेध- विषयत्वेन सर्व्वस्यासत्त्वं बलादापतेदिति भग- वतोपदिष्टे माध्यमिकास्तावदुत्तमप्रज्ञा इत्थम- चीकथन् भिक्षुपादप्रसारणन्यायेन क्षणभङ्गाद्य- भिधानमुखेन स्थायित्वानुकूलवेदनीयत्वानुगत- सर्व्वसत्यत्वभ्रमव्यावर्त्तनेन सर्व्वशून्यतायामेव पर्य्य वसानम् । अतस्तत्त्वं सदसदुभयानुभयात्मक- चतुष्कोणविनिर्मुक्तं शून्यमेव तथाहि यदि घटादेः सत्त्वं स्वभावस्तर्हि कारकव्यापारवैय- र्थ्यम् । असत्त्वं स्वभाव इति पक्षे प्राचीन एव दोषः प्रादुःस्यात् । यथोक्तम् । “न सतः कारणापेक्षा व्योमादेरिव युज्यते । कार्य्यस्यासम्भवो हेतुः खपुष्यादेरिवासत ॥” इति ॥ विरोधादितरौ पक्षावनुपपन्नौ तदुक्तं भगवता अलङ्कारावतारे “बुद्ध्या विविच्यमानानां स्वभावो नावधार्य्यते । अतो निरभिलप्यास्ते निःस्वभावाश्च दर्शिताः ॥” इति ॥ “इदं वस्तुवलायातं यद्वदन्ति विपश्चितः । यथा यथार्थाश्चित्यन्ते विशीर्य्यंन्ते तथा तथा ॥” इति च ॥ न क्वचिदपि पक्षे व्यवतिष्टत इत्यर्थः । दृष्टार्थ- व्यवहारश्च न स्वप्नव्यवहारवत् संवृत्या सङ्ग- च्छते । अत एवोक्तम् “परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ । कुणपः कामिनी भक्ष्य इति तिस्रो विकल्पना ॥” इति ॥ तदेवं भावनाचतुष्टयवशान्निखिलवासनानिवृत्तौ परनिर्व्वाणं शून्यरूपं सेत्स्यतीति वयं कृतार्थाः नास्माकमुपदेश्यं किञ्चिदस्तीति । शिष्यैस्ताब- द्योगश्चाचारश्चेति द्वयं करणीयम् । तत्राप्राप्त- स्यार्थस्य प्राप्तये पर्य्यनुयोगो योगः गुरूक्त- स्यार्थस्याङ्गीकरणमाचारः गुरूक्तस्याङ्गीकर- णादुत्तमाः पर्य्यनुयोगस्याकरणादधमाश्च अत- स्तेषां माध्यमिका इति प्रसिद्धिः । गुरूक्त- भावनाचतुष्टयं वाह्यार्थस्य शून्यत्वं चाङ्गीकृत्या- न्तरस्य शून्यत्वञ्चाङ्गीकृतं कथमिति पर्य्यनु- योगस्य करणात् केषाञ्चिद् योगाचारप्रथा । एषा हि तेषां परिभाषा स्वयं वेदनं तावदङ्गी- कार्य्यम् अन्यथा जगदान्ध्यं प्रसज्येत । तत् कीर्त्तितं धर्म्मकीर्त्तिना । “अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यतीति ॥” वाह्यं ग्राह्यं नोपपद्यत एव विकल्पानुपपत्तेः । अर्थो ज्ञानग्राह्यो भावादुत्पन्नो भवति अनुत्पन्नो वा न पूर्ब्बः उत्पन्नस्य स्थित्यभावात् नापरः अनुत्पन्नस्यासत्त्वात् । अथ मन्येथाः अतीत एवार्थो ज्ञानग्राह्यः तज्जनकत्वादिति तदपि बालभाषितं वर्त्तमानतावभासविरोधात् इन्द्रि- यादेरपि ग्राह्यत्वप्रसङ्गाच्च । किञ्च ग्राह्यः किं परमाणुरूपोऽर्थः अवयविरूपो वा । न चरमः कृत्स्नैकदेशविकल्पादिना तन्निराकरणात् । न प्रथमः अतीन्द्रियत्वात् षट्केन युगपद्योगस्य बाधकत्वाच्च । यथोक्तम् “षट्केन युगपद्योगात् परमाणोः षडंशता । तेषामप्येकदेशत्वे पिण्डः स्यादणुमात्रकः ॥” इति ॥ तस्मात् स्वव्यतिरिक्तग्राह्यविरहात्तदात्मिका बुद्धिः स्वयमेव स्वात्मरूपप्रकाशिका प्रकाश- वदिति सिद्धम् । तदुक्तम् “नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽ- परः । ग्राह्यग्राहकवैधुर्य्यात् स्वयं सैव प्रकाशते ॥” इति ॥ ग्राह्यग्राहकयोरभेदश्चानुमातव्यः यद्वेद्यते येन वेदनेन तत्ततो न भिद्यते यथा ज्ञानेनात्मा वेद्यन्ते तैश्च नीलादयः । भेदे हि सत्यधुना अनेनार्थस्य सम्बन्धित्वं न स्यात् तादात्म्यस्य नियमहेतोरभावात् तदुत्पत्तेरनियामकत्वात् यश्चायं ग्राह्यग्राहकसंवत्तीनां पृथगवभासः स एकस्मिंश्चन्द्रमसि द्वित्वावभास इव भ्रमः अत्रा- प्यनादिरविच्छिन्नप्रवाहाभेदवासनैव निमित्तम् । यथोक्तम् । “सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्ति विज्ञानैर्दृ श्येतेन्दाविवाद्वयः ॥” इति ॥ “अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥” इति च ॥ न च रसवीर्य्यविपाकादि समानमाशामोदको- पार्जितमोदकानां स्यादिति वेदितव्यं वस्तुतो वेद्यवेदकाकारविधुराया अपि बुद्धेर्व्यवहर्तृपरि- ज्ञानानुरोधेन विभिन्नग्राह्यग्राहकाकाररूप- वत्तया तिमिराद्युपहताक्ष्णं केशेन्द्रनाडी- ज्ञानभेदवदनाद्युपप्लववासनासामर्थ्याद्व्यवस्थोप- पत्तेः पर्य्यनुयोगायोगात् । यथोक्तम् “अवेद्यवेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते । विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा ॥ तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत् । यदा तदा न सञ्चोद्या ग्राह्यग्राहकलक्षणा ॥” इति ॥ तस्माद्बुद्धिरेवानादिवासनावशादनेकाकाराव- भासत इति सिद्धम् । ततश्च प्रागुक्तभावना- प्रचयबलान्निखिलवासनोच्छेदविगलितविविध- विषयाकारोपप्लवविशुद्धविज्ञानोदयो महोदय इति । अन्ये तु मन्यन्ते यथोक्तं वाह्यं वस्तुजातं नास्तीति तदयुक्तं प्रमाणाभावात् । न च सहोपलम्भनियमः प्रमाणमिति वक्तव्यं वेद्यवेद- कयोरभेदसाधकत्वेनाभिमतस्य तस्याप्रयोजक- त्वेन सन्दिग्धविपक्षव्यावृत्तिकत्वात् । ननु भेदे सहोपलम्भनियमात्मकं साधनं न स्यादिति चेन्न ज्ञानस्यान्तर्मुखतया च भेदेन प्रतिभासमान- तया एकदेशत्वैककालत्वलक्षणसहत्वनियमा- सम्भवाच्च नीलाद्यर्थस्य ज्ञानाकारत्वे अहमिति प्रतिभासः स्यात् नत्विदमिति प्रतिपत्तिः प्रत्यया दव्यतिरेकात् । अथोच्यते ज्ञानस्वरूपोऽपि नीलाकारो भ्रान्त्या बहिर्वद्भेदेन प्रतिभासत इति न च तत्राहमुल्लेख इति । तथोक्तम् । “परिच्छेदान्तराद्योऽयं भागो बहिरिव स्थितः । ज्ञानस्याभेदिनो भेदप्रतिभासोऽप्युपप्लवः ॥” इति ॥ “यदन्तर्ज्ञेयतत्त्वं तद्वहिर्वदवभासते ॥” इति च ॥ तदयुक्तं वाह्यार्थाभावे तदुत्पत्तिरहिततया बहिर्वदित्युपमानोक्तेरयुक्तेर्न हि वसुमित्रो बन्ध्यापुत्त्रवदवभासत इति प्रेक्षावानाचक्षीत भेदप्रतिभासस्य भ्रान्तत्वे अभेदप्रतिभासस्य प्रामाण्यं तत्प्रामाण्ये भेदप्रतिभासस्य भ्रान्तत्व- मिति परस्पराश्रयप्रसङ्गाच्च अविसंवादान्नील- तादिकमेव संविदाना वाह्यमेवोपाददते जगत्यु- पेक्षन्तेऽवान्तरमिति व्यवस्थादर्शनाच्च । एव- ञ्चायमभेदसाधको हेतुर्गोमयपायसीयन्यायवदा- भासतां भजेत अतोबहिर्वदिति वदता वाह्यं ग्राह्यमेवेति भावनीयमिति भवदीय एव बाणो भवन्तं प्रहरेत् । ननु ज्ञानाभिन्नकालस्यार्थस्य वाह्यत्वमनुपपन्न- मिति चेत् तदनुपपन्नम् इन्द्रियसन्निकृष्टस्य विषयस्योत्पाद्ये ज्ञाने स्वाकारसमर्पकतया समर्पितेन चाकारेण तस्यार्थस्यानुमेयतोपपत्तेः अतएव पर्य्यनुयोगपरिहारौ समग्राहिषाताम् । “भिन्नकालं कथं ग्राह्यमिति चेत् ग्राह्यतां विदुः । हेतुत्वमेव च व्यक्तेर्ज्ञानाकारार्पणक्षमम् ॥” इति ॥ तथाच यथा पुष्ट्या भोजनमनुमीयते यथा च भाषया देशः यथा वा सम्भ्रमेण स्नेहः तथा ज्ञानाकारेण ज्ञेयमनुमेयम् । तदुक्तम् “अर्द्धेन घटयत्येनां न हि मुक्त्वार्द्धरूपत्राम् । तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपता ॥” इति ॥ न हि वित्तिसत्तैव तद्बेदना युक्ता तस्याः सर्व्वत्राविशेषात् तान्तु सारूप्यमाविशत् सरूप- यितुं घटयेदिति च । तथाच बाह्यार्थसद्भावे प्रयोगः ये यस्मिन् सत्यपि कादाचित्काः ते सर्व्वे तदतिरिक्तसापेक्षाः यथा अविवक्षत्यजि- गमिषति मयि वचनगमनप्रतिभासा विवक्षु- जिगमिषुपुरुषान्तरसन्तानसापेक्षाः तथाच विवादाध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालय- विज्ञाने कदाचिदेव नीलाद्युल्लेखना इति । तत्रालयविज्ञानं नामाहमास्पदं विज्ञानं नीलाद्युल्लेखि च प्रवृत्तिविज्ञानम् । यथोक्तम् “तत् स्यादालयविज्ञानं यद्भवेदहमास्पदम् । तत् स्यात्प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेत् ॥” इति ॥ तस्मादालयविज्ञानसन्तानातिरिक्तः कादाचित्कः प्रवृत्तिविज्ञानहेतुर्वाह्योऽर्थो ग्राह्य एव न वासनापरिपाकप्रत्ययः कादाचित्कत्वात् कदा- चिदुत्पाद इति वेदितव्यम् । विज्ञानवादिनये हि वासनानामेकसन्तानवर्त्तिनामालयविज्ञा- नानां तत्तत्प्रवृत्तिजननशक्तिः तस्याश्च स्वका- र्य्योत्पादं प्रत्याभिसुख्यं परिपाकः तस्य च प्रत्ययः कारणं स्वसन्तानवर्त्तिपूर्ब्बक्षणः कक्षी- क्रियते सन्तानान्तरनिबन्धनत्वानङ्गीकारात् । ततश्च प्रवृत्तिज्ञानजननालयविज्ञानवर्त्तिवासना- परिपाकं प्रति सर्व्वेऽप्यालयविज्ञानवर्त्तिनः क्षणाः समर्था एवेति वक्तव्यं न चेदेकोऽपि न समर्थः स्यादालयविज्ञानसन्तानवर्त्तित्वाविशे षात् । सर्व्वे समर्था इति पक्षे कार्य्यक्षेपानुप- पत्तिः ततश्च कादाचित्कत्वनिर्व्वाहाय शब्द- स्पर्शरूपरसगन्धविषयाः सुखादिविषयाः षडपि प्रत्ययाश्चतुरः प्रत्ययान् प्रतीत्योत्पद्यन्ते इति चतुरेणानिच्छताप्यच्छमतिना स्वानुभवमना- च्छाद्य परिच्छेत्तव्यम् । ते चत्वारः प्रत्ययाः प्रसिद्धाः आलम्बनसमनन्तरसहकार्य्यधिपति- रूपाः तत्र ज्ञानपदवेदनीयस्य नीलाद्यवभासस्य चित्तस्य नीलालम्बनप्रत्ययात् नीलाकारता भवति समनन्तरप्रत्ययात् प्राचीनज्ञानाद्बोध- रूपता सहकारिप्रत्ययादालोकाच्चक्षुषोऽधि- पतिषत्ययाद्विषयग्रहणप्रतिनियमः विदितस्य ज्ञानस्य रसादिसाधारण्यप्राप्तेर्नियामकं चक्षुर- धिपतिर्भवितुमर्हति लोके नियामकस्याधिप- तित्वोपलम्भात् । एवं चित्तचेत्यात्मकानां सुखा- दीनां चत्वारि कारणानि द्रष्टव्यानि एवं चित्त- चैत्यात्मकस्कन्धः पञ्चविधः रूपविज्ञानवेदना- संज्ञा संस्कारसंज्ञकः । तत्र रूप्यन्त एभिर्विषया इति रूप्यन्त इति च व्युत्पत्त्या सविषयाणीन्द्रि- याणि रूपस्कन्धः । आलयविज्ञानप्रवृत्तिविज्ञान- प्रवाहो विज्ञानस्कन्धः । प्रागुक्तस्कन्धद्बयसम्बन्ध- जन्यः सुखदुः खादिप्रत्ययप्रवाहो वेदनास्कन्धः । गौरित्यादिशब्दोल्लेखिसविज्ञानप्रवाहः संज्ञा- स्कन्धः । वेदनास्कन्धनिबन्धना रागद्वेषादयः क्लेशा उपक्लेशाश्च मदमानादयो धर्म्माधर्म्मौ च संस्कारस्कन्धः । तदिदं सर्व्वं दुःखं दुःखायतनं दुःखसाधन- ञ्चेति भावयित्वा तन्निरोधोपायं तत्त्वज्ञानं सम्पादयेत् । अत एवोक्तं दुःखसमुदायनिरोध- मार्गाश्चत्वारः आर्य्यस्य बुद्धाभिमतानि तत्त्वानि । तत्र दुःखं प्रसिद्धं ससुदायो दुःखकारणं तद्द्वि- विधं प्रत्ययोपनिबन्धनो हेतूपनिबन्धनश्च । तत्र प्रत्ययोपनिबन्धनस्य संग्राहकं सूत्रम् इदं कार्य्यं ये अन्ये हेतवः प्रत्ययन्ति गच्छन्ति तेषामय- मानानां हेतूनां भावः प्रत्ययत्वं कारणसमवायः तन्मात्रस्य फलं न चेतनस्य कस्यचिदिति सूत्रार्थः यथा बीजहेतुरङ्कुरो धातूनां षण्णां समवायाज्जायते । तत्र पृथिवी धातुरङ्कुरस्य काठिन्यं गन्धञ्च जनयति अब्धातुः स्नेहं रसञ्च जनयति तेजोधातू रूपमौष्ण्यञ्च वायुधातुः स्पर्शनं चलनञ्च आकाशधातुरवकाशं शब्दञ्च ऋतुधातुर्यथायोगं पृथिव्यादिकम् । हेतूपनिव- न्धनस्य च संग्राहकं सूत्रम् तत्पादाद्वा तथा- गतानामनुत्पादाद्बा स्थितैवैषां धर्म्माणां धर्म्मता धर्म्मस्थितिता धर्म्मनियामकता च प्रतीत्य समुत्पादानुलोमतेति । तथागतानां बुद्धानां मते धर्म्माणां कार्य्यकारणरूपाणां या धर्म्मता कार्य्यकारणभावरूपा एषोत्पादादनुत्पादाद्बा स्थिता यस्मिन् सति यदुत्पद्यते तत्तस्य कारणस्य कार्य्यमिति धर्म्मतेत्यस्य विवरणं धर्म्मस्य कार्य्यस्य कारणानतिकमेण स्थितिः स्वार्थिकस्तल्प्रत्ययः धर्म्मस्य कारणस्य कार्य्यं प्रति नियामकता । नन्वयं कार्य्यकारणभावश्चेतनमन्तरेण न सम्भव- तीति अत उक्तं कारणे सति तत्प्रतीत्य प्राप्य समुत्पादे अनुलोमता अनुसारिता या सैव धर्म्मता उत्पादादनुत्पादाद्बा धर्म्माणां स्थिता न चात्र कश्चिश्चेतनोऽधिष्ठातोपलभ्यत इति सूत्रार्थः । यथा प्रतीत्य समुत्पादस्य हेतूप- निबन्धः बीजादङ्कुरोऽङ्कुरात् काण्डं काण्डान्नालो नालाद्गर्भस्ततः शूकं ततः पुष्पं ततः फलं न चात्र वाह्ये समुदाये कारणं बीजादि कार्य्यमङ्कुरादि वा चेतीयते अहमङ्कुरं निर्वर्त्तयामि अहं बीजेन निर्वर्त्तित इति । एवमाध्यात्मिकेष्वपि कारण- द्वयमवगन्तव्यम् । पुरःस्थिते प्रमेयाब्धौ ग्रन्थ- विस्तरभीरुभिरुपरम्यते । तदुभयनिरोधः तद- नन्तरं विमलज्ञानोदयो वा मुक्तिः तन्निरोधो पायो मागः स च तत्त्वज्ञानं तच्च प्राचीन- भावनाबलाद्भवतीति परमं रहस्यं सूत्रस्यान्तं पृच्छतां कथितं भवन्त्रश्च सूत्रस्यान्तं पृष्टवन्तः सौत्रान्तिका भवन्त्विति भगवताभिहिततया सौत्रान्तिकसंज्ञा सञ्जातेति । केचन बौद्धा वाह्येषु गन्धादिषु आन्तरेषु रूपादिस्कन्धेषु सत्स्वपि तत्रानास्थामुत्पादयितुं सर्व्वं शून्य- मिति प्राथमिकान् विनेयानचीकथत् भगवान् द्वितीयांस्तु विज्ञानमात्रग्रहाविष्टान् विज्ञान- मेवैकं सदिति तृतीयानुभवं सत्यमित्यास्थितान् विज्ञेयमनुमेयमिति सेयं विरुद्धा भाषेति वर्ण- यन्तो वैभाषिकाख्यया ख्याताः । एषा हि तेषां परिभाषा समुन्मिषति विज्ञेयानुमेयत्ववादे प्रात्यक्षिकस्य कस्यचिदप्यर्थस्याभावेन व्याप्ति- संयेदनस्थानाभावेनानुमानप्रवृत्त्यनुपपत्तेः सकललोकानुभवविरोधश्च । ततश्चार्थो द्विविधः ग्राह्योऽध्यवसेयश्च तत्र ग्रहणं निर्विकल्पकरूपं प्रमाणं कल्पनापोढत्वात् अध्यवसायः सविक- ल्पकरूपोऽप्रमाणं कल्पनाज्ञानत्वात् । तदुक्तम् । “कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्विकल्पकम् । विकल्पो वस्तुनिर्भासादसंवादादुपप्लवः ॥” इति ॥ “ग्राह्यं वस्तुप्रमाणं हि ग्रहणं यदितोऽन्यथा । न तद्वस्तु न तन्मानं शब्दलिङ्गेन्द्रियादिजम् ॥” इति च ॥ ननु सविकल्पकस्याप्रामाण्ये कथं ततः प्रवृत्त- स्यार्थप्राप्तिः संवादश्चोपपद्येयातामिति चेन्न तद्भद्रं मणिप्रभाविषयमणिविकल्पन्यायेन पार- पम्पर्य्येणार्थप्रतिलम्भसम्मवेन तदुपपत्तेः । अव- शिष्टं सौत्रान्तिकप्रस्तावे प्रपञ्चितमिति नेह प्रतन्यते । न च विनेयाशयानुरोधेनोपदेशभेदः साम्प्रदायिको न भवतीति भणितव्यं यतो भणितं बोधचित्तविवरणे “देशना लोकनाथानां सत्त्वाशयवशानुगाः । भिद्यन्ते बहुधा लोके उपायैर्बहुभिः किल ॥ गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणाः । भिन्ना हि देशना भिन्ना शून्यताऽद्बयलक्षणा ॥” इति ॥ द्वादशायतनपूजा श्रेयस्करीति वौद्धनये प्रसि- द्धम् । “अर्थानुपार्ज्य बहुशो द्वादशायतनानि वै । परितः पूजनीयानि किमन्यैरिह पूजितैः ॥ ज्ञानेन्द्रियाणि पञ्चैव तथा कर्म्मेन्द्रियाणि च । मनो वुद्धिरिति प्रोक्तं द्वादशायतनं बुधैः ॥” इति ॥ विवेकबिलासे बौद्धमतमित्थमभ्यधायि । “बौद्धानां सुगतो देवो विश्वञ्च क्षणभङ्गुरम् । आर्य्यसत्त्वाख्यया तत्त्वचतुष्टयमिदं क्रमात् ॥ दुःखमायतनञ्चैव ततः समुदयो मतः । मार्गश्चेत्यस्य च व्याख्या क्रमेण श्रूयतामतः ॥ दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्त्तिताः । विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥ पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्म्मायतनमेतानि द्वादशायतनानि तु ॥ रागादीनां गणोऽयं स्यात् समुदेति नृणां हृदि । आत्मात्मीयस्वभावाख्यः स स्यात् समुदयः पुनः ॥ क्षणिकाः सर्व्वसंस्कारा इति या वासना स्थिरा । स मार्ग इति विज्ञेयः स च मोक्षोऽभिधीयते ॥ प्रत्यक्षमनुमानञ्च प्रमाणद्वितयं तथा । चतुःप्रस्थानिका बौद्धाः ख्याता वैभाषिकादयः ॥ अर्थो ज्ञानान्वितो वैभाषिकेण बहु मन्यते । सौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्मतः ॥ आकारसहिता बुद्धिर्योगाचारस्य सम्मता । केवलां संविदं स्वस्थां मन्यन्ते मध्यमाः पुनः ॥ रागादिज्ञानसन्तानवासनाच्छेदसम्भवा । चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्त्तिता ॥ कृत्तिः कमण्डलुर्मौण्ड्यं चीरं पूर्ब्बाह्णभोजनम् । सङ्घो रक्ताम्बरत्वञ्च शिश्रिये बौद्धभिक्षुभिः ॥” इति ॥ इति सर्व्वदर्शनसंग्रहे बौद्धदर्शनम् ॥)
(बुद्धेरिदमिति व्युत्पत्त्या वाच्यलिङ्गः । बुद्ध- सम्बन्धि वस्तु ॥)


शब्दकल्पद्रुमः

बौद्धः || पुं, (बुद्धं बुद्धशास्त्रं वेत्तीति । बुद्ध + अण् ।)
बुद्धशास्त्रावलम्बी । तत्पर्य्यायः । भिन्नकः २ क्षपणः ३ अह्रीकः ४ वैनायिकः ५ । इति त्रिकाण्डशेषः ॥



Correction: