संस्कृत-शब्दकोशः

ब्रतति ब्रध्नश्व

ब्रध्न

वाचस्पत्यम्

ब्रध्न ||‍ पु० बन्ध—नक् ब्रधादेशः । १ सूर्य्ये २ अर्कवृक्षे अमरः । ३ शिवे हेमच० । ४ दिने ५ अश्वे निघण्टुः ६ ऋषिभेदे तस्य गोत्रापत्यम् कुञ्जा० च्कञ् । ब्रान्धायन तद्गोत्रा- पत्ये पुंस्त्री० । ७ भौत्यमनोः पुत्रभेदे मार्कपु० १०० अ० । ८ रीगभेदे “अभ्यभिष्यन्दिगुर्वामसेवनान्निचयं गतः । करोति ग्रन्थिवच्छोथं दोषो वङ्क्षणसन्धिषु । ज्वर- शूलाङ्गसादाद्यं तं व्रध्नमिति निर्दिशेत्” माधवनि०


शब्दकल्पद्रुमः

ब्रध्नः || पुं, (बन्धवन्धने + “बन्धेर्ब्रधिबुधी च । उणा० ३ । ५ । इति नक् ब्रधादेशश्च ।)
सूर्य्यः । (यथा, ऋग्वेंदे । १ । ६ । १ । “युञ्जन्ति ब्रध्नसरुषं चरन्तं परितस्तुषः । रोचन्ते रोचना दिवि ॥”)
वृक्षमूलम् । अर्कवृक्षः । इत्यमरः । २ । ४ । १५ । शिवः । इति हेमचन्द्रः ॥ मेदिनीकारेणान्तःस्थ वकारादौ लिखितोऽयं शब्दः ॥ (दिनम् । अश्वः । इति निघण्टुः ॥ चतुर्द्दशमनोर्भौत्यस्य पुत्त्रभेदः । यथा, मार्कण्डेये । १०० । ३२ । “गुरुर्गभीरो ब्रध्नश्च भरतोऽनुग्रहस्तथा । तेजस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः ॥”)
रोगविशेषः । तस्य लक्षणं यथा, “अभ्यभिष्यन्दिगुर्वामसेवनान्निचयं गतः । करोति ग्रन्थिवच्छोथं दोषो वङ्क्षणसन्धिषु ॥ ज्वरशूलाङ्गसादाढ्यं तं ब्रध्नमिति निर्द्दिशेत् ॥” इति माधवकरः ॥ तस्य चिकित्सा । “भृष्टश्चैरण्डतैलेन सम्यक् कल्कोऽभयाभवः । कृष्णासैन्धवसंयुक्तो ब्रध्नरोगहरः परः ॥ अजाजीहबुषाकुष्ठं गोमेदवदरान्वितम् । काञ्जिकेन तु संपिष्टं तल्लेपो ब्रध्नजित् परः ॥” गोमेदं पत्रम् । तथा च निघण्टौ धन्वन्तरिः । “पत्रं दलाह्वयं रामं गोमेदं रसनाह्वयम् ॥” इति भावप्रकाशः ॥ (अस्य ससम्प्राप्तिलक्षणं यथा, —
“यस्य वायुः प्रकुपितः शोफशूलकरश्चरन् । वंक्षणाद्वृषणौ याति ब्रध्नस्तस्योपजायते ॥” इति चरके सूत्रस्थानेऽष्टादशेऽध्याये ॥)



Correction: