संस्कृत-शब्दकोशः

ब्रध्नश्व ब्रह्मकन्यका

ब्रह्म

शब्दकल्पद्रुमः

ब्रह्म || क्ली (बृंहति बर्द्धते निरतिशयमहत्त्व- लक्षणबृद्धिमान् भवतीत्यर्थः । बृहिबृद्धौ + बृंहे- र्नोऽच्च ।” उणा० ४ । १४५ । मनिन् नकार- स्याकारः । रत्वञ्च ।)
वेदः । (यथाह श्रुतिः । “तस्मादेतद्ब्रह्मनामरूपमन्नञ्च जायते ॥” तथा च भागवते । १ । १ । १ । “जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेव्वभिज्ञः स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः ॥” वेदान्तमते ‘वस्तु सच्चिदानन्दाद्वयं ब्रह्म तथा अज्ञानादिसकलजडसमूहोऽवस्तु ।’ ‘ब्रह्मैव नित्यं वस्तु तदन्यदखिलमनित्यम् ।’ तथाहि, —
“यत्स्यादर्व्वाक् संवत्सरोऽहोभिः परिवर्त्तते ।” तदेव ज्योतिषां ज्योतिः । नित्यं विभुं सर्व्वगतं सुसूक्ष्मम् । आकाशवत् सर्व्वगतश्च नित्यः । अजो नित्यः शाश्वतः सत्यं ज्ञानमनन्तं ब्रह्म रातेर्दातुः परायणं यत्र नान्यत् पश्यति नान्यत् शृणोति नान्यद्विजानाति सभूमा यो वै भूमा तदमृतम् ।” इत्यादि श्रुतिभ्यो ब्रह्मणि नित्यत्वं विशुद्धसत्त्वस्य पुंसः प्रतिभाति । तथा, नैवेह किञ्चनाग्र आसीत् मृत्युर्नैवेदमावृतमासीत् । आत्मा वा इदमेक एवाग्र आसीन्नान्यत् किञ्चन- मिषत् सदेव सौम्येदमग्र आसीदेकमेवा- द्बितीयं नेति नेति नेह नानास्ति किञ्चन यत्रान्यत् पश्यति अन्यच्छृणोति अन्यद्विजानाति तदल्पम् अथ यदल्पं तन्मर्त्त्यम् ।” इत्यादि श्रुतिवच- नेभ्यो ब्रह्मणोऽन्यत्वं भेदप्रपञ्चेऽनित्यत्वञ्च तस्यैव पुंसः प्रतिभाति । तथानुमानमपि यथा, विम- तोऽचेतनवर्गोऽनित्यो विभक्तत्वात् घटपटस्तम्भा- दिवत् इति । अनेन हि विभक्तस्यानित्यत्वे- ऽवगते तस्मिन्ननुगतप्रकाशात्मकस्य ब्रह्मणोऽ- विभक्तस्य नित्यत्वमपि अर्थादवगच्छति । इति वेदान्तसारे विद्वन्मनोरञ्जनीटीका ॥ तत्र श्रुतिवाक्यानि यथा, “सत्यं ज्ञानमनन्तं ब्रह्म । विज्ञानमानन्दं ब्रह्म ।” “आनन्दो ब्रह्मेति व्यजानात् आनन्दरूपममृतं यद् विभाति । यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह । यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्ति तत् विजि- ज्ञासस्व तद्ब्रह्मेति ।” इत्याद्यसंख्येयं श्रुति- वचनमनुसन्धेयम् ॥”)
तत्त्वम् । तपः । इत्यमरः । ३ । ३ । ११४ ॥ ब्रह्म चतुर्व्विधं यथा । विराट् १ हिरण्यगर्भः २ ईश्वरः ३ तुरीयः ४ । इति वेदान्तसारः ॥ अस्य लक्षणम् । यथा, आत्मबोधे । “यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् । यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवयारयेत् ॥ यद्दृष्ट्वा नापरं दृश्यं यद्भूत्वा न पुनर्भवः । यज्ज्ञात्वा नापरं ज्ञेयं तद्ब्रह्मेत्यवधारयेत् ॥ तिर्य्यगूर्द्ध्वमधःपूर्णं सच्चिदानन्दमद्वयम् । अनन्तं नित्यमेकं यत्तद्ब्रह्मेत्यवधारयेत् ॥ अतद्व्यावृत्तिरूपेण वेदान्तैर्लक्ष्यते द्वयम् । अखण्डानन्दमेकं यत्तद्ब्रह्मेत्यवधारपेत् ॥ दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् । तत्त्वज्ञानाच्च तद्ब्रह्म सच्चिदानन्दमद्बयम् ॥ सर्व्वगं सच्चिदात्मानं ज्ञानचक्षुर्निरीक्ष्यते । अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत् ॥” अपि च । “सत्यमानन्दमद्बयममृतमेकरूपं वाङ्मनसोऽगोचरं सर्व्वगं सर्व्वातीतं चिदेकरसं देशकालापरिच्छिन्नमपादमपि शीघ्रगमपाणि च सर्व्वग्रहमचक्षुरपि सर्व्वद्रष्टृ अश्रोत्रमपि सर्व्वश्रोतृ अचिन्त्यमपि सर्व्वज्ञं सर्व्वनियन्तृ सर्व्वशक्ति सर्व्वेषां सृष्टिस्थितिलयकर्त्तृ किमपि वस्तु ब्रह्मेति वेदा वदन्ति ॥” शुद्धबुद्धस्वभाव इत्यौपनिषदाः । १ । आदिविद्वान् सिद्ध इति कापिलाः । २ । क्लेशकर्म्मविपाकाशयैरपरा- मृष्टो निर्म्माणकायमधिष्ठाय सम्प्रदायप्रद्यो- तकोऽनुग्राहकश्चेति पातञ्जलाः । ३ । लोक- वेदविरुद्धैरपि निर्लेपः स्वतन्त्रश्चेति महापाशु- पताः । ४ । शिव इति शैवाः । ५ । पुरुषोत्तम इति वैष्णवाः । ६ । पितामह इति पौरा- णिकाः । ७ । यज्ञपुरुष इति याज्ञिकाः । ८ । सर्व्वज्ञ इति सौगताः । ९ । निरावरण इति दिगम्बराः । १० । उपास्यत्वेन देशित इति मीमांसकाः । ११ । लोकव्यवहारसिद्ध इति चार्व्वाकाः । १२ । यावदुक्तोपपन्न इति नैया- यिकाः । १३ । विश्वकर्म्मेति शिल्पिनः । १४ । इति कुसुमाञ्जलिवृत्तिः ॥ योगशास्त्रमते । “ब्रह्मतेजोमयं शुक्रं यस्य सर्व्वमिदं रसः । एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम् ॥ इति महाभारते मोक्षधर्म्मः ॥ तस्य टीका । ब्रह्मणः स्वरूपमन्तराविस्मर- णार्थमाह । ब्रह्मतेजोमयमिति । तेजोमयं ज्ञानात्मकम् । शुक्रं बीजभूतम् । यस्य सर्व्व- मिदं रसः रसनीयं ज्ञेयं सर्व्वं यस्यैकस्य भूतं सत्यं न तु विवर्त्तवादिनामिवासत्यं भूतस्य सिद्धस्य अकल्पितस्य तच्च सर्व्वं स्थावरजङ्गमो- पाधिवशात् द्वयं द्बेधा ॥ तच्च सगुणनिर्गुण- भेदेन द्बिविधं यथा, “ब्रह्मैकं मूर्त्तिभेदस्तु गुणभेदेन सन्ततम् । तद्ब्रह्म द्विविधं वस्तु सगुणं निर्गुणं शिव ! ॥ मायाश्रितो यः सगुणो मायातीतश्च निर्गुणः । स्वेच्छामयश्च भगवानिच्छया विकरोति च ॥ इच्छाशक्तिश्च प्रकृतिः सर्व्वशक्तिप्रसूः सदा । केचिदेकं वदन्त्येवं ब्रह्म ज्योतिः सनातनम् ॥ केचिद्वदन्ति द्विविधं ब्रह्म प्रकृतिपूर्ब्बकम् । शृणु ये च वदन्त्येकं प्रकृतिपुरुषयोः परम् ॥ तस्माद्भवति तौ द्वौ च तद्ब्रह्म सर्व्वकारणम् । अथवैकं परं ब्रह्म द्विविधं भवती च्छया ॥ इच्छाशक्तिश्च प्रकृतिः सर्व्वशक्तिप्रसूः सदा । तत्रासक्तश्च सगुणः स शरीरी च प्राकृतः ॥ निर्गुणस्तत्र निर्लिप्तः अशरीरी निरङ्कुशः । स चात्मा भगवान्नित्यः सर्व्वाधारः सनातनः ॥ सर्व्वेश्वरः सर्व्वसाक्षी सर्व्वत्रास्ति फलप्रदः । शरीरं द्विविधं शम्भो ! नित्यं प्राकृतमेव च ॥ नित्यं विनाशरहितं नश्वरं प्राकृतं सदा । अहं त्वञ्चापि भगवन्नावयोर्नित्यविग्रहः ॥ आवयोरंशभूता ये प्राकृता नष्टविग्रहाः । रुद्रादयस्त्वदंशाश्च मदंशा विष्णुरूपिणः ॥ ममाप्येवं द्विधा रूपं द्विभुजञ्च चतुर्भुजम् । चतुर्भुजोऽहं वैकुण्ठे पद्मया पार्षदैः सह ॥ गोलोके द्विभुजोऽहञ्च गोपीभिः सह राधया । द्विविधं मे वदन्त्येवं द्वौ प्रधानौ तु तन्मते ॥ पुरुषश्च सदा नित्यो नित्या प्रकृतिरीश्वरी । सदा तौ द्वौ च संश्लिष्टौ सर्व्वेषां पितरौ शिव ! ॥ सशरीरौ निःशरीरौ स्वेच्छया सर्व्वरूपिणौ । प्राधान्यञ्च यथा पुंसः प्रकृतेश्च तथा सदा ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४३ अध्यायः ॥ नन्दयशोदां प्रति श्रीकृष्णवाक्यं यथा, —
“मामेव परमं ब्रह्म भगवन्तं सनातनम् । ध्यायं ध्यायं पुत्त्रबुद्धिं त्यक्त्रा लभ परं पदम् ॥” इति तत्रैव १२७ अध्यायः ॥ सगुणस्य तस्य नवधा रूपं यथा, —
“योगिनो यं वदन्त्येवं ज्योतीरूपं सनातनम् १ । ज्योतिरभ्यन्तरे नित्यरूपं भक्ता वदन्ति यम् २ ॥ वेदा वदन्ति सत्यं यं ३ नित्यमाद्यं विचक्षणाः ४ । यं वदन्ति सुराः सर्व्वे परं स्वेच्छामयं प्रभुम् ५ ॥ सिद्धेन्द्रा मुनयः सर्व्वे सर्व्वरूपं वदन्ति यम् ६ । यमनिर्व्वचनीयञ्च योगीन्द्रः शङ्करो वदेत् ७ ॥ स्वयं धाता च प्रवदेत् कारणानाञ्च कारणम् ८ । शेषो वदेदनन्तं यं नवधा रूपमीश्वरम् ९ ॥ तर्काणामेव षण्णां यं षड्विधं रूपमीश्वरम् । वैष्णवानामेकरूपं वेदानामेकमेव च ॥ पुराणानामेकरूपं तस्मान्नवविधं स्मृतम् । न्यायो निर्व्वचनीयञ्च यन्मतं शङ्करोऽब्रवीत् ॥ नित्यं वैशेषिकात्यन्तं वदन्ति च विचक्षणाः । सांख्यो वदति तं देवं ज्योतीरूपं सनातनम् ॥ मीमांसा सर्व्वरूपञ्च वेदान्तः सर्व्वकारणम् । पातञ्जलोऽप्यनन्तञ्च वेदाः सत्यस्वरूपकम् ॥ स्वेच्छामयं पुराणञ्च भक्ताश्च नित्यविग्रहम् ॥” इति तत्रैव १२८ अध्यायः ॥ सगुणनिर्गुणभेदेन तस्य चतुर्धा रूपं यथा, —
“चतुर्विभागः संसृष्टौ चतुर्धा संस्थितः स्थितौ । प्रलयञ्च करोत्यन्ते चतुर्भेदो जनार्द्दनः ॥ एकेनांशेन ब्रह्मासौ भवत्यव्यक्तमूर्त्तिमान् । मरीचिमिश्राः पतयः प्रजानामन्यभागतः ॥ कालस्तृतीयस्तस्यांशः सर्व्वभूतानि चापरः । इत्थं चतुर्धा संसृष्टौ वर्त्ततेऽसौ रजोगुणः ॥ एकांशेन स्थितो विष्णुः करोति परिपालनम् । मन्वादिरूपी चान्येन कालरूपी परेण च ॥ सर्व्वभूतेषु चान्येन संस्थितिं कुरुते स्थितः । सत्त्वं गुणमुपाश्रित्य जगतः पुरुषोत्तमः ॥ आश्रित्य तमसो वृत्तिमन्तकाले तथा प्रभुः । रुद्रस्वरूपो भगवानेकांशेन भवत्यजः ॥ अग्न्यन्तकादिरूपेण भागेनान्येन वर्त्तते । कालस्वरूपो भागोऽन्यः सर्व्वभूतानि चापरः ॥ विनाशं कुर्व्वतस्तस्य चतुर्द्ध्वैवं महात्मनः ॥” इति विष्णुपुराणे १ अंशे २१ अध्यायः ॥ ब्रह्मध्यानं यथा, —
“ब्रह्मध्यानं प्रवक्ष्यामि मायातन्त्रविमर्द्दकम् । यच्छेद्बाङ्मनसि प्राज्ञस्तद्यच्छेज्ज्ञानमात्मनि ॥ ज्ञानं महति संयच्छेद्य इच्छेत् श्रेय आत्मनि । देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् ॥ वर्जितं भूततन्मात्रैर्गुणजन्माशनादिभिः । स्वप्रकाशं निराकारं सदानन्दमनादिमत् ॥ नित्यं शुद्धं वृद्धमृद्धं सत्यमानन्दमद्वयम् । तुरीयमक्षरं ब्रह्म अहमस्मि परं पदम् ॥ अहं ब्रह्मेत्यवस्थानं समाधिरिति गीयते । आत्मानं रथिनं विद्धि शरीरं रथमेव तु ॥ बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहुर्विषयास्तेषु गोचराः ॥ आत्मेन्द्रियमनोयुक्तो भोक्तेत्याहुर्मनीषिणः । यस्य विज्ञानवानात्मा युक्तेन मनसा सदा ॥ न स तत्पदमाप्नोति युक्तेन मनसा तदा । स तत्पदमवाप्नोति स हि भूयो न जायते । विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ अहिंसादि यमः प्रोक्तः शौचादिनियमः स्मृतः । आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः ॥ प्रत्याहारो जयः प्रोक्तो ध्यानमीश्वरचिन्तनम् । मनोधृतिर्धारणं स्यात् समाधिर्ब्रह्मणः स्मृतः ॥” साकारस्य तस्य ध्यानं यथा, —
“अमूर्त्ते चेत् स्थिरी न स्यात्ततो मूर्त्तं विचि- न्तयेत् । हृत्पद्मकर्णिकामध्ये शङ्खचक्रगदाब्जवान् ॥ श्रीवत्सकौस्तुभयुतो वनमाली श्रिया युतः । नित्यः शुद्धो बुद्धियुक्तः नित्यानन्दाह्वयः परः ॥ आत्माहं परमं ब्रह्म परमज्योतिरेव तु । चतुर्व्विंशतिमूर्त्तिः स शालग्रामशिलास्थितः ॥ द्वारकादिशिलासंस्थो ध्येयः पूज्योऽपि वा हरिः । मनसोऽभीप्सितं प्राप्य देवो वैमानिको भवेत् ॥ निष्कामो मुक्तिमाप्नोति मूर्त्तीर्ध्यायन् स्तुवन् जपन् ॥” इति गारुडे मूर्त्तामूर्त्तध्यानं ४४ अध्यायः ॥ ब्रह्मपदप्राप्तिकारणं यथा, —
“ब्रह्मण्याधाय कर्म्माणि निःसङ्गः कामवर्जितः । प्रसन्नेनैव मनसा कुर्व्वाणो याति तत्पदम् ॥” इति कूर्म्मपुराणे ३ अध्यायः ॥ सर्व्वं ब्रह्म यथा, —
“ब्रह्मैवेदं जगत् सर्व्वं ब्रह्मणोऽन्यन्न विद्यते । ब्रह्मान्यद्भाति चेन्मिथ्या यथा मरुमराचिका ॥” इत्यात्मबोधः ॥



Correction: