वाचस्पत्यम्
ब्र(व्र)ह्मकर्मसमाधि || पु० व्रह्मणि समाधिः “ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्त- घ्यम् ब्रह्मकर्मसमाधिना” गीतोक्ते सर्वकर्मणां कर्त्त्राद्यङ्क जातस्य ब्रह्मरूपेण चिन्तने ।
शब्दकल्पद्रुमः
ब्रह्मकर्म्मसमाधिः || पुं, ब्रह्मण्येव कर्म्मात्मके समा- धिश्चित्तैकाग्र्यं यस्य । यथा, श्रीभगवद्गीता- याम् । ४ । २४ । “ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म्मसमाधिना ॥”