संस्कृत-शब्दकोशः

ब्रह्मन् ब्रह्मपर्णी

ब्रह्मपत्र

वाचस्पत्यम्

ब्र(व्र)ह्मपत्र ||‍ न० ब्रह्मणः तन्नामकवृक्षस्य पत्रम् । पलाशपत्रे । “भोजनं ब्रह्मपत्रेषु कथया लोचनं हरेः । दर्शनं वैष्णवानाञ्च महापातकनाशनम्” पाद्मोत्तरख० ११८ अ० ।


शब्दकल्पद्रुमः

ब्रह्मपत्रं || क्ली (ब्रह्मणस्तदाख्यया प्रसिद्धस्य वृक्षस्य पत्रम् । पलाशपत्रम् । यथा, —
“भोजनं ब्रह्मपत्रेषु कथयालोचनं हरेः । दर्शनं वैष्णवानाञ्च महापातकनाशनम् ॥” इति पाद्मोत्तरखण्डे कार्त्तिकमाहात्म्ये ११८ अः ॥



Correction: