वाचस्पत्यम्
ब्र(व्र)ह्मन् || न० वृं ह—मनिन् “वृंहेर्नोऽच्चेति” उणा० नकारस्या- कारे ऋतो रत्वम् । १ देवे “तस्मादेत्दु ब्रह्म नाम रूपमन्नञ्च जायते श्रुतिः” । “तेन ब्रह्म हृदा” भाग० १ । १ । १ । २ तषसि, ३ सत्ये ४ तत्त्वे यथार्थे अमरः । सर्वगुणा- तीते विशुद्धे तुरीये ५ चित्स्वरूपे च । ६ हिर- ण्यगर्भे ७ विप्रे ८ ऋत्विग्विशेषे च पु० अमरः । विष्कम्भा- दिषु पञ्चविंशे ९ योगे मेदि० । लज्जवलदत्तेन दन्तोष्ठ्यादि त्वेन साधितम् मेदिनीकरेण ओष्ठ्यादित्वेन कीर्त्तनात्तथा- मपि । ब्रह्म च सच्चिदानन्दात्मकम् । तच्च तस्य स्वरू- पलक्षणम् । विवरणानुसारिणस्तु “आनन्दो विषयानु- भवो नित्यत्वञ्चेति सन्ति धर्मा अपृथक्त्वेऽपि पृथगिवाव- भासन्ते” इति तत्रोक्तौ मिथ्याभावः सत्यत्वम् अज्ञानभाव- श्चित्त्वम् । दुःखाभाव आनन्द इत्याहुः । तेषामभावानाञ्च ब्रह्मरूपाधिकरणे स्थितत्वात् अभावस्याधिकरणस्वरूपतया ब्रह्मरूपत्वमिति । तस्य तटस्थलक्षणञ्च जगज्जन्मस्थिति प्रलयानां प्रत्येकमुपादानप्रत्यक्षचिकीर्षाकृतिमत्त्वं तेन नव- लक्षणवत्त्वम्” वेदान्तप० । अतएवोक्तं श्रीधरेण “विश्वसर्ग- विसर्गादिनवलक्षणलक्षितमिति” । तच्च ब्रह्म द्विविधं निर्गुणं सगुणञ्च । सच्चिदानन्दात्मकस्यै व निर्गुणत्वं जग- ज्जन्मादिकर्तुश्च सगुणत्वम् । जाग्रदाद्यवस्थात्रयसाक्षिणश्च सगुणत्वं अवस्थात्रयातीतस्य चतुरीयसंज्ञा “शिवमद्वैतं चतुर्थं मन्यन्ते” इति श्रुतेस्तथात्वम् । तत्र तस्य तटस्थलक्ष- णाभिप्रायेण “जन्माद्यस्य यतः” शा० स० “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभि संविशन्ति तज्जिज्ञासस्व ब्रह्मेति” श्रुतिश्च प्रववृते तस्य स्व- रूपलक्षणाभिप्रायेण “निर्गुणं निष्कलं शान्तं निरवद्यं निरञ्जनम्” इत्याद्याः श्रुतयः प्रवृत्ताः । आत्मबोधे तु तस्य ब्रह्मणोऽखिलवस्त्वपेक्षया श्रेष्ठत्वाद्ब्रह्मत्वमुक्तं यथा “यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् । यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवधारयेत् । यद् दृष्ट्वा नापरं दृश्यं यद्भुत्वा न पुनर्भवः । यज्ज्ञात्वा नापरं ज्ञेयं तद्ब्रह्मेत्यबधारयेत् । तिर्य्यगूर्द्धमधः पूर्णं सचिदानन्दमद्वयम् । अनन्तं नित्यमेकं यत्तदिब्रह्मे- त्यबधारयेत् । अतद्व्यावृत्तिरूपेण वैदान्तैर्लक्ष्यतेऽद्वयम् । अखण्डानन्दमेकं यत् तद्ब्रह्मेन्यवधारयेत् । दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् । तत्त्वज्ञानाच्च तद्ब्रह्म सच्चि- दानन्दमद्वयम् । सर्वगं सच्चिदात्मानं ज्ञानचक्षुर्निरीक्षते । अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत्” । तच्च निर्गुण- मपि गुणभेदेन नानारूपं यथोक्तम् “ब्रह्मैकं मूर्त्तिभेदस्तु गुणभेदेन सन्ततम् । तद्ब्रह्म द्विविधं बस्तु सगुणं निर्गुणं शिव! । मायाश्रितो यः सगुणो माया- तीतञ्च निर्गुणः । स्वेच्छामयश्च भगवानिच्छया विकरोति च । इच्छाशक्तिश्च प्रकृतिः सर्वशक्ति- प्रसूः सदा । केचिदेकं वदन्त्येवं ब्रह्म ज्योतिः सनातनम् । केचिद्वदन्ति द्विविधं ब्रह्मप्रकृतिपू- र्वकम् । शृणु ये च वदन्त्येकं प्रकृतिपुरुषयोः परम् । तस्माद्भवति तौ द्वौ च तद्ब्रह्म सर्वकारणम्” । अथवैकं परं ब्रह्म द्विविधं भवतीच्छया । इच्छाशक्तिश्च प्रकृतिः सर्वशक्तिप्रसूः सदा” ब्रह्मवैवर्त्ते जन्मख० ४३ अ० । तस्य नवधा रूपं यथा “योगिनो यं वदन्त्येवं ज्योतीरूपं सनातनम् १ । जयोतिरभ्यन्तरे नित्य रूपं २ भक्ता वदन्ति यम् । वेदा वदन्ति सत्यं ३ यं नित्यमाद्यं ४ विचक्षणाः । यं वदन्ति सुराः सर्वे परं स्वेच्छामयं प्रभुम् ५ । सिद्धेन्द्रास्य्नयः सर्वे सर्वरूपं ६ वदन्ति यम् । यमनिर्वचनीयञ्च योगीन्द्रः शङ्करोवदेत् ७ । स्वयं धाता च प्रवदेत् कारणानाञ्च कारणम् ८ । शेषो वदेदनन्तं ९ यं नवधारूपमीश्वरम् । तर्काणामेव षण्णां यं षड्विधं रूपमीश्वरम् । वैष्णानामेकरूपं वेदा- नामेकमेव च । पुराणानामेकरूपं तस्मान्नवविधं स्मृ- तम् । न्यायोनिर्वर्णनीयज्ञ यन्मतं शङ्करोऽव्रवीत् । नित्यं वैशेषिकास्त्वन्यं वदन्ति च विचक्षणाः । सांख्यो वदति तं देवं ज्योतोरूपं सनातनम् । मीमांसा सर्वरूपञ्च वेदान्तः सर्वकारणम् । पातञ्चलोऽप्यनन्तञ्च वेदाः सत्य- स्वरूपकम् । स्वेच्छामयं पुराणञ्च भक्ताश्च नित्यविग्रहम्” इति तत्रैव १२८ अ० । अन्यथाऽपि सत्त्वादिगुणभेदेन तस्य चतुर्धारूपं यथा “चतुर्विभागः संसृष्टौ चतुर्धा संस्थितः स्थितौ । प्रलयञ्च करोत्यन्ते चतुर्भेदो जना- र्दनः । एकेनांशेन ब्रह्माऽसौ भवत्यव्यक्तमूर्त्तिमान् । मरीचिमिश्राः पतयः प्रजानामन्यभागतः । कालस्तृतीय- स्तस्यांश सर्वभूतानि चापरः । इत्यं चतुर्धा संसृष्टौ वर्त्ततेऽसौ रजोगुणः । एकांशेन स्थितो विष्णुः करोति परिपालनम् । मन्वादिरूपी चान्येन कालरूपी परेण च । सर्वभूतेषु चान्येन संस्थितिं कुरुते स्थितः । सत्त्वं गुण- मुपाश्रित्य जगतः पुरुषोत्तमः । आश्रित्य तमसो वृत्ति मन्तकाले तथा प्रभुः । रुद्रस्वरूपो भगवानेकांशेन भवत्यजः । अग्न्यन्तकादिरूपेण भागेनान्तेन वर्त्तते । कालस्वरूपो भागोऽन्यः सर्वभूत्यानि चापरः । विनाशं कुर्वतस्तस्य चतुर्द्धैवं महात्मनः” विणुपु० १ अंशे २१ अ० । येधाश्च रजोगुणप्रधानोपाधिकः कार्य्य ब्रह्मा । ऋत्विग्- भेदश्च अच्छावाकशब्दे ८५ पृ० दर्शितेषु प्रधानेषु चतुर्षु ऋत्विक्षु मध्ये एकतमः । “त्रयाणामपराधे तु व्रह्मा परिहरेत् सदा” सामा० भाष्यधृतकारिका । “त्रया- णामध्वर्य्यूद्गातृहीतॄणां वेदत्रयविदां मध्ये ऋत्वि- गेको ब्रह्मनामको वेदत्रयन्मन्त्रतद्विहितकर्मविषये अप- राधो न्यूनभावो यदि जायते तस्यापराधस्य प्ररिहारं प्रतीकारं कुर्य्यात्” इति तदर्थः । “यज्ञस्य हैष भिषक् ब्रह्मेति” भाष्यधृतश्रुत्यन्तरम् । अतएवास्य कृताकृता- वेक्षणार्थं वरणमन्यत्रोक्तम् । १० वृहस्पतौ च ब्रह्मपुरो- हितशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
ब्रह्मा || [न्] पुं, (वृंहति वर्द्धते यः । वृहि वृद्धौ + “वृं हेर्नोऽच्च ।” उणा० ४ । १४५ । मनिन् नकार- स्याकारश्च ।)
ऋत्विग्भेदः । तस्य स्थापन- विधिर्यथा । ततः प्रादेशप्रमाणां घृताक्तां समिधं तूष्णीमग्नौ हुत्वा ब्रह्मस्थापनं कुर्य्यात् । समाग्रपञ्चाशत्कुशपत्ररचितं द्विर्दक्षिणावर्त्त- मूर्द्धमुखं दर्भवटुं अधीतवेदं ब्राह्मणं वा छत्र- मुत्तरासङ्गं वा कमण्डलुं वा ब्रह्मत्वेन परि- कल्प्य धारासहितमुदकपात्रं गृहीत्वा अग्ने- रुत्तरतः प्रभृति दक्षिणावर्त्तेन दक्षिणदेशं गत्वा अरत्निमात्रान्तरिते देशे पूर्ब्बाभिमुखीं वारि- धारां दत्त्वा तदुपरि प्रागग्रान् कुशानास्तीर्य्य पश्चिमाभिमुखोऽनुपविष्टस्तिष्ठेत् । वामहस्ता- नामिकाङ्गुष्ठाभ्यामास्तीर्णकुशमेकं गृहीत्वा प्रजापतिरृषिरनुष्टुप् छन्दोऽग्निर्देवता तृण- निरसने विनियोगः । ॐ निरस्तः परावसु- रित्यनेन दक्षिणपश्चिमकोणे प्रक्षिपेत् । तत अप उपस्पृश्य दक्षिणपादेन सव्यपादमवष्टभ्य उत्तराभिमुखीभूय आस्तीर्णकुशानद्भिरभ्युक्ष्य प्रजापतिरृषिरनुष्टुप् छन्दोऽग्निर्देवता ब्रह्मोप- वेशने विनियोगः ॐ आवसोः सदने सीद इति । ब्राह्मणब्रह्मपक्षे तु ब्राह्मण एव सीदामीति ब्रूयात् अनेन कुशोपरि पूर्ब्बाग्रं कुशब्राह्मणं ब्राह्मणब्रह्मपक्षे तु उत्तराभिमुखं स्थापयित्वा तदुपरि कुशान् दत्त्वा अद्भिरभ्युक्ष्य कुशकुसुमै- रर्च्चयेत् । ततस्तेनैव पथा प्रत्यावृत्य आसने पूर्ब्बाभिमुख उपविष्टो भूमिजपादिकं कुर्य्यात् । यदि तु ब्रह्मत्वेनारोपितो ब्रह्मा अयज्ञीयवाचं वदेत् तदा इमं मन्त्रं जपेत् । प्रजापतिरृषि- र्गायत्त्रीच्छन्दो विष्णुर्देवता अयज्ञीयवाग्वचन- निमित्तजपे विनियोगः । ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदं समूढमस्य पांशुले इति जपेत् । कुशादिब्रह्मपक्षे तु कर्म्मकर्त्तुरेव कृताकृतावेक्ष- णादिब्रह्मकार्य्यकर्त्तव्यत्वादयज्ञीयवाग्वचननि- मित्तं स एव जपेत् । इति भवदेवभट्टः ॥ * ॥
योगभेदः । स तु विष्कम्भादिसप्तविंशतियोगा- न्तर्गतपञ्चविंशयोगः । तत्र जातफलम् । “नानाशास्त्राभ्याससंनीतकालो वर्णाचारैः संयुतश्चारुकीर्त्तिः । शान्तो दान्तो जायते चारुकर्म्मा सूतौ यस्य ब्रह्मयोगप्रयोगः ॥” इति कोष्ठीप्रदीपः ॥ विप्रः । इति मेदिनी ॥ अर्हदुपासकविशेषः । इति हेमचन्द्रः ॥ सृष्टिकर्त्तृदेवताविशेषः । वृंहति प्रजा यः । तत्पर्य्यायः । आत्मभूः २ सुरज्येष्ठः ३ परमेष्ठी ४ पितामहः ५ हिरण्य- गर्भः ६ लोकेशः ७ स्वयम्भूः ८ चतुराननः ९ धाता १० अब्जयोनिः ११ द्रुहिणः १२ विरिञ्चिः १३ कमलासनः १४ स्रष्टा १५ प्रजापतिः १६ वेधाः १७ विधाता १८ विश्वसृक् १९ विधिः २० । इत्यमरः । १ । १ । १६-१७ ॥ द्रुघणः २१ विरिञ्चः २२ स्वयम्भुः ४३ पद्मयोनिः २४ पद्मासनः २५ बिश्वसृग्विधिः २६ । इति भरतः ॥ देवदेवः २७ पद्मगर्भः २८ गुणसागरः ३९ वेदगर्भः ३० बहुरेताः ३१ स्वभूः ३२ सन्ध्यारामः ३३ सुधा वर्षी ३४ कृपाद्बैतः ३५ खसर्पणः ३६ लोक- नाथः ३७ महावीर्य्यः ३८ सरोजी ३९ मञ्जु- प्राणः ४० नाभिजन्मा ४१ बहुरूपः ४२ जटा- घरः ४३ सनत्शतधृतिः ४४ कञ्जजः ४५ प्रभुः ४६ चिन्तामणिः ४७ पद्मपाणिः ४८ पुराणगः ४९ अष्टकर्णः ५० हंसरथः ५१ सर्व्वकर्त्ता ५२ चत्- र्मुखः ५३ । इति शब्दरत्नावली ॥ कः ५४ । इत्येकाक्षरकोषः ॥ आः ५५ शतपत्रनिवासः ५६ स्वायम्भुवमनुपिता ५७ । इति कविकल्पलता ॥ मः ५८ । इति प्रणवव्याख्या ॥ (नाभिजन्मा ५९ । अण्डजः ६० । पूर्ब्बः ६१ । निधनः ६२ । कमलोद्भवः ६३ । सदानन्दः ६४ । रजो- मूर्त्तिः ६५ । सत्यकः ६६ । हंसवाहनः ६७ । इति कस्मिंश्चिदमरकोषे दृश्यते । १ । १ । १७ ॥)
तस्य स्वरुपं यथा, — मार्कण्डेय उवाच । “ततो ब्रह्माण्डसंस्थानं दर्शयामास शम्भवे । ववृधे तोयराशिस्थं ब्रह्माण्डञ्च यथा पुरा ॥ तन्मध्ये पद्मगर्भाभं ब्रह्माणं जगतः पतिम् । ज्योतीरूपं प्रकाशार्थं सृष्ट्यर्थञ्च पृथग्गतम् ॥ शरीरिणं स ददृशे ब्रह्माण्डान्तर्गतं मुहुः । चतुर्भुजं प्रकाशन्तं ज्योतिर्भिः कमलासनम् ॥ तत्रैव च त्रिधाभूतं वपुर्ब्राह्म्यं ददर्श सः । ऊर्द्ध्वमध्यान्तमागैस्तु ब्रह्मविष्णुशिवात्मिकान् ॥ अथोर्द्ध्वभागो वपुषो ब्रह्मत्वमगमत्तथा । मध्यो यथा विष्णुभूतां ददर्शान्तस्य शम्भूताम् ॥ एकमेव शरीरन्तु त्रिधाभूतं मुहुर्मुहुः । हरो ददर्श स्वे गर्भे तथा सर्व्वमिदं जगत् ॥ कदाचिद्वैष्णवं कायं ब्राह्म्ये काये लयं व्रजेत् । ब्राह्म्यं तथा वैष्णवे च शाम्भवे वैष्णवं तथा ॥ शाम्मवं वैष्णवे काये ब्राह्म्ये चाप्यथ शाम्भवम् । गच्छन्तं लीनतां शम्भुरेकताञ्च मुहुर्मुहुः ॥ ददर्श वामदेवोऽपि भिन्नं चाप्यपृथग्गतम् । परमात्मनि गच्छन्तं लीनतां तद्वपुश्च यत् ॥” इति कालिकापुराणे १४ अध्यायः ॥ * ॥
तस्य पूजाविधिर्यथा । “शृणु राजन्नवहितो ब्रह्मणः पूजनक्रमम् ॥ ब्रह्मबीजं पुरा प्रोक्तं यन्मन्त्रं पूर्ब्बतश्चरेत् । तेनैव तन्तु संपूज्य परं निर्व्वाणमाप्नुयात् ॥ एतस्य चाङ्गमन्त्रन्तु यथा भर्गेण भाषितम् । वेतालभैरवाद्यांस्तु रूपञ्च शृणु भूमिप ! ॥ तस्य मन्त्रोद्धारो यथा, —
“पतृतीयश्च वह्निश्च शेषस्वरसमन्वितः । चन्द्रबिन्दुसमायुक्तो ब्रह्ममन्त्रः प्रकीर्त्तितः ॥ अनेनैव तु मन्त्रेण ब्रह्माणं यः प्रपूजयेत् । स काममिष्टं संप्राप्य ब्रह्मलोके प्रमोदते ॥” तस्य ध्यानं यथा, —
“ब्रह्मा कमण्डलुधरश्चतुर्वक्त्रश्चतुर्भुजः । कदाचिद्रक्तकमले हंसारूढः कदाचन ॥ वर्णेन रक्तगौराङ्गः प्रांशुस्तुङ्गाङ्ग उन्नतः । कमण्डलुर्वामकरे स्रुवो हस्ते तु दक्षिणे ॥ दक्षिणाधस्तथा माला वामाधश्च तथा स्रुवः । आज्यस्थाली वामपार्श्वेवेदाः सर्व्वेऽग्रतः स्थिताः ॥ सावित्री वामपार्श्वस्था दक्षिणस्या सरस्वती । सर्व्वे च ऋषयो ह्यग्रे कुर्य्यादेभिश्च चिन्तनम् ॥ चतुष्कोणं चतुर्द्बारमष्टपत्रसमन्वितम् । चतुष्कोणे सङ्गतन्तु शुक्लमण्डलस्रुक्स्रुवैः ॥ सम्मार्जनादिकं सर्व्वं याश्चान्याः प्रतिपत्तयः । ग्राह्या उत्तरतन्त्रोक्ता योगपीठेऽङ्गकादिका ॥” तस्य पूजाक्रमो गायत्त्री च यथा, —
“आधारशक्तिप्रमुखांस्तथा सर्व्वांस्तु पूजयेत् । अष्टपत्रेषु पद्मस्याष्टौ दिकपालान् प्रपूजयेत् ॥ पद्मासनाय विद्महे हंसारूढाय धीमहि । तन्नो ब्रह्मन्निति पदं ततश्चानु प्रचोदयात् ॥ एषा तु ब्रह्मगायत्त्री पूजयेदनया विधिम् । निर्म्माल्यधारी चैतस्य सनत्कुमार उच्यते ॥ उपचाराः पूर्ब्बवत्तु नेत्ररञ्जनरञ्जिताः । रक्तकौषेयवस्त्रन्तु ब्रह्मप्रीतिकरं परम् ॥ आज्यं सपायसं सर्पिस्तिलयुक्तस्य भोजनम् । सितरक्तसमायुक्तं चन्दनं परिकीर्त्तितम् ॥ पार्श्वयोः शङ्करं विष्णुं पूजने पूजयेन्नरः । सवादीन् करसंस्थांस्तु मण्डले परिपूजयेत् ॥ सरस्वतीञ्च सावित्रीं हंसं पद्मन्तथैव च । अयं विशेषः कथितः प्रणामश्चास्य दण्डवत् ॥ पद्मबीजभवा माला जपकर्म्मणि कीर्त्तिता । पूर्णादर्शौ तिथी ग्राह्ये पूजाकर्म्मणि सर्व्वदा ॥ क्षीरेणार्घ्यं प्रदद्यात्तु सर्व्वदा ब्रह्मणे मृप ! । अयन्ते कथितो भूप ! यथा भर्गेण भाषितः ॥ दर्शयता स्वपुत्त्राभ्यां कामरूपाह्वयं शुभम् । यत्र तत्र विधिञ्चैव साधकः परिपूजयेत् ॥ पीठे सम्यक् पूजयित्वा परं निर्व्वाणमाप्नुयात् ॥” इति कालिकापुराणे ८२ अध्यायः ॥ तस्यापूज्यत्वकारणम् यथा । मोहिन्युवाच । “उत्तिष्ठ जगतीनाथ ! पारं कुरु स्मरार्णवे । निमग्नां दुस्तरे घोरे कर्णधार ! भयानके ॥ अतीवनिर्जनस्थाने सर्व्वजन्तुविवर्जिते । सुगन्धिवायुना रम्ये पुंस्कोकिलरुतशुते ॥ सन्ततं त्वन्मनस्कामां दासीं जन्मनि जन्मनि । क्रीणीहि रतिपण्येनामूल्यरत्नेन सत्वरम् ॥ इत्युक्त्वा मोहिनी सद्यो जगत्स्रष्टुश्च ब्रह्मणः । विचकर्ष करं वस्त्रं सस्मिता कामविह्वला ॥ विज्ञाय समयं धाता तामुवाच भयातुरः । पीयषतुल्यवचनं परं विनयपूर्ब्बकम् ॥” ब्रह्मोवाच । “शृणु मोहिनि ! मद्वाक्यं सत्यं सारं हितं स्फुटम् । न कुरु त्वञ्च त्रैलोक्ये स्त्रीजातीनामपत्रपाम् ॥ त्यज मामम्बिके ! पुत्त्रं वृद्धं निष्काममेव च । त्वत्कर्म्मयोग्यं रसिकं युवानं पश्य सस्मिते ! ॥ निषेकाल्लभ्यते पत्नी गुरुर्भर्त्ता शुभाशुभम् । मन्त्रः शिल्पमपत्यञ्च सर्व्वमेतन्न यत्नतः ॥ त्वया सह मम रतेर्निर्बन्धो नास्ति सुव्रते ! । क्षुद्रं महद्वा यत् कर्म्म सर्व्वं दैवनिबन्धकम् ॥ इत्युक्तवन्तं ब्रह्माणं स्मरन्तं मत्पदाम्बु जम् । विचकर्ष पुनर्वेश्या कामेन हतचेतना ॥ एतस्मिन्नन्तरे शीघ्रं स्थानं तत् सुमनोहरम् । आजग्मुर्मुनयः सर्व्वे ज्वलन्तो ब्रह्मतेजसा ॥ दृष्ट्वैतांश्च मुनिश्रेष्ठानागतांश्च ममेच्छया । तत्याज मोहिनी शीघ्रं व्रीडया कमलोद्भवम् ॥ तत्रोवास जगद्धाता तद्बामपार्श्वतश्च सा । प्रणेमुर्मुनयस्तञ्च भक्तिनम्रात्मकन्धराः ॥ आशिषं युयुजे ब्रह्मा वासयामास तान् प्रभुः । तेषु मध्ये प्रजज्वाल यथा तारासु चन्द्रमाः ॥ पप्रच्छुर्मुनयो देवं कथमेषा तवान्तिके । स्वर्व्वेश्यानाञ्च प्रवरा मोहिनीत्येवमेव च ॥ श्रुत्वा मुनीनां वचनमुवाच तान् प्रजापतिः ॥ ब्रह्मोवाच । अपूर्ब्बं नृत्यगीतञ्च चिरं कृत्वा शुभावहा । उवासेयं परिश्रान्ता यथा कन्या पितुः पुरः ॥ इत्युक्त्वा जगतां धाता जहास मुनिसंसदि । जहसुर्मुनयः सर्व्वे सर्व्वज्ञास्तत्र राधिके ! ॥ सर्व्वं रहस्यं विज्ञाय जगत्स्रष्टुश्च मानसम् । सद्यश्चुकोप कुलटा हास्यव्याजेन संसदि ॥ सर्व्वाङ्गकम्पमाना सा कुलटा कुटिलानना । रक्तपङ्कजनेत्रा च कोपप्रस्फुरिताधरा ॥ उत्थाय च सभामध्ये तेषाञ्च पुरतः स्थिता । संबुध्योवाच ब्रह्माणं मृत्युकन्या यथा रुषा ॥ मोहिन्युवाच । अये ब्रह्मन् ! जगन्नाथ ! वेदकर्त्ता त्वमेव च । किंवा वेदप्रणिहितं कर्म्म किन्तद्विपर्य्ययम् ॥ विचारं मनसा स्वेन कुरु वेदविदां गुरो ! । स्वकन्यायां यत्स्पृहा स कथं हसति नर्त्तकीम् ॥ निर्म्मिताहमीश्वरेण स्वर्व्वेश्या सर्व्वगामिनी । सतां कर्म्म विरुद्धं यत्तदत्यन्तविडम्बनम् ॥ दासीतुल्यां विनीताञ्च दैवेन शरणागताम् । यतो हससि गर्व्वेण ततोऽपूज्यो भवाचिरम् ॥ अचिराद्दर्पभङ्गन्ते करिष्यति हरिः स्वयम् । निबोध शरणं ब्रह्मन् ! वेश्यायाश्चैव साम्प्रतम् ॥ तवैव वचनं स्तोत्रं मन्त्रं गृह्णाति यो नरः । भविता तस्य विघ्नश्च स यास्यत्युपहास्यताम् ॥ भविता वार्षिकी पूजा देवतानां युगे युगे । तव माघ्याञ्च संक्रान्त्यां न भविष्यति सा पुनः ॥ कल्पान्तरेऽत्र कल्पे वा देहे देहान्तरेऽत्र ते । पुनः पूजा न भविता या गता सा गतैव च ॥ इत्युक्त्वा मोहिनी शीघ्रं जगाम मदनालयम् । तेन सार्द्धं रतिं कृत्वा बभूव विज्वरा पुनः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे मोहिनीशाप- ब्रह्मदर्पभङ्गप्रस्तावः ३३ अध्यायः ॥ तस्य सृष्टिक्रमो यथा । मनुरुवाच । “चतुमुंखत्वमगमत् कस्माल्लोकपितामहः । कथञ्च लोकानसृजद्ब्रह्मा ब्रह्मविदांवरः ॥” मत्स्य उवाच । “तपश्चचार प्रथमममराणां पितामहः । आविर्भूतास्ततो वेदाः साङ्गोपाङ्गपदक्रमाः ॥ पुराणं सर्व्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् । नित्यशब्दमयं पुण्यं शतकोटिप्रविस्तरम् ॥ अनन्तरञ्च वक्त्वेभ्यो वेदास्तस्य विनिःसृताः । मीमांसा न्यायविद्या च प्रमाणात्मकसम्मता ॥” तस्य मानसदशपुत्त्रसृष्टिर्यथा, —
“वेदाभ्यासरतस्यास्य प्रजाकामस्य मानसाः । मनसः पूर्ब्बसृष्टा वै जाता ये तेन मानसाः ॥ मरीचिरभवत् पूर्ब्बं ततोऽत्रिर्भगवानृषिः । अङ्गिराश्चाभवत् पश्चात् पुलस्त्यस्तदनन्तरम् ॥ ततः पुलहनामा वै ततः क्रतुरजायत । प्रचेताश्च ततः पुत्त्रो वशिष्ठश्चाभवत् पुनः ॥ पुत्त्रो भृगुरभूत्तत्र नारदोऽपि चिरादभूत् । दशेमान् मानसान् ब्रह्मा जपन् पुत्त्रानजी- जनत् ॥” तस्य शारीरदशप्रजासृष्टिर्यथा, —
“शारीरानथ वक्ष्यामि मातृहीनान् प्रजापतेः । अङ्गुष्ठाद्दक्षिणाद्दक्षप्रजापतिरजायत ॥ धर्म्मस्तनान्तादभवद्धृदयात् कुसुमायुधः । भ्रूमध्यादभवत् क्रोधो लोभश्चाधरसम्भवः ॥ बुद्धर्मोहः समभवदहङ्कारादभून्मदः । प्रमोदश्चाभवत् कण्ठान्मृत्युर्लोचनतो नृप ! ॥ रभसः करमध्यात्तु ब्रह्मसूनुरभूत्ततः । एते नव सुता राजन् ! कन्या च दशमी पुनः ॥ अङ्गजा इति विख्याता दशमी ब्रह्मणः सुता ॥” तस्य चतुर्मुखत्वस्य कारणं यथा, —
“ततः स्वदेहसम्भू तामात्मजामित्यकल्पयत् । दृष्ट्वा तां व्यथितस्तावत् कामवाणार्द्दितो विभुः । अहो रूपमहो रूपमिति चाह प्रजापतिः ॥ ततो वशिष्ठप्रमुखा भगिनीमिति चुक्रुशुः । ब्रह्मा न किञ्चिद्ददृशे तन्मुखालोकनादृते ॥ अहो रूपमहो रूपमिति प्राह पुनः पुनः । ततः प्रणामनम्रां तां पुरस्तादभ्यलोकयत् ॥ अथ प्रदक्षिणञ्चक्रे सा पितुर्वरवर्णिनी । पुत्त्रेभ्यो लज्जितस्यास्य तद्रूपालोकनेच्छया । आविर्भूतं ततो वक्त्वं दक्षिणं पाण्डुगण्डवत् ॥ विस्मयस्फुरदोष्ठञ्च पाश्चात्यमुदगात्ततः । चतुर्थमभवत् पश्चाद्वामं कामशरातुरम् ॥ ततोऽन्यदभवत्तस्य कामातुरतया तथा । उत्पतन्त्यास्तदाकाशमालोकनकुतूहलात् ॥ सृष्ट्यर्थं यत् कृतं तेन तपः परमदारुणम् । तत् सर्व्वं नाशमगमत् स्वसुतोपगमेच्छया ॥ तेनाशु वक्त्रमभवत् पञ्चमन्तस्य धीमतः । आविर्भवज्जटाभिश्च तद्बक्त्वञ्चावृणोत्प्रभुः ॥” इति मत्स्यपराणे ३ अध्यायः ॥ * ॥
नव ब्रह्माणो यथा, मार्कण्डेयपुराणे । “भृगुं पुलस्त्यं पुलहं क्रतुमङ्गिरसन्तथा । मरीचिं दक्षमत्रिञ्च वशिष्ठञ्चैव मानसम् । नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥” कल्पभेदे तस्य जन्मानि यथा, —
“त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् । चाक्षुषं वै द्वितीयं मे जन्म चासीत् पुरातनम् ॥ त्वत्प्रसादात्तु मे जन्म तृतीयं वाचिकं महत् । त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो ! ॥ नासत्यञ्चापि मे जन्म त्वत्तः पञ्चममुच्यते । अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्म्मितम् ॥ इदञ्च सप्तमं जन्म पद्मजन्मेति मे प्रभो ! । सर्गे सर्गे ह्यहं पुत्त्रस्तव त्रिगुणवर्ज्जित ! ॥” इति महाभारते शान्तिपर्व्वणि मोक्षधर्म्मे अनिरुद्धरूपविष्णुं प्रति पाद्मकल्पीयब्रह्मवच- नम् ॥ * ॥
तस्य पतनकालो यथा, —
“द्वात्रिंशदब्दकोट्यस्तु तथा वृन्दाष्टकं भवेत् । खर्व्वद्वयं निखर्व्वञ्च शङ्कुत्रययुतं तथा ॥ पद्ममेकं समुद्राश्च त्रयो ब्रह्मसमागते । ब्रह्मा विष्णुदिने चैकः पतत्येवं वदन्ति ते ॥ मनीषिणस्तथा विष्णुरहन्युंग्रस्य शङ्करः । ईश्वरस्य तथा चासौ स सांख्यप्रकृतेस्तथा ॥ अतः परं परे धाम्नि कालसंख्या न विद्यते । ब्रह्मणोऽतः परं संख्या नास्ति चैतन्मतं हि नः ॥” अपि च । “एकार्णवे तु त्रैलोक्ये ब्रह्मा नारायणात्मकः । भोगिशय्यागतः शेते त्रैलोक्यग्रासवृंहितः ॥ जलस्थैर्योगिभिर्देवश्चिन्त्यमानोऽब्जसम्भवः । व्यतीतायान्तु शर्व्वर्य्यां स बुद्ध्वा सृजते पुनः ॥ एवन्तु ब्रह्मणो वर्षं तथा वर्षशतं भवेत् । गते वर्षे शते ब्रह्मा परमात्मनि लीयते ॥” इत्यग्निपुराणम् ॥