शब्दकल्पद्रुमः
ब्रह्मपुरी || स्त्री (ब्रह्मणः पुरी ।)
विधातुर्धाम । यथा । भूलोकान्तरीक्षस्वर्गलोकादि ब्रह्माण्डो- दरवर्त्ति च ब्रह्मपुरीनामकं त्रैलोक्यस्वरूपं मम हृदयमध्ये वाह्ये च सूर्य्यमण्डलमध्यवर्त्ति तेजसा स एकीभूतं ज्योतिरहमिति चिन्तयन् जपं कुर्य्यात् । इति गायत्त्रीव्याख्या ॥ * ॥
काशी । यथा, —
“विद्याप्रबोधोदयजन्मभूमि- र्वारानसी ब्रह्मपुरी दुरत्यया ॥” इति प्रबोधचन्द्रोदयनाटकम् ॥