वाचस्पत्यम्
ब्र(व्र)ह्मयज्ञ || पु० ब्रह्मनिमित्तकस्तदध्ययनतदध्यापनानिमित्तको यज्ञः । वेदाध्ययनाध्यापनादौ अमरः । “अध्यापनं ब्रह्मयज्ञः” मनुः । “स्वाध्यायोब्रह्मयज्ञः” विष्णु सू० । तेन वेदाध्ययनाध्यापनयोब्रह्मयज्ञता ।
शब्दकल्पद्रुमः
ब्रह्मयज्ञः || पुं, (ब्रह्मणो ब्रह्मणे वा यज्ञः ।)
विधिना वेदस्याभ्यसनम् । शिष्याणामध्यापनञ्च । इत्य- मरभरतौ ॥ यथा, मनौ । ३ । ७० । “अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो बलिर्भौतोनृयज्ञोऽतिथिपूजनम् ॥”