वाचस्पत्यम्
ब्रह्मराक्षस || पु० ब्र(व्र)ह्मा विप्रोऽपि कुकर्मभिः राक्षसः । कुकर्मणा विप्रयोनितो राक्षसरूपतां प्राप्ते भूतभेदे “संयोगं पतितैर्गत्वा परस्य योषितं तथा । अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः” इति मनुः । पतितप्रति- ग्रहेऽपि तद्योनिप्राप्तिः भा० आनु० ११ अ० दर्शिता । तच्च वाक्यं अधर्मशब्दे १२१ पृ० दर्शितं तच्च न हरि- वंशवाक्यं किन्तु अनुशासनपर्वीयमिति बोध्यम् । पारिभाषिकब्रह्मराक्षसा यथा “मूर्खः स्त्री कच्छपश्चैव वाजी बधिर एव च । गृहीतार्थं न सुञ्चन्ति पञ्चैते ब्रह्मराक्षसाः” व्यवहारप्रदीपः । २ सिवानुचरभेदे भाग० १० । ६३ अ० ।
शब्दकल्पद्रुमः
ब्रह्मराक्षसः || पुं, (आदौ ब्रह्मा ब्राह्मणः पश्चात् राक्षसः कुकर्म्मभिः राक्षसयोनिं गतः ।)
भूतविशेषः । यथा, —
“संयोगं पतितैर्गत्वा परस्यैव च योषितम् । अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः ॥” इति मानवे । १२ । ६० ॥ (स च यज्ञविनाशकारी भूतयोनिगतत्वात् । यथा, रामायणे । १ । ११ । २१ । “शक्योऽवाप्तुमयं यज्ञो नाशक्तेन महीक्षिता । नचैवाश्रद्दधानेन न चाल्पद्रविणेन च ॥ छिद्रं हि मृगयन्त्यत्र यज्ञघ्ना ब्रह्मराक्षसाः ॥”)
महादेवस्य गणविशेषः । यथा, —
“डाकिनीर्जातुधानांश्च वेतालान् सविनायकान् । भूतमातृपिशाचांश्च कुष्माण्डान् ब्रह्मराक्ष- सान् ॥” इति श्रीभागवते बाणयुद्धे ६३ अध्यायः ॥ पारिभाषिकब्रह्मराक्षसाः । यथा, —
“मूर्खः स्त्री कच्छपश्चैव वाजी वधिर एव च । गृहीतार्थं न मुञ्चन्ति पञ्चैते ब्रह्मराक्षसाः ॥” इति व्यवहारप्रदीपः ॥