वाचस्पत्यम्
ब्र(व्र)ह्मसावर्णि || पु० दशमे मनुभेदे “दशमी ब्रह्मसावर्णि रुपश्लोकसुतो महान् । तत्सुता भूरिसेनाद्या हविष्मत्- प्रमुखा द्विजाः । हविष्मान् सुकृतः सत्यो जयो मूर्त्ति- स्तदा द्विजाः । सुवासनविरुद्धाद्या देवाः शम्भुः सुरे- श्वरः । विष्वक्मेनो विषुच्यान्तु शम्भोः सख्यं करिष्यति । जातः स्वांशेन भगवान् गृहे विश्वसृजां प्रभुः” भाग० ८ । १३ । १०
शब्दकल्पद्रुमः
ब्रह्मसावर्णिः || पुं, (ब्रह्मपुत्त्रो सावर्णिः ।)
दशम मनुः । अस्मिन् मन्वन्तरे विश्वक्सेनोऽवतारः । शम्भुरिन्द्रः । सुरसेनविरुद्धाद्याः देवाः । हविष्म- दाद्याः सप्तर्षयः । भूरिसेनाद्या मनुपुत्त्रा भवि- ष्यन्ति । इति श्रीभागवतम् । ८ । १३ । २१-२२ ॥ अन्यच्च । “मन्वन्तरे तु दशमे ब्रह्मपुत्त्रस्य धीमतः । सुरसेना विरुद्धाश्च द्विप्रकारास्तथा स्मृताः ॥ शतसंख्या हि ते देवा भविष्यास्तत्र वै मनौ । तत्पुत्त्राणां शतं भावि तद्देवानां तदा शतम् ॥ शास्तिरिन्द्रस्तदा भावी सर्व्वैरिन्द्रगुणैर्युतः । सप्तर्षी स्तु निबोध त्वं ये भविष्यन्ति वै तदा ॥ आपो मूर्त्तिर्हविष्मांश्च सुकृती सत्य एव च । नाभागोऽप्रतिमश्चैव वाशिष्ठश्चैव सप्तमः ॥ सुक्षेत्त्रश्चोत्तमौजाश्च भूरिसेनः सुवीर्य्यवान् । शतानीकोऽथ वृषभो अनमित्रो जयद्रथः ॥ भूरिद्युम्नः सुवर्च्चाश्च तस्यैते तनया मनोः ।” इति ब्रह्मसावर्णिकम् । इति मार्कण्डेयपुराणे ॥ ९४ । ११-१६ ॥