संस्कृत-शब्दकोशः

ब्रह्मौदन ब्राह्मक

ब्राह्म

वाचस्पत्यम्

ब्रा(व्रा)ह्म ||‍ न० ब्रह्मण इदम्, तेन प्रोक्तम् वा अण् दिलोपः । १ अङ्गुष्ठमूले तीर्थे, तेन हि तीर्थेन द्विजाचमनं विहित- मिति तस्य तत्सम्बन्धित्वम् “प्राग्वा ब्रा(व्रा)ह्मेन तीर्थेन द्विजा नित्यमुपस्पृशेत्” इति मनुम् “अङ्गुष्ठोत्तरस्ततो रेखा या पाणेर्दक्षिणस्य च । एतद्ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै” स्मृतिः । २ नारदे पु० जटा० । ब्र(व्र)ह्म- णोक्ते अष्टादशपुराणान्तर्गते ३ महापुराणभेदे न० । ४ विवाहभेदे ५ पारदे च पु० । ६ सरस्वत्यां तदधिष्ठातृकायां ७ वाचि ८ सोमलतायां ९ ब्रह्मोशाके (वामनहाटि) शाक- भेदे च स्त्री । “आवृत्तानां गुरुकुलात् विप्राणां पूजको भवेत् । नृपाणामक्षयो ह्येष ब्राह्मो धर्मो विधीयते इति मनूक्ते राज्ञां १० धर्मभेदे पु० । ११ मातृभेदे स्त्री ङीप् । “ब्राह्मी नारायणी तथेति” कालकवचम् । “वृहदस्याः शरीरं यदप्रमेयं प्रमाणतः । वृहद्वि- स्तीर्णमित्युक्तं ब्राह्मी देवी ततः स्मृता देवीपु० उक्त- निर्वचनायां १२ देव्याञ्च स्त्री १३ ब्रह्मसम्बन्धिनिमात्रे त्रि० स्त्रियां ङीप् “एषा ब्राह्मी स्थितिः पार्थ!” गीता । सरस्वत्या ब्रह्मजातत्वं च ब्रह्माणीशब्दे दर्शितं तत्र दृश्यम् । “ब्राह्मी हिमा सरा तिक्ता लघुर्मेध्या च शीतला । कषाया मधुरा स्वादुपाकायुष्या रसायनी । स्वर्य्या स्मृतिप्रदा कुष्ठपाण्डुमेहाश्रकासजित् । विष- शोथज्वरहरी तद्वन्मण्डूकपण्यंपि” भावप्र० ब्राह्मी- शाकस्य गुणा उक्ताः । १४ वाराहीकन्दे १५ हिलमोचि- कायां स्त्री राजनि० । १६ रोहिण्यां स्त्री १७ नक्षत्रे न० तयोर्ब्रह्माधिष्ठातृदेवताकत्वात् तथात्वं “रात्रेश्च पश्चिमे भागे मुहूर्त्तो ब्राह्म उच्यते” पितामहोक्ते रात्रिशेषयामा- र्द्धस्थिते अरुणोदयकालात् प्राग्दण्डद्वयात्मके १८ काले पु० १९ ब्रह्मसम्बन्धिदिने २० तन्माने च अहन्शब्दे दृश्यम् ।


शब्दकल्पद्रुमः

ब्राह्मं || क्ली (ब्रह्मण इदम् । ब्रह्मन् + “तस्ये- दम् ।” ४ । ३ । १२० । इत्यण् । ‘नस्तद्धिते ।’ ६ । ४ । १४४ । इति टिलोपः ।)
ब्रह्मतीर्थं । तत्तु अङ्गुष्ठस्य मूले वर्त्तते । इत्यमरः ॥ २ । ७ । ५१ ॥ अनेन तीर्थेन द्बिजस्याचमनं यथा, आह्निकतत्त्वे । “अन्तर्जानुशुचौ देश उपविष्ट उदङ्मुखः । प्राग्वा ब्राह्मेण तीर्थेन द्बिजो नित्यमुपस्पृशेत् ॥ अङ्गुष्ठोत्तरतो रेखा या पाणेर्दक्षिणस्य च । एतद्ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै ॥” ब्रह्मपुराणम् । यथा, —
“ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतं तथा ॥” इति मलमासतत्त्वधृतविष्णुपुराणवचनम् ॥ (ब्रह्मसम्बन्धिनि, त्रि । यथा, मनुः । १ । ६८ । “ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः । एकैकशो युगानान्तु क्रमशस्तन्निबोधत ॥” ब्रह्मा देवतास्य इति । ब्रह्मन् + “सास्य देवता ।” ४ । २ । २४ । इत्यण् । टिलोपः । ब्रह्मदेवताकमस्त्रादि । यथा, रघुः । १२ । ९७ । “अमोघं सन्दधे चास्मै धनुष्येकधनुर्द्धरः । ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ॥”)


शब्दकल्पद्रुमः

ब्राह्मः || पुं, (ब्रह्मणोऽपत्यं पुमान् इति । ब्रह्मन् + “तस्यापत्यम् । ४ । १ । ९२ । इत्यण् । “नस्त- द्धिते ।” ६ । ४ । १४४ । इति टिलोपः ।)
नारदः । इति जटाधरः ॥ (ब्रह्मण इवायमिति अण् ।)
विवाहविशेषः । यथा, —
“वरमाहूय यथाशक्त्यलङ्कृता कन्या यत्र दीयते सः ।” यथा, —
“आच्छाद्य चार्च्चयित्वा च श्रुतशीलवते स्वयम् । आहूय दानं कन्याया ब्राह्मो धर्म्मः प्रकीर्त्तितः ॥” इत्युद्बाहतत्त्वम् ॥ (“रात्रेश्च पञ्चिमे यामे मुहूत्तो ब्राह्म उच्यते ।” इति नियमात् रात्रिशेषयामार्द्धस्थितोऽरुण- दयात् प्राक्दण्डद्वयात्मको कालविशेषः । यथा, मनुः । ४ । ९१ । “ब्राह्मे मुहूर्त्ते बुद्ध्येत धर्म्मार्थौ चानुचिन्त- येत् ॥”)



Correction: