संस्कृत-शब्दकोशः

ब्राह्मगुप्त ब्राह्मणक

ब्राह्मण

वाचस्पत्यम्

ब्रा(व्रा)ह्मण ||‍ पुंस्त्री० ब्रह्म वेदं शुद्धं चैतन्यं वा वेत्त्यधीते वा अण् “ब्रह्मणो जाताविति” पा० न टिलोपः ब्रह्मणो मुखजातत्वात् ब्रह्मणोऽपत्यम् वा अण् । १ विप्रे जाति- भेदे स्त्रियां जातित्वात् ङीष् । २ पुक्कायां स्त्री ङीप् । “ब्रह्म जानाति ब्राह्मणः” इत्युक्ते ३ परब्रह्मज्ञे त्रि० । ब्राह्मणक्षेत्रे ब्राह्मणाज्जातदेहे तत्सङ्कल्पजातदेहे च बाह्मणत्वजातिः स्वीक्रियते यथा गोमयवृश्चिको भयजातदेहस्य वृश्चिकत्वं तद्वत् । तत्र सङ्कल्पजाते देहे ब्राह्मणत्वं यथा नारदद्रोणादौ । इदानीञ्च ब्राह्मणस्य सत्यसकल्पत्वाभावान्न तथात्वम् । किञ्च कलौ असवर्णा विवाहनिषेधादपि न तथात्वम् । “ब्राह्मण्यां ब्राह्मणाज्जाती ब्राह्मणः स्यान्न संशयः । क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि” भा० दानधर्म- वाक्यस्यापि संकल्पभेदादेव तथात्वेन युगान्तरविषयत्वम् । तस्य लक्षणं यथा “क्षात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन च । एभिर्युक्तो हि यस्तिष्ठेन्नित्यं स द्विज उच्यर्ते” वह्निपु० । “न क्रुध्येन्न प्रह्रष्टेच्च मानितोऽमानितश्च यः । सर्वभूतेष्वभयदस्तं—देवा ब्राह्मणं विदुः । अहेरिव गणा- द्भीतः सौहित्यान्नरकादिव । कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः । येन केनचिदाच्छन्नो येन केनचि- दाशितः । यत्र क्व चन शायी च तं देवा ब्राह्मणं विदुः । विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत् स्थितम् । अस्वमेक- चरं शान्तं तं देवा ब्राह्मणं विदुः । जीवितं यस्य ध- र्मार्थं धर्मो रत्यर्थमेव च । अहोरात्रश्च पुण्यार्थस्तं देवा ब्राह्मणं विदुः । निराशिषमनारम्भं निर्नमस्कर- मस्ततिम् । अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः” भा० मोक्षध० । “विशाखयूप उवाच । विप्रस्य लक्षणं ब्रूहि त्वद्भक्तिः का च तत्कृता । यतस्तवानु- ग्रहेण वाग्बाणाः ब्राह्मणाः कृताः” । कल्किरुवाच “वेदास्तमोश्वरं प्राहुरष्यक्तं व्यक्तिमत् परम् । ते वेदा ब्रा- ह्मणमुखे नानाधर्माः प्रकाशिताः । यो धर्मो ब्राह्मणानां हि सा भक्तिर्मम पुष्कला । तयाहं तोषितः श्रीशः संभवामि युगे युगे । ऊर्द्ध्वन्तु त्रिवृतं सूत्रं सधवानि- र्मितं शमैः । तन्तुत्रयमधोवृत्तं यज्ञसूत्रं विदुर्बुधाः । त्रिगुणं तद्ग्रन्थियुक्तं वेदप्रवरसम्मितम् । शिरोधरा- न्नाभिमध्यात् पृष्ठार्द्धपरिमाणकम् । यजुर्विदां नाभि- मितं सामगानामयं विधिः । वामस्कन्धेन विधृतं यज्ञ- सूत्रं बलप्रदम् । मृद्भस्मचन्दनाद्यैस्तु धारवेत्तिलकं द्विजः । भाले त्रिपुण्ड्रं कर्माङ्गं केशपर्य्यन्तमुज्ज्वलम् । पुण्ड्रमङ्गुलिमानन्तु त्रिपुण्ड्रं तत्त्रिधा कृतम् । ब्रह्म- विष्णुशिवावासं दर्शनात् पापनाशनम् । ब्राह्मणानां मुखे स्वर्गा वाचि वेदाः करे हरिः । गात्रे तीर्थानि यागाश्च नाडीषु प्रकृतिस्त्रिवृत् । सावित्री कण्ठकुहरा हृदयं ब्रह्मसङ्गतम् । तेषां स्तनान्तरे धर्मः पृष्ठेऽधर्मः प्रकीर्त्तितः । भूदेवा ब्राह्मणा राजन्! पूज्या वन्द्याः सदुक्तिभिः । चातुराश्रम्यकुशला मम धर्मप्रवर्त्तकाः । व लाश्चापि ज्ञानवृद्धास्तपोवृद्धा मम प्रियाः । तेषां वचः पालयितुमवताराः कृता मया । माहाभाग्यं ब्रा- ह्मणानां सर्वपापप्रणाशनम् । कलिदोषहरं श्रुत्वा मुच्यते सर्वतोभयात्” कल्किपु० ४ अ० । “कर्मणा ब्रह्मणो जातः करोति ब्रह्मभावनाम् । स्वधर्मनिरतः शुद्वस्तस्माद्- ब्राह्मण उच्यते” ब्रह्मवे० गणेशख० ३५ अ० । “जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शचिः । वेदाध्ययनसम्पन्नः षट्सु कर्मस्ववस्थितः । शौचाचार- परो नित्यं विघसाशी गुरुप्रियः । नित्यव्रती सत्यरतः स वै ब्राह्मण उच्यते । सत्यं दानमथाऽद्रोह आनृशंस्य कृपा घृणा । तपश्च दृश्यते यत्र स ब्रह्मण इति स्मृतः” । तस्य धर्मो यथा “ब्राह्मस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम् । दममेव महाराज । धर्ममाहुः पुरा- तनम् । स्वाध्यायाभ्यसनञ्चैव तत्र कर्म समाप्यते । तञ्चेद्वित्तमुपागच्छेद्वर्त्तमानं स्वकर्मणि । अकर्वाणं विकर्माणि श्रान्तं प्रज्ञानतर्पितम् । कुर्वीतोपेत्य सन्तान- मथ दद्याद्यजेत च । संविभज्यापि भोक्तव्यं धनं सद्भि- रितीष्यते । परिनिष्ठितकार्य्यस्तु स्वाध्यायेनैव ब्राह्मणः । कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो ब्राह्मण उच्यते” पाद्मे स्वर्गख० २६ अ० । तस्य माहात्म्यादि यथा । “सर्वेषा- मेव वर्णानां ब्राह्मणः परमो गुरुः । तस्मै दानानि देयानि भक्तिश्रद्धासमन्वितैः । सर्वदेवाग्रजो विप्रः प्रत्यक्षत्रिदशो भुवि । स तारयति दातारं द्स्तरे विश्वसागरे । हरिशर्मोवाच । सर्ववर्णगुरुर्विप्रस्त्वया प्रोक्तः सुरोत्तम! । तेषां मध्ये च कः श्रेष्ठः कस्मै दानं प्रदीयते । ब्रह्मोवाच । सर्वेऽपि ब्राह्मणाः श्रेष्ठाः पूजनीयाः सदैव हि । अविद्या वा सविद्या वा नात्र कार्य्या विचारणा । स्तेयादिदोषलिप्ता ये ब्राह्मणा ब्राह्मणोत्तम! । आत्मभ्यो द्वेषिणस्तेऽपि परेम्यो न कदाचन । अनाचारा द्विजाः पूज्या न च शूद्रा जिते- न्द्रियाः । अभ्यक्ष्यमक्षंका गावः कोलाः सुमतयो न च । माहात्म्यं भूमिदेवानां विशेषादुच्यते मया । तव स्ने- हाद्द्विजश्रेष्ठ! निशामय समाहितः । क्षत्रियाणाञ्च वैश्यानां शूद्राणां गुरवो द्विजाः । अन्योऽन्यं गुरवो ज्ञेयाः पूजनीयाश्च भूसुर! । ब्रह्मणं प्रणमेदयस्तु विष्णु- बुद्ध्या नरोत्तमः । आयुः पुत्राश्च कीर्त्तिश्च सम्पत्ति- स्तस्य वर्द्धते । न च नौति द्विजं यस्तु मूढधीर्मानवी भुवि । सुदर्शनेन तच्छीर्षं हन्तुसिच्छति केशवः” । पुष्पादिहस्तस्य विप्रस्य प्रणामनिषेधो यथा । “पुष्प- हस्तं पयोहस्तं देवहस्तञ्च भूसुर! । न नमेद ब्राह्मण प्रातस्तैलाभ्यङ्गितविग्रहम् । जलस्थं देववेश्म स्थं ध्यान- माज्जतचेतसम् । देवपूजाञ्च कुर्वन्तं न नमेद् ब्राह्मणं बुधः । बहिष्क्रिया । प्रकुर्वन्तं भुञ्जानञ्च द्विजोत्तम! । तथा सामानि गायन्तं न नमेद् ब्राह्मणं बुधः । ब्राह्मणा यत्र तिष्ठन्ति बहवीं द्विजसत्तम । प्रत्येकन्तु वमस्कार- स्तत्र कार्य्यो न धीमता । कृताभिवादनं विप्रं भक्त्या यो नाभिवादयेत् । स चाण्डालसमो ज्ञेयो नाभिवाद्यः कदापि च । कृतप्रणामं तनयं नमेतां पितरौ न च । कृनप्रणामाः सर्वेऽपि नमस्कार्य्या द्विजैर्द्विजाः । कृत- दोषान् द्विजान् गाश्च न द्विषन्ति विचक्षणाः । द्विषन्ति घापि मोहेन तेषां रुष्टः सदा हरिः । याचकान् ब्राह्म- णान् यस्तु कोपदृष्ट्या प्रपश्यति । सूचीप्रक्षेपणं तस्य नेत्रयोः कुरुते यमः । विपनिर्भर्त्सनं मूढा येन वक्त्रेण कुर्वते । तस्मिन् वर्क्त्र यमस्तप्तं लौहपिण्डं ददाति वै । ब्राह्मणो यद्गृहे भुङक्त तद्गृहे केशवः स्वयम् । देवताः सकला एव पितरश्च सुरर्षयः । तस्य पादो दकादिमाहात्म्य यथा “विप्रपादोदकं यस्तु कणमात्रं बहेद्बुधः । देहस्थ पातकं तस्य सर्वमेवाशु नश्यति । कीटिब्रह्माण्डमध्येषु सन्ति तीर्थानि यानि च । तानि स- र्वाणि तीर्थानि वसन्ति द्विजपादयोः । विप्रपादोदकैर्नित्यं सिक्तं स्याद् यस्य मस्तकम् । स स्नातः सर्वतीर्थेषु सर्वय- ज्ञेषु दीक्षितः । सर्वपापानि घोराणि विप्रहत्यादिकानि च । सद्य एव विनश्यन्ति विप्रपादाम्बुधारणात् । क्षयाद्या व्याधयः सर्वे परमक्लेशदायकाः । गच्छन्ति विलय सद्यो विप्रपादाम्ब भक्षणात् । पित्रर्थं यानि तोयानि दीयन्ते विप्रपादयोः । तस्तृप्ताः पितरः स्वर्गे तिष्ठन्त्याचन्द्र- तारकम् । प्रक्षाल्य विप्रचरणौ दूर्वाभिर्योऽर्चयेद्बुधः । तेनाचितो जगत्स्वामी विष्णुः सर्वसुरोत्तमः । विप्राणां पादनिर्माल्यं यो मर्त्यः शिरसा वहेत् । सत्यं सत्यमहं वच्मि तस्य मुक्तिर्हि शाश्वती” । तस्य प्रद- क्षिणफलम् “विप्रं प्रदक्षिणीकृत्य वन्दते यो नरोत्तमः । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा” । तस्य पाद सेवनफलम् “यो दद्यात् फलताम्बूलं विप्राणां पाद- सेवने । इह लोके सुखं तस्य परलोके ततोऽधिकम् । पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् । मोक्षार्थी लभते मोक्षं विप्रपादस्व सेवनात् । रोगी रोगात् प्रमु- च्येत पापी मुच्येत पातकात् । मुच्येत बन्धनाद्बद्धो विप्राणां पादसेवनात । अनपत्याश्च या नार्य्यो मृताऽ- पत्याश्च या स्त्रियः । बह्वपत्या जीववतसाः स्वुर्विप्रपाद- सेवनात्” पाद्मे क्रियायोगसारे २ अ० । तस्य सन्ध्या- वन्दनाकरणे दोषो यथा “नोपतिष्ठति यः पूर्वां नो- पास्ते यस्तु पश्चिमाम् । स शूद्रवद्वहिः कार्य्यः सर्व- स्माद् द्विजकर्मणः” मनुः । अन्यत्र च “न गृह्णन्ति सुरा- स्तेषां पितरः पिण्डतर्पणम् । स्वेच्छया च द्विजातेश्चा त्रिसन्ध्यरहितस्य च । तस्य सन्ध्याबन्दनफलं यथा “याजज्जीवनपर्य्यन्तं यस्त्रिसन्ध्यं करोति हि । स च सूर्य्यसमो बिप्रस्तेजसा तपसा सदा । तत्पादपद्मरजसा सद्यः पूता वसुन्धरा । जीवन्मुक्तः स तेजस्वी सन्ध्या पूतो हि यो द्विजः । तीर्थानि च पवित्राणि तस्य सं- स्पर्शमात्रतः । ततः पापानि यान्त्येव वैनतेयादिवो- रगाः । तस्य निन्द्यकर्माणि यथा “विष्णुमन्त्र विहीनश्च त्रिसन्ध्यरहितो द्विजः । एकादशीविहीनश्च विषहीनो यथोरगः । हरेर्नैवद्यभोगी न धारको वृष- वाहकः । शुद्रान्नभोजी विप्रश्च विषहीनो यथोरगा । शवदाही च शूद्राणां यो विप्रा वृषलीपतिः । शूद्राणां सूपकारी च शूद्रयाजी च यो द्विजः । असिजीवी- मसीजीवी विषहीनो यथोरगः । यो विप्रोऽवीरान्न भोजी ऋतुस्नातान्नभोजकः । भगजीवी बार्द्धुषिको विषहीनो यथोरगः । यः कन्याविक्रयी विप्रो यो हरेर्नामविक्रयी । यो विद्याविक्रयी विप्रो विषहीनो यथोरगः । सूर्य्योदये च द्विर्भोजी मत्स्यभोजी च यो द्विजः । शिवपूजादिरहितो विषहीनो यथोरगः” । ब्रह्मवै० प्र० २१ अ० । अन्यत्र च “यदि शूद्रां व्रजेद्विप्रो वृषलीपतिरेव सः । स भ्रष्टो विप्रजातेश्च चाण्डालात् सोऽधमः स्मृतः । विष्ठासमश्च तत्पिण्डो मूत्रं तस्य च तर्पणम् । तत्पितृणां सुराणाञ्च पूजने तत् समं सति! । काटिजन्मार्जितं पुण्यं सन्ध्यार्चातपसाऽर्जितम् । द्विजस्य वृषलीभोगान्नश्यत्येव न संशयः । ब्राह्मणश्च सुरापीतः विड्भोजी वृषलीपतिः । हरिवासरभोजी च कुम्भी- पाकं व्रजेद्ध्रुवम्” । “करोत्यशुद्धां सन्ध्याञ्च सन्ध्यां वा न करोति यः । त्रिसन्ध्यं वर्जयेद् यो वा सन्ध्या- हीनश्च स द्विजः” । नारायणक्षेत्रादितीर्थे तस्य प्रति- ग्रहदोषो यथा “तत्र नारायणक्षेत्रे कुरुक्षेत्रे हरेः पदे । वाराणस्यां वदर्य्याञ्च गङ्गासागरसङ्गमे । पुष्करे भास्करक्षेत्रे प्रभासे रासमण्डले । हारिद्वारे च केदारे सोमे वदरपाचने । सरस्वतीनदीतीरे पुण्ये वृन्दा- वने वने । गोटावर्य्याञ्च कौशिक्यां त्रिवेण्याञ्च हिमा- लये । एतेष्वन्धेषु यो दानं प्रतिगृह्णाति कामतः । स च तीर्थप्रतिग्राही कुम्भीपाकं प्रयाति च” । पारि- भाषिकमहापातकिब्राह्मणा यथा “सप्तोद्रिक्तशूद्रयाजी ग्रामयाजीति कीर्त्तितः । देवोपजीवजीवी च देवलश्च प्रकीर्त्तितः । शूद्रपाकोपजीवी यः सूपकारः प्रकीर्त्तितः । सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः । एते महा- पातकिनः कुम्भीपाकं प्रयान्ति ते” ब्रह्मवै० ज० ख० २७ अ० । “ब्राह्मणस्य स्वधर्मश्च त्रिसन्ध्यमर्चन हरेः । तत्पादोद कनैवेद्यभक्षणञ्च सुधाधिकम् । अन्नं विष्ठा जलं मूत्रमनिवेद्य हरेर्नृप । भवन्ति शूकराः सर्वे ब्राह्मणा यदि भुञ्जते । आजीवं भुञ्जते विपा एकादश्यां न भुञ्जते । कृष्णजन्म- दिने चैव शिवरात्रौ सुनिश्चितम् । तथा रामनवम्याञ्च यत्रतः पुण्यवासरे । ब्राह्मणानां स्वधर्मश्च कथितो वे- धसा नृप । ५९ अ० । गृहस्थब्राह्मणनियमा यथा "वेदं वेदौ तथा वेदानधीत्य तु समाहितः । तदर्थमभि- गम्याथ ततः स्नायाद् द्विजोत्तमः । गुरुवे तु धनं दत्त्वा स्नायीत तदनुज्ञया । चीर्णव्रतोऽथ मुक्तात्मा ह्यशक्तः स्नातुमर्हति । वैणवीन्धारयेद्यष्टिमन्तर्वासस्तथोत्तरम् । यज्ञोपवीतद्वितयं सोदकञ्च कमण्डलुम् । छत्रञ्चोष्णीष- ममलं पादुके चाप्युपानहौ । रौक्मे च कुण्डले धार्य्ये कृत्तकेशनखः शुचिः । स्वाध्याये नित्ययुक्तः स्याद्बहि र्माल्यं न धारयेत् । अन्यत्र काञ्चनाद्विप्रो न रक्तां बि- भृयात स्रजम् । शुक्लाम्बरधरो नित्यं स्रग्गन्धः प्रिय- ष्टर्शनः । नजीर्णमलवद्वासा भवेच्च विभवे सति । न रक्त सुल्वणञ्चान्यधृतं वासो न कुण्डिकाम् । नोपानहौ स्रजं प्राथ पादुके च प्रयोजयेत् । उपवीतमलङ्कारं कुम्भान् कृष्णाजिनानि च । नापसव्यं परीदध्याद्वासा न विकृतं वसेत् । आहरेद्विधिवद्धीमान् सदृशानात्मनः शुभान् । रूपलक्षणसंयुक्तां योनिदोषविवर्जिताम् । अमातृ- गोत्रप्रभवामसमानार्षगोत्रजाम् । आहरेद्ब्राह्मणो भार्य्यां शीलशौचसमन्विताम् । ऋतुकालाभिगामी स्याद् यावत् पुत्रोऽभिजायते । वर्जयेत् प्रतिषिद्धानि प्रय- त्रेन दिनानि तु । षष्ठ्यष्टमी पञ्चदशी द्वादशी च चतु- र्दशी । ब्रह्मचारी भवेक्षित्यं तद्वज्जन्मक्षयाहनि । आदधीतावसथ्याग्निं जुहुयाज्जातवेदसम् । व्रतानि स्नातको नित्यं पावनानि च पालयेत् । येदोदितं स्वकं कर्म नित्यं कुर्य्यादतन्द्रियः । अकुर्वाणः पतत्याशु नर- कानतिभीषणान् । अभ्यसेत् प्रयतो नित्यं वेदं यज्ञान्न- हापयेत् । कुर्य्यात् गृह्याणि कर्माणि सन्ध्योपासनमेव च । सख्यं समाधिकैः कुर्य्यादुपेयादीश्वरं सदा । दैवता- न्यपि गच्छेत् तु कुर्य्याद्भार्य्याभिपोषणम् । न धर्मं ख्यापयेद्विद्वान् न पापं घयेदर्पि । कुर्वीतात्महितं नित्यं सर्वभूतानुकम्पकः । वयसा कर्मणाऽर्थस्य श्रुत- स्याभिजनस्य च । देशवागबद्धिसारूप्यमाचरन् विचरेत् सदा । श्रुतिस्मृत्युदितं सम्यक साधुभिर्यश्च सेवितः । तमात्मवन्निषेवेतं नेहेतान्यत्र कर्हिचित् । येनास्य पि- तरो याता येन याताः पितामहाः । तेन यायात् सतां मार्गं तेन गच्छन्न रिष्यति । नित्यं स्वाध्याय शीलः स्यान्नित्य यज्ञोपवीतवान् । सत्यवादी जित- क्रोधो ब्रह्मपूयाय कल्पते । सन्ध्यास्नानरतो नित्यं ब्रह्म- यज्ञपरायणः । अनुसूयुर्मृदुर्दान्तो गृहस्थः प्रत्य- यान्विता । वीतरागभयक्रोधो लोभमोहविवर्जितः । सावित्रीजापनिरतः श्रद्धावान् मुच्यते गृही । माता- पित्रोर्हिते युक्तो गोब्राह्मणहिते रतः । दाता यज्वा देवभक्तो ब्रह्मलोके महीयते । त्रिवर्गसेवी सततं देव- तानाञ्च पूजनम् । कुर्य्यादहरहर्नित्यं नमस्येत प्रयतः सुरान् । विभागशीलः सततं क्षमायुक्तो दयात्मकः । गृहस्थस्तपसा युक्तो न गृहेऽपि गृही भवेत् । क्षमा दया च विज्ञानं सत्यञ्चैव दमः शमः । अध्यात्म नित्यता ज्ञानमेतद्ब्राह्मणलक्षणम् । एतस्मान्न प्रमा- द्येत विशेषेण द्विजोत्तमः । यथाशक्ति चरन् कर्म निन्दितानि विवर्जयेत् । विधूय मोहकलिल लब्धा योगमनुत्तमम् । गृहस्थो मुच्यते बन्धान्नात्र कार्य्या- विचारणा । विगर्हातिक्रमक्षेपहिंसाबन्धबधात्मकान् । अन्यमन्युसमुत्थानां दोषाणां बर्जनं क्षमा । स्वदुः- खेष्विव कारुण्यं परदु खेषु सौहृदात् । दया यां मुनयः प्राहुः साक्षाद्धर्मस्य साधनम् । चतुर्दशानां विद्यानां धारणं हि यथार्थतः । विज्ञानमेतच्च विद्याद् येन धर्मो विवर्द्धते । अधीत्य विधिवद्विद्यामर्थञ्चैवोप- लभ्य तु । धर्मकार्य्यान्निवृत्तश्चेन्न तद्विज्ञानमिष्यते । सत्येन लोकं जयति सत्यन्तत् परमं पदम् । यथाभूत प्रसादन्तु सत्यमाहुर्मनीषिणः । दमः शरीरावनतिः शमः प्रज्ञाप्रसादजः । अध्यात्ममक्षरं विद्याद्यत्र गत्वा न शोचति । यथा स देवो भगवान् विद्यया शिव! वेद्यते । साक्षादेव महादेव! तज्ज्ञानमिति कीर्त्तितम् । तन्निष्ठ- स्तत्परो विद्धान्नित्यमक्रोधनह् शुचिः । महायज्ञपरो विप्रो लभते तदनुत्तमम् । धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत् । न हि देहं विना रुद्र! पुरुषैर्विद्यते परः । नित्यं धर्मार्थकामेषु युञ्जीत नियतो द्विजः । न धर्म वर्जितं काममर्थं वा मनसा स्मरेत् । सीदन्नपि स्वधर्मेण न त्वधर्मं समाचरेत् । धर्मो हि भगवान् देवो गतिः सर्वेषु जन्तुषु । भूतानां प्रियकारी स्यान्न परद्रोहक- र्मधीः । न वेददेवतानिन्दां कुर्य्यात्तैश्च न संवदेत् । यस्त्विपं नियतो विप्रो धर्माध्यायं पठेत् शुचिः । अध्यापयेत्च्छ्रावयेद्वा ब्रह्मलोके महीयते” । कूर्मपु० १४ अ० "सूत उवाच । आनृशंस्यं क्षमा सत्यमहिंसा दममार्जवम् । ध्यानं प्रसादो माधुर्य्यं मार्दवं शौचमेव च । इज्या दानं तपः सत्यं स्वाध्यायीह्यात्मनिग्रहः । व्रतोपवासौ मौनञ्च स्नानं पैशुन्यवर्जनम् । एभिर्युक्तो मुनिश्रेष्ठा! यः सदा वर्त्तते द्विजः । हुत्वा तु पावकं पूर्वं परं ब्रह्माधिगच्छति । अविद्यो वा सविद्यो वा निरग्निः साग्निकोऽपि वा । यो विप्रस्तपसा युक्तः स परं स्वर्गमाप्नुयात् । सर्वेषामुत्तमं श्रेष्ठं विमुक्तिफल- दायकम् । ब्राह्मणस्य तपो वक्ष्ये तन्मे निगदतः शृणु । सायं प्रातश्च यः सन्ध्यामुपास्तेऽखिन्नमानसः । जपन् हि पावनीं देवीं गायत्रीं वेदमातरम् । तपसा भावितो देव्या ब्राह्मणः पूतकिल्विषः । न सीदेत् प्रतिगृह्णन् स त्वपि पृथ्वीं ससागराम् । द्वे सन्ध्ये ह्युपतिष्ठेत गायत्रीं प्रयतः शुचिः । यस्तस्य दुष्कृतं नास्ति पूर्वतः परतोऽपि वा । यज्ञदानरतो विद्वान् साङ्गवेदस्य पाठकः । गायत्री ध्यानपूतस्य कलां नार्हति षोडशीम् । एवं किल्विष- युक्तस्तु विनिर्दहति पातकम् । उभे सन्ध्ये ह्युपासीत तस्मान्नित्यं द्विजोत्तमः” । तस्य देहापवित्रताहेतुः यथा “यथा देहापवित्रत्वं विग्रादीनां यतो भवेत् । देवर्षे! शृणु तत् सर्वं नराणामानुपूर्विकम् । जातके मृतके- ऽस्नाते जलौकाभिः क्षते तथा । अपवित्रो द्विजादीनां देहः सन्ध्यादिकर्मसु । अपूततनूरुत्सर्गे नरो मूत्र पूरीषयोः । अस्पृश्यस्पर्शने चैव ब्रह्मयज्ञजपादिषु । रक्तपाते नखशृङ्गदन्तखड्गादिभिः क्षते । विप्रादेरशुचिः कायः शस्त्रास्त्रैः कण्टकादिभिः । भुक्तवस्त्राननोच्छि- ष्टेऽपवित्रः कृतषेथुने । शयने ब्राह्मणादीनां शरीरं क्षुरकर्मणि । ज्वरादिभिश्चतुःषष्टिरोगैर्युक्ते द्विजन्मनाम् । बपुरप्रयतं पूजादानहोमजपादिषु । धूमोद्गारे वमौ आद्धपतितान्नादिभोजने । तथा च रेतस्खलने मत्या, देहापवित्रता । अपवित्रं द्विजातीनां वपुः स्याद्राहु- दर्शने । गर्हितदानग्रहणे पतिते पातकादिभिः । अ- शौचान्तेन शुद्धिः स्याज्जातके मृतके द्विज! । सर्व- वर्णाश्रमादोनां तनोः सन्ध्यादिकर्मसु” पाद्मोत्तरञ्चण्डे १०९ अ० । २ मन्त्रेतरवेदभागे न० ऋ० भाष्योपोद्घाते आशङ्का- पूर्वकं तल्लक्षणमुक्तं यथा “तत्र ब्राह्मणस्य लक्षणं नास्ति । कुतः? वेदभागानामियत्तानवधारणेन ब्राह्मणभागेष्वन्य- भागेषु च लक्षणस्याव्याप्त्यतिव्याप्त्योः शोधयितुमशक्य- त्वात् । पूर्वोक्तमन्त्रभाग एकः । भागान्तराणि च कानिचित् पूर्वैरुदाहर्तुं संगृहीतानि “हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः । परक्रिया पुरुकिल्पो व्यवर्धारणकल्पनेति” । “तेन ह्यन्नं क्रियत” इति हेतुः १ । “तद्दघ्नी दधित्वमिति” निर्वचनम् २ । “अमेध्या वै माषाः इति निन्दा ३ । “वायुर्वे क्षेपिष्ठेति” प्रशंसा ४ । “तद्व्यचि- कित्सा जुहवानी ३ मा हौषा ३ मिति” संशयः ५ । “यज- मानेन सम्मितौदुम्भरी भवतीति” विधिः ६ । “माषानेव मह्यं पचन्तीति” परकृतिः ७ । “पुरा ब्राह्मणा अभैषुः” इति पुराकल्पः ८ । “यावतोऽश्वान् परिगृह्णीयात्ता- वतो वारुणांश्चतुष्कपालान्निर्वपेदिति” विशेषावधारण- कल्पना ९ । एवमन्यदप्युदाहार्य्यम् । न च हेत्वादीना- मन्यतमं ब्राह्मणमिति लक्षणम् । मन्त्रोष्वपि हेत्वादि- सद्भावात् । “इन्दवो वा मुशन्ति हीति” हेतुः । “उदा- निषुर्महीरिति तस्मादुदकमुच्यत इति” निर्वचनम् । “मोघमन्नं विन्दते अप्रचेताः” इति निन्दा । “अग्निर्मूर्द्धा दिवः ककुदिति” प्रशंसा । “अधः स्विदासी ३ दुपरि स्विदासी ३ दिति” संशयः । “वसन्ताय कपिञ्जलानालभेत” इति विधिः । “सहस्रमयुतं ददाविति” परकृतिः । “यज्ञेन यज्ञमयजन्त देवाः” इति पुराकल्पः । इतिकरणबहुलं ब्राह्मणमिति चेत् न “इत्यददा इत्ययजथा इत्यपच इति “ब्राह्मणो गायेत्” इत्यस्मिन् ब्राह्मणेन गातव्ये मन्त्रेऽतिव्याप्तेः । इत्याहेत्यनेन वाक्येनोपनिबद्धं ब्राह्मणमिति चेत् न “राजा चिदां भगं भक्षीत्याह यो मायातुं यातुधाने- त्याह यो वा रक्षः । “शुचिरस्मीत्याहे श्रनयोर्मन्त्रयो- रतिव्याप्तेः । आख्यायिकारूपं ब्राह्मणमिति चेत् न यमयमीसंवादसूक्तादावतिव्याप्तेः । तस्मान्नास्ति ब्राह्मण- लक्षणमिति प्राप्ते ब्रूमः मन्त्रब्राह्मणरूपौ द्वावेव वेद- भागावित्यङ्गीकारात् मन्त्रलक्षणस्य पूर्बमभिहितत्वादव- शिष्टो वेदभागो ब्राह्मणमित्येतल्लक्षणं भविष्यति” ।


शब्दकल्पद्रुमः

ब्राह्मणं || क्ली (ब्रह्मन् + अण् न टिलोपः ।)
ब्रह्म- संघातः । ब्राह्मणसमूहः । वेदभागः । इति मेदिनी । ने, ६७ ॥


शब्दकल्पद्रुमः

ब्राह्मणः || पुं, ब्राह्मणो विप्रस्य प्रजापतेर्वा अपत्यम् । ब्रह्म वेदस्तमधीते वा सः । इति भरतः ॥ (ब्रह्मन् + अण् “ब्राह्मोऽजातौ ।” ६ । ४ । १७१ । इति नटिलोपः ।)
तत्पर्य्यायः । द्विजातिः २ अग्रजन्मा ३ भूदेवः ४ बाडवः ५ विप्रः ६ । इत्यमरः ॥ २ । ७ । ४ । ॥ द्बिजः ७ सूत्र- कण्ठः ८ ज्येष्ठवर्णः ९ अग्रजातकः १० द्विजन्मा ११ वक्त्रजः १२ मैत्रः १३ वेदवासः १४ नयः १५ गुरुः १६ । इति शब्दरत्नाबली ॥ ब्रह्मा १७ षट्कर्म्मा १८ द्विजोत्तमः १९ । इति राजनिर्घण्टः ॥ * ॥
अयं सर्व्ववर्णश्रेष्ठः । ब्रह्मणो मुखाज्जातः । प्लक्षद्वीपे तस्य संज्ञा हंसः । शाल्मलद्वीपे श्रुतिधरः । कुशद्वीपे कुशलः । क्रौञ्चद्वीपे गुरुः । शाकद्वीपे ऋतव्रतः । पुष्कर- द्वीपे सर्व्वे एकवर्णाः । अस्य शास्त्रनिरूपित- धर्म्मास्त्रयः अध्ययनं यजनं दानञ्च । जीविका- स्तिस्रः अध्यापनं याजनं प्रतिग्रहश्च । अयमा- श्रमचतुष्टयवान् भवति । यथा । ब्रह्मचारी गृहस्थः वानप्रस्थः सन्न्यासी च । क्षत्त्रियवैश्य- योस्तु क्रमश एकैकपादहीनत्वमिति बोध्यम् । इति श्रीभागवतम् ॥ * ॥
ब्राह्मणीक्षत्त्रिया- वैश्यासु ब्राह्मणाज्जातो ब्राह्मणः । यथा, —
“ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः । क्षत्त्रियायां तथैव स्याद्वैश्यायामपि चैव हि ॥” इति महाभारते अनुशासने । ४७ । २८ ॥ तस्य लक्षणं यथा, —
“जात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन च । एभिर्युक्तो हि यस्तिष्ठेन्नित्यं स द्बिज उच्यते ॥” इति वह्रिपुराणम् ॥ अपि च । “न क्रुध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः । सर्व्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः ॥ अहेरिव गणाद्भीतः लौहित्यान्नरकादिव । कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः ॥ येन केनचिदाच्छन्नो येन केनचिदाशितः । यत्र क्वचन शायी च तं देवा ब्राह्मणं विदुः ॥ विमुक्तं सर्व्वसङ्गेभ्यो मुनिमाकाशवत् स्थितम् । अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः ॥ जीवितं यस्य धर्म्मार्थं धर्म्मो रत्यर्थमेव च । अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः ॥ निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् । अक्षीणं ज्ञीणकर्म्माणं तं देवा ब्राह्मणं विदुः ॥” इति महाभारते मोक्षधर्म्मः ॥ * ॥
अपि च । विशाखयूप उवाच । “विप्रस्य लक्षणं ब्रूहि त्वद्भक्तिः का च तत्कृता । यतस्तवानुग्रहेण वाग्वाणाः ब्राह्मणाः कृताः ॥ कल्किरुवाच । वेदा मामीश्वरं प्राहुरव्यक्तं व्यक्तिमत् परम् । ते वेदा ब्राह्मणमुखे नाना धर्म्माः प्रकाशिताः ॥ यो धर्म्मो ब्राह्मणानां हि सा भक्तिर्मम पुष्कला । तयाहं तोषितः श्रीशः संभवामि युगे युगे ॥ ऊर्द्धन्तु त्रिवृतं सूत्रं सधवानिर्म्मितं शनैः । तन्तुत्रयमधोवृत्तं यज्ञसूत्रं विदुर्बुधाः ॥ त्रिगुणं तद्ग्रन्थियुक्तं वेदप्रवरसस्मितम् । शिरोधरान्नाभिमध्यात् पृष्ठार्द्धपरिमाणकम् ॥ यजुर्विदां नाभिमितं सामगानामयं विधिः । वामस्कन्धेन विधृतं यज्ञसूत्रं बलप्रदम् ॥ मृद्भस्मचन्दनाद्यैस्तु धारयेत्तिलकं द्विजः । भाले त्रिपुण्ड्रं कर्म्माङ्गं केशपर्य्यन्तमुज्ज्वलम् ॥ पुण्ड्रमङ्गुलिमानन्तु त्रिपुण्ड्रं तत्त्रिधाकृतम् । ब्रह्मविष्णुशिवावासं दर्शनात् पापनाशनम् ॥ ब्राह्मणानां करे स्वर्गा वाचो वेदाः करे हरिः । गात्रे तीर्थानि यागाश्च नाडीषु प्रकृतिस्त्रिवृत् ॥ सावित्री कण्ठकुहरा हृदयं ब्रह्मसङ्गतम् । तेषां स्तनान्तरे धर्म्मः पृष्ठेऽधर्म्मः प्रकीर्त्तितः ॥ भूदेवा ब्राह्मणा राजन् ! पूज्या वन्द्याः सदु- क्तिभिः । चातुराश्रम्यकुशला मम धर्म्मप्रवर्त्तकाः ॥ बालाश्चापि ज्ञानवृद्धास्तपोवृद्धा मम प्रियाः । तेषां वचः पालयितुमवताराः कृता मया ॥ महाभाग्यं ब्राह्मणानां सर्व्वपापप्रणाशनम् । कलिदोषहरं श्रुत्वा मुच्यते सर्व्वतो भयात् ॥” इति कल्किपुराणे ४ अध्यायः ॥ * ॥
अपि च । “कर्म्मणा ब्राह्मणो जातः करोति ब्रह्मभावनाम् । स्वधर्म्मनिरतः शुद्धस्तस्माद्ब्राह्मण उच्यते ॥” इति ब्रह्मवैवर्त्ते गणेशखण्डे ३५ अध्यायः ॥ * ॥
अपि च । “जातकर्म्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः । वेदाध्ययनसम्पन्नः षट्सु कर्म्मस्ववस्थितः ॥ शौचाचारपरो नित्यं विघसाशी गुरुप्रियः । नित्यव्रती सत्यरतः स वै ब्राह्मण उच्यते ॥ सत्यं दानमथोऽद्रोह आनृशंस्यं कृपा घृणा । तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः ॥ * ॥
तस्य धर्म्मो यथा, — ब्राह्मणस्य तु यो धर्म्मस्तं ते वक्ष्यामि केवलम् । दममेव महाराज ! धर्म्ममाहुः पुरातनम् ॥ स्वाध्यायाभ्यसनञ्चैव तत्र कर्म्म समाप्यते । तञ्चेद्वित्तमुपागच्छेद्वर्त्तमानं स्वकर्म्मणि ॥ अकुर्व्वाणं विकर्म्माणि श्रान्तं प्रज्ञानतर्पितम् । कुर्व्वीतोपेत्य सन्तानमथ दद्याद्यजेत च ॥ संविभज्यापि भोक्तव्यं धनं सद्भिरितीष्यते । परिनिष्ठितकार्य्यस्तु स्वाध्यायेनैव ब्राह्मणः ॥ कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो ब्राह्मण उच्यते ।” इति पाद्मे स्वर्गखण्डे २६ अध्यायः ॥ * ॥
तस्य माहात्म्यादि यथा, —
“सर्व्वेषामेव वर्णानां ब्राह्मणः परमो गुरुः । तस्मै दानानि देयानि भक्तिश्रद्धासमन्वितैः ॥ सर्व्वदेवाग्रजो विप्रः प्रत्यक्षत्रिदशो भुवि । स तारयति दातारं दुस्तरे विश्वसागरे ॥ हरिशर्म्मोवाच । सर्व्ववर्णगुरुर्विप्रस्त्वया प्रोक्तः सुरोत्तम ! । तेषां मध्ये च कः श्रेष्ठः कस्मै दानं प्रदीयते ॥ ब्रह्मोवाच । सर्व्वेऽपि ब्राह्मणाः श्रेष्ठाः पूजनीयाः सदैव हि । अविद्या वा सविद्या वा नात्र कार्य्या विचारणा ॥ स्तेयादिदोषलिप्ता ये ब्राह्मणा ब्राह्मणोत्तम ! । आत्मभ्यो द्वेषिणस्तेऽपि परेभ्यो न कदाचन ॥ अनाचारा द्विजाः पूज्या न च शूद्रा जिते- न्द्रियाः । अभक्ष्यभक्षका गावः कोलाः सुमतयो न च ॥ माहात्म्यं भूमिदेवानां विशेषादुच्यते मया । तव स्नेहाद्द्विजश्रेष्ठ ! निशामय समाहितः ॥ क्षत्त्रियाणाञ्च वैश्यानां शूद्राणां गुरवो द्विजाः । अन्योन्यं गुरवो ज्ञेयाः पूजनीयाश्च भूसुर ! ॥ ब्राह्मणं प्रणमेद्यस्तु विष्णुबुद्ध्या नरोत्तमः । आयुः पुत्त्राश्च कीर्त्तिश्च सम्पत्तिस्तस्य वर्द्धते ॥ न च नौति द्विजं यस्तु मूढधीर्मानवो भुवि । सुदर्शनेन तच्छीर्षं हन्तुमिच्छति केशवः ॥” पुष्पादिहस्तब्राह्मणस्य प्रणामनिषेधो यथा, —
“पुष्पहस्तं पयोहस्तं देवहस्तञ्च भूसुर ! । न नमेद्ब्राह्मणं प्राज्ञस्तैलाभ्यङ्गितविग्रहम् ॥ जलस्थं देववेश्मस्थं ध्यानमज्जितचेतसम् । देवपूजाञ्च कुर्व्वन्तं न नमेद्ब्राह्मणं बुधः ॥ बहिष्क्रियां प्रकुर्व्वन्तं भुञ्जानञ्च द्विजोत्तम ! । तथा सामानि गायन्तं न नमेद्ब्राह्मणं बुधः ॥ ब्राह्मणा यत्र तिष्ठन्ति बहवो द्विजसत्तम ! । प्रत्येकन्तु नमस्कारस्तत्र कार्य्यो न धीमता ॥ कृताभिवादनं विप्रं भक्त्या यो नाभिवादयेत् । स चाण्डालसमो ज्ञेयो नाभिवाद्यः कदापि च ॥ कृतप्रणामं तनयं नमेतां पितरौ न च । कृतप्रणामाः सर्व्वेऽपि नमस्कार्य्या द्विजैर्द्विजाः ॥ कृतदोषान् द्बिजान् गाश्च न द्बिषन्ति विच- क्षणाः । द्विषन्ति वापि मीहेन तेषां रुष्टः सदा हरिः ॥ याचकान् ब्राह्मणान् यस्तु कोपदृष्ट्या प्रपश्यति । सूचीप्रक्षेपणं तस्य नेत्रयोः कुरुते यमः ॥ विप्रनिर्भर्त्सनं मूढा येन वक्त्रेण कुर्व्वते । तस्मिन् वक्त्रे यमस्तप्तं लौहपिण्डं ददाति वै ॥ ब्राह्मणो यद्गृहे भुङ्क्ते तद्गृहे केशवः स्वयम् । देवताः सकला एव पितरश्च मुरर्षयः ॥” तस्य पादोदकादिमाहात्मम् यथा, — विप्रपादोदकं यस्तु कणमात्रं वहेद्बुधः । देहस्थं पातकं तस्य सर्व्वमेवाशु नश्यति ॥ कोटिब्रह्माण्डमध्येषु सन्ति तीर्थानि यानि वै । तीर्थानि तानि सर्व्वाणि वसन्ति द्विजपादयोः ॥ विप्रपादोदकैर्नित्यं सिक्तं स्याद्यस्य मस्तकम् । स स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञेषु दीक्षितः ॥ सर्व्वपापानि घोराणि ब्रह्महत्यादिकानि च । सद्य एव विनश्यन्ति विप्रपादाम्बुधारणात् ॥ क्षयाद्या व्याधयः सर्व्वे परमक्लेशदायकाः । गच्छन्ति विलयं सद्यो विप्रपादाम्बुभक्षणात् ॥ पित्रर्थं यानि तोयानि दीयन्ते विप्रपादयोः । तैस्तृप्ताः पितरः स्वर्गे तिष्ठन्त्याचन्द्रतारकम् ॥ प्रक्षाल्य विप्रचरणौ दूर्व्वाभिर्योऽर्च्चयेद्बुधः । तेनार्च्चितो जगत्स्वामी विष्णुः सर्व्वसुरोत्तमः ॥ विप्राणां पादनिर्म्माल्यं यो मर्त्यः शिरसा वहेत् । सत्यं सत्यमहं वच्मि तस्य मुक्तिर्हि शाश्वती ॥ तस्य प्रदक्षिणफलम् । “विप्रं प्रदक्षिणीकृत्य वन्दते यो नरोत्तमः । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥” तस्य पादसेचनफलम् । यो दद्यात् फलताम्बूलं विप्राणां पादसेचने । इह लोके सुखं तस्य परलोके ततोऽधिकम् ॥ पुत्त्रार्थी लभते पुत्त्रं धनार्थी लभते घनम् । मोक्षार्थी लभते मोक्षं विप्रपादस्य सेचनात् ॥ रोगी रोगात् प्रमुच्येत पापी मुच्येत पातकात् । मुच्येत बन्धनाद्वद्धो विप्राणां पादसेचनात् ॥ अनपत्याश्च या नार्य्यो मृतापत्याश्च याः स्त्रियः । बह्वपत्या जीववत्साः स्युर्विप्रपादसेचनात् ॥” इति पाद्मे क्रियायोगसारे २० अध्यायः ॥ तस्य सन्ध्याया अकरणे दोषो यथा, —
“नोपतिष्टति यः पूर्ब्बां नोपास्ते यस्तु पश्चिमाम् । स शूद्रवद्वहिः कार्य्यः सर्व्वस्माद्द्विजकर्म्मणः ॥” तस्य सन्ध्याकरणफलं यथा, —
“यावज्जीवनपर्य्यन्तं यस्त्रिसन्ध्यं करोति च । स च सूर्य्यसमो विप्रस्तेजसा तपसा सदा ॥ तत्पादपद्मरजसा सद्यः पूता वसुन्धरा । जीवन्मुक्तः स तेजस्वी सन्ध्यापूतो हि यो द्बिजः ॥ तीर्थानि च पवित्राणि तस्य संस्पर्शमात्रतः । ततः पापानि यान्त्येव वैनतेयादिवोरगाः ॥ सन्ध्याया अकरणे दोषो यथा, —
“न गृह्णन्ति मुरास्तेषां पितरः पिण्डतर्पणम् । स्वेच्छया त्त द्विजातेश्च त्रिसन्ध्यरहितस्य च ॥” तस्य निन्दितकर्म्माणि यथा, —
“विष्णुमन्त्रविहीनश्च त्रिसन्ध्यरहितो द्विजः । एकादशीविहीनश्च विषहीनो यथोरगः ॥ हरेर्नैवेद्यभोजी न धावको वृषवाहकः । शूद्रान्नभोजी विप्रश्च विषहीनो यथोरगः ॥ शवदाही च शूद्राणां यो विप्रो वृषलीपतिः । शूद्राणां सूपकारी च शूद्रयाजी च यो द्विजः । असिजीवी मसीजीवी विषहीनो यथोरगः ॥ यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः । भगजीवी वार्द्धुषिको विषहीनो यथोरगः । यः कन्याविक्रयी विप्रो यो हरेर्नामविक्रयी । यो विद्याविक्रयी विप्रो विषहीनो यथोरगः ॥ सूर्ष्योदये च द्विर्भोजी मत्स्यभोजी च यो द्बिजः । शिलापूजादिरहितो विषहीनो यथोरगः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २१ अध्यायः ॥ * ॥
अपि च । “यदि शूद्रां ब्रजेद्विप्रो वृषलीपतिरेव सः । स भ्रष्टो विप्रजातेश्च चाण्डालात् सोऽधमः स्मृतः ॥ विष्ठासमश्च तत्पिण्डो मूत्रं तस्य च तर्पणम् । तत्पितॄणां सुराणाञ्च पूजने तत्समं सति ॥ कोटिजन्मार्जितं पुण्यं सन्ध्यार्च्चातपसार्जितम् । द्बिजस्य वृषलीभोगान्नश्यत्येव न संशयः ॥ ब्राह्यणश्च मुरापीती विड्भोजी वृषलीपतिः । हरिवासरभोजी च कुम्भीपाकं व्रजेद्ध्रुवम् ॥” अपि च । “करोत्यशुद्धां सन्ध्याञ्च सन्ध्यां वा न करोति यः । त्रिसन्ध्यं वर्जयेद्यो वा सन्ध्याहीनश्च स द्विजः ॥ नारायणक्षेत्रादितीर्थे तस्य प्रतिग्रहदोषो यथा, “तत्र नारायणक्षेत्रे कुरुक्षेत्रे हरेः पदे । वाराणस्यां वदर्य्याञ्च गङ्गासागरसङ्गमे ॥ पुष्करे भास्करक्षेत्रे प्रभासे रासमण्डले । हरिद्बारे च केदारे सोमे वदरपाचने ॥ सरस्वतीनदीतीरे पुण्ये वृन्दावने वने । गोदावर्य्याञ्च कौशिक्यां त्रिवेण्याञ्च हिमालये ॥ एतेष्वन्येषु यो दानं प्रतिगृह्णाति कामतः । स च तीर्थप्रतिग्राही कुम्भीपाकं प्रयाति च ॥” पारिभाषिकमहापातकिब्राह्मणा यथा, —
“शूद्रसप्तोद्रिक्तयाजी ग्रामयाजीति कीर्त्तितः । देवोपजीवजीवी च देवलश्च प्रकीर्त्तितः ॥ शूद्रपाकोपजीवी यः सूपकारः प्रकीर्त्तितः । सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः ॥ एते महापातकिनः कुम्भीपाकं प्रयान्ति ते ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥ * ॥
विप्राणामाशीर्वचनं पूर्णस्वस्त्ययनं यथा, —
“आशिषं कर्त्तुमर्हन्ति प्रसन्नमनसा शिशुम् । पूर्णस्वस्त्ययनं सद्यो विप्राशीर्वचनं ध्रुवम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३ अध्यायः ॥ ब्राह्मणस्य स्वधर्म्मो यथा, —
“ब्राह्मणस्य स्वधर्म्मश्च त्रिसन्ध्यमर्च्चनं हरेः । तत्पादोदकनैवेद्यभक्षणञ्च सुधाधिकम् ॥ अन्नं विष्ठा जलं मूत्रमनिवेद्यं हरेर्नृप ! । भवन्ति शूकराः सर्व्वे ब्राह्मणा यदि भुञ्जते ॥ आजीवं भुञ्जते विप्रा एकादश्यां न भुञ्जते । कृष्णजन्मदिने चैव शिवरात्रौ सुनिश्चितम् ॥ तथा रामनवम्याञ्च यत्नतः पुण्यवासरे । ब्राह्मणानां स्वधर्म्मश्च कथितो ब्रह्मणा नृप ! ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ५९ अध्यायः ॥ गृहस्थब्राह्मणनियमा यथा, —
“वेदं वेदौ तथा वेदानधीत्य तु समाहितः । तदर्थमभिगम्याथ तत्र स्नायाद्द्विजोत्तमः ॥ गुरवे तु धनं दत्त्वा स्नायीत तदनुज्ञया । चीर्णव्रतोऽथ मुक्तात्मा ह्यशक्तः स्नातुमर्हति ॥ वैणवीन्धारयेद्यष्टिमन्तर्व्वासमथोत्तरम् । यज्ञोपवीतद्बितयं सोदकञ्च कमण्डलुम् ॥ छत्रञ्चोष्णीषममलं पादुके चाप्युपानहौ । रौक्मे च कुण्डले धार्य्ये कृत्तकेशनखः शुचिः ॥ स्वाध्याये नित्ययुक्तः स्याद्बहिर्माल्यं न धारयेत् । अन्थत्र काञ्चनाद्विप्रो न रक्तां बिभृयात् स्रजम् ॥ शुक्लाम्बरधरो नित्यं स्रग्गन्धः प्रियदर्शनः । न जीर्णमलवद्वासा भवेच्च विभवे सति ॥ न रक्तमुल्वणञ्चास्य घृतं वासो न कुण्डिकाम् । नोपानहौ स्रजं वाथ पादुके च प्रयोजयेत् ॥ उपवीतमलङ्कारं कुम्भान् कृष्णाजिनानि च । नापसव्यं परीदध्याद्वासो न विकृतं वसेत् ॥ आहरेद्विधिवद्धीमान् सदृशामात्मनः शुभाम् । रूपलक्षणसंयुक्तां योनिदोषविवर्ज्जिताम् ॥ अमातृगोत्रप्रभवामसमानार्षगोत्रजाम् । आहरेद्ब्राह्मणो भार्य्यां शीलशौचसमन्विताम् ॥ ऋतुकालाभिगामी स्याद्यावत् पुत्त्रोऽभिजायते । वजयेत् प्रतिषिद्धानि प्रयत्नेन दिनानि तु ॥ षष्ठ्यष्टमी पञ्चदशी द्वादशी च चतुद्दशी । ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि ॥ आदधीतावसथ्याग्निं जुहुयाज्जातवेदसम् । व्रतानि स्नातको नित्यं पावनानि च पालयेत् ॥ वेदोदितं स्वकं कर्म्म नित्यं कुर्य्यादतन्द्रितः । अकुर्व्वाणः पतत्याशु नरकानतिभीषणान् ॥ अभ्यसेत् प्रयतो नित्यं वेदं यज्ञान्न हापयेत् । कुर्य्याद्गृह्याणि कर्म्माणि सन्ध्योपासनमेव च ॥ सख्यं समाधिकैः कुर्य्यादुपेयादीश्वरं सदा । दैवतान्यपि गच्छेत्तु कुर्य्याद्भार्य्याभिपोषणम् ॥ न धर्म्मं ख्यापयेद्विद्बान् न पापं गूहयेदपि । कुर्व्वीतात्महितं नित्यं सर्व्वभूतानुकम्पकः ॥ वयसः कर्म्मणोऽर्थस्य श्रुतस्याभिजनस्य च । देशवाग्बुद्धिसारूप्यमाचरन् विचरेत् सदा ॥ श्रुतिस्मृत्युदितं सम्यक् साधुभिर्यश्च सेवितः । तमातरन्निषेवेत नेहेतान्यत्र कर्हिचित् ॥ येनास्य पितरो याता येन याताः पितामहाः । येन याति सतां मार्गं तेन गच्छंस्तरिष्यति ॥ नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतिमान् । सत्यवादी जितक्रोधो ब्रह्मभूयाय कल्प्यते ॥ सन्ध्यास्नानरतो नित्यं ब्रह्मयज्ञपरायणः । अनसूयुर्मृदुर्दान्तो गृहस्थः प्रत्यवर्द्धत ॥ वीतरागभयक्रोधो लोभमोहविवर्ज्जितः । सावित्रीजापनिरतः श्रद्धावान् मुच्यते गृही ॥ मातापित्रोर्हिते युक्तो गोब्राह्मणहिते रतः । दाता यज्ञी देवभक्तो ब्रह्मलोके महीयते ॥ त्रिवर्गसेवी सततं देवतानाञ्च पूजनम् । कुर्य्यादहरहर्न्नित्यं नमस्येत् प्रयतः सुरान् ॥ विभागशीलः सततं क्षमायुक्तो दयात्मकः । गृहस्थस्तु समायुक्तो न गृहे न गृही भवेत् ॥ क्षमा दया च विज्ञानं सत्यञ्चैव दमः शमः । अध्यात्मं नित्यता ज्ञानमेतद्ब्राह्मणलक्षणम् ॥ एतस्मान्न प्रमाद्येत विशेषेण द्बिजोत्तमः । यथाशक्ति चरन् कर्म्म निन्दितानि विवर्जयेत् ॥ विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम् । गृहस्थो मुच्यते बन्धान्नात्र कार्य्या विचारणा विगर्हातिक्रमक्षेपहिंसाबन्धवधात्मनाम् । अन्यमन्युसमुत्थानां दोषाणां वर्जनं क्षमा ॥ स्वदुःखेष्विव कारुण्यं परदुःखेषु सौहृदात् । दया यन्मुनयः प्राहुः साक्षाद्धर्म्मस्य साधनम् ॥ चतुर्द्दशानां विद्यानां धारणं हि यथार्थतः । विज्ञानमितरं विद्याद्येन धर्म्मो विवर्द्धते ॥ अधीत्य विधिवद्विद्यामर्थञ्चैवोपलभ्य तु । धर्म्मकार्य्यान्निवृत्तश्चेन्न तद्विज्ञानमिष्यते ॥ सत्येन लोकं जयति सत्यन्तत् परमं पदम् । यथा भूतप्रसादस्तु सत्यमाहुर्मनीषिणः ॥ दमः शरीरावनतिः शमः प्रज्ञा प्रसादजः । अध्यात्ममक्षरं विद्याद्यत्र गत्वा न शोचति ॥ यया स देवो भगवान् विद्यते यत्र विद्यते । साक्षादेव महादेव ! तज्ज्ञानमिति कीर्त्तितम् ॥ तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः । महायज्ञपरो विप्रो लभते तदनुत्तमम् ॥ धर्म्मस्यायतनं यत्नाच्छरीरं परिपालयेत् । न हि देहं विना रुद्र ! पुरुषैर्विद्यते परः ॥ नित्यं धर्म्मार्थकामेषु युञ्जीत नियतो द्बिजः । न धर्म्मवर्जितं काममर्थं वा मनसा स्मरेत् ॥ सीदन्नपि स्वधर्म्मेण नत्वधर्म्मं समाचरेत् । धर्म्मो हि भगवान्देवो गतिः सर्व्वेषु जन्तुषु । भूतानां प्रियकारी स्यान्न परद्रोहकर्म्मधीः ॥ न वेददेवतानिन्दां कुर्य्यात्तैश्च न सम्बदेत् । यस्त्विमं नियतो विप्रो धर्म्माध्यायं पठेत् शुचिः । अध्यापयेच्छ्रावयेद्वा ब्रह्मलोके महीयते ॥” इति कौर्म्मे उपविभागे १४ अध्यायः ॥ अपि च । सूत उवाच । “आनृशंस्यं क्षमा सत्यमहिंसा दममार्द्दवम् । ध्यानं प्रसादो माधुर्य्यमार्ज्जवं शौचमेव च ॥ इज्या दानं तपः सत्यं स्वाध्यायो ह्यात्मनिग्रहः । व्रतोपवासौ मौनञ्च स्नानं पैशुन्यवर्जनम् ॥ एभिर्युक्तो मुनिश्रेष्ठा यः सदा वर्त्तते द्विजः । हुत्वा तु पावकं सर्व्वं परं ब्रह्माधिगच्छति ॥ अविद्यो वा सविद्यो वा निरग्निः साग्निकोऽपि वा । यो विप्रस्तपसा युक्तः स परं स्वर्गमाप्नुयात् ॥ सर्व्वेषामुत्तमं श्रेष्ठं विमुक्तिफलदायकम् ॥ ब्राह्मणस्य तपो वक्ष्ये तन्मे निगदतः शृणु । सायं प्रातश्च यः सन्ध्यामुपास्ते स्कन्नमानसः ॥ जपन् हि पावनीं देवीं गायत्त्रीं वेदमातरम् । तपसा भावितो देव्या ब्राह्मणः पूतकिल्विषः ॥ न सीदेत् प्रतिगृह्णन् स त्वयि पृथ्वीं ससागराम् । द्वे सन्ध्ये ह्युपतिष्ठेत गायत्त्रीं प्रयतः शुचिः ॥ यस्तस्य दुष्कृतं नास्ति पूर्ब्बतः परतोऽपि वा । यज्ञदानरतो विद्वान् साङ्गवेदस्य पाठकः ॥ गायत्त्रीध्यानपूतस्य कलां नार्हन्ति षोडशीम् । एवं किल्विषयुक्तस्तु विनिर्दहति पातकम् ॥ उभे सन्ध्ये ह्युपासीत तस्मान्नित्यं द्विजोत्तमः ॥ तस्य देहापवित्रत्वं यथा, —
“यथा देहापवित्रत्वं विप्रादीनां यतो भवेत् । देवर्षे ! शृणु तत्सर्व्वं नराणामानुपूर्ब्बिकम् ॥ जातके मृतकेऽस्नाते जलौकाभिः क्षते तथा । अपवित्रो द्विजातीनां देहः सन्ध्यादिकर्म्मसु ॥ अपूततनुरुत्सर्गे नरो मूत्रपुरीषयोः । अस्पृश्यस्पर्शने चैव ब्रह्मयज्ञजपादिषु ॥ रक्तपाते नखशृङ्गदन्तखड्गादिभिः क्षते । विप्रादेरशुचिः कायः शस्त्रास्त्रैः कण्टकादिभिः ॥ भुक्तहस्ताननोच्छिष्टेऽपवित्रः कृतमैथुने । शयने ब्राह्मणादीनां शरीरं क्षुरकर्म्मणि ॥ ज्वरादिभिश्चतुःषष्टिरोगैर्युक्ते द्विजन्मनाम् । वपुरप्रयतं पूजादानहोमजपादिषु ॥ धूमोद्गारे वमौ श्राद्धपतितान्नादिभोजनैः । तथा च रेतःस्खलने मर्त्यदेहापवित्रता ॥ अपवित्रं द्विजातीनां वपुः स्याद्राहुदर्शने । गर्हितदानग्रहणे पतिते पातकादिभिः ॥ अशौचान्तेन शुद्धिः स्याज्जातके मृतके द्विज ! ॥ सर्व्ववर्णाश्रमादीनां तनोः सन्ध्यादिकर्म्मसु ॥” इति पाद्मोत्तरखण्डे १०९ अध्यायः ॥ अथ श्राद्धीयब्राह्मणनिर्णयः । मान्धातोवाच । “कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं महामुने ! । द्बिजेभ्यः किंगुणिभ्यो वा तन्मे व्याख्यातुमर्हसि ॥ नारद उवाच । ब्राह्मणान्न परीक्षेरन्नान्यवर्णास्त्रयो नृप ! । दैवे कर्म्मणि पित्रे च न्याय्यमाहुः परीक्षणम् ॥ देवताः पूजयन्तीह दैवेनैव हि तेजसा । उपेये तस्माद्भावेभ्यः सर्व्वेभ्यो दापयेन्नरः ॥ श्राद्धे त्वथ महाराज ! परीक्षेद्ब्राह्मणं बुधः । कुलशीलवयोरूपैर्विद्ययाभिजनेन च ॥ तेषामन्ये पङ्क्तिदूषास्तथान्ये पङ्क्तिपावनाः । अपाङ्क्तेयास्तु ये राजन् ! कीर्त्तयिष्यामि तान् शृणु ॥” अपाङ् क्तेया यथा, — कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः । ग्रामप्रेष्यो वार्द्धुषिको गायनः सर्व्वविक्रयी ॥ अगारदाही गरदः कुण्डाशी सोमविक्रयी । सामुद्रिको राजदूतस्तैंलिकः कूटकारकः ॥ पित्रा विवदमानश्च यस्य चोपपतिर्गृ हे । अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति ॥ पर्व्वकारश्च सूची च मित्रध्रुक् पारदारिकः । अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च ॥ श्वभिश्च यः परिक्रामेद्यः शुना दष्ट एव च । परिवित्तिस्तु यश्च स्याद्दुश्चर्म्मा गुरुतल्पगः ॥ कुशीलवो देवलको नक्षत्रैर्यश्च जीवति । ईदृशा ब्राह्मणा ये च अपाङ्क्तेयास्तु ते मताः ॥ रक्षांसि गच्छते हव्यं यदेषान्तु प्रदीयते । श्राद्धे मुक्त्वा महाराज ! दुश्चर्म्मा गुरुतल्पगः ॥ श्राद्धं नाशयते तस्य पितरोऽपि न भुञ्जते । सोमविक्रयिणे दत्तं विष्ठातुल्यं भवेन्नृप ! ॥ भिषजे शोणितसमं नष्टं देवलके तथा । अप्रतिष्ठं बार्द्धषिके निष्फलं परिकीर्त्तितम् ॥ बहुबाणिजके दत्तं नेह नामुत्र तद्भवेत् । भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे ॥ ये तु धर्म्मव्यपेतेषु चरित्रापगतेषु च । हव्यं कव्यं प्रयच्छन्ति तेषां तत्प्राय नश्यति ॥ ज्ञानपूर्ब्बन्तु ये तेभ्यः प्रयच्छन्त्य ल्पबुद्धयः । पुरीषं भुञ्जते तस्य पितरः प्रेत्य निश्चितम् ॥ एतान् विद्धि महावाहो ! अपाङ्क्तेयान् द्विजा- धमान् । शूद्राणामुपदेशन्तु ये कुर्व्वन्त्यल्पबुद्धयः ॥ षष्टिं काणः शतं खञ्जः श्वित्री यावत् प्रपश्यति । पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप ! ॥ यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः । सोपानत्कश्च यद्भुङ्क्ते सर्व्वं विद्यात्तदासुरम् ॥ असूयते च यद्दत्तं यच्च श्रद्धादिवर्जितम् । सर्व्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत् ॥ श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन् कथञ्चन । तस्मात् परिवृते दद्यात्तिलांश्चान्ने विकीरयेत् ॥ तिलैर्विरहितं श्राद्धं कृतं क्रोधवशेन च । यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः ॥ अपाङ्क्तेयो यतः पङ्क्त्यां भुञ्जानो ननु पश्यति । तावत् फलाद्भ्रंशयति दातारं तस्य वालिशम् ॥” पङ्क्तिपावना यथा, —
“इमे हि मनुजश्रेष्ठ ! विज्ञेयाः पङ्क्तिपावनाः । विद्यावेदव्रतस्नाताः ब्राह्मणाः सर्व्व एव हि ॥ सदाचारपराश्चैव विज्ञेयाः पङ्क्तिपावनाः । मातापित्रोर्यश्च बश्यः श्रोत्रियो दशपूरुषः ॥ ऋतुकालाभिगामी च धर्म्मपत्नीषु यः सदा । वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत ॥ अथर्व्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः । सत्रवादी धर्म्मशीलः स्वकर्म्मनिरतश्च यः ॥ ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः । मखेषु च समस्तेषु भवन्त्ववभृतप्लुतः ॥ अक्रोधना ह्यचपलाः क्षान्ता दान्ता जिते- न्द्रियाः । सर्व्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रयेत् ॥ एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः । यतयो मोक्षधर्म्मज्ञा योगाः सुचरितव्रताः ॥ ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान् । ये च भाष्यविदः केचिद् ये च व्याकरणे रताः ॥ अधीयते पुराणं ये धर्म्मशास्त्राणि चाप्युत । अधीत्य च यथान्यायं विधिवत्तस्य कारिणः ॥ उपपन्नो गुरुकुले सत्यवादी सहस्रदः । अग्र्याः सर्व्वेषु वेदेषु सर्व्वप्रवचनेषु च ॥ यावदेते प्रपश्यन्ति पङ्क्त्यां तावत् पुनन्ति च । ततो हि पावनात् पङ्क्त्या उच्यन्ते पङ्क्ति- पावनाः ॥ अनृत्विगनुपाध्यायः स चेदग्रासनं व्रजेत् । ऋत्विग्भिरनमुज्ञातः पङ्क्त्या हरति दुष्कृतम् ॥ अथ चेद्वेदवित् सर्व्वैः पङ्क्तिदोषैर्विवर्जितः । न च स्यात् पतितो राजन् ! पङ्क्तिपावन उच्यते ॥ तस्मात् सर्व्वप्रयत्नेन परीक्ष्यामन्त्रयेद्द्विजान् । स्वकर्म्मनिरतान् शान्तान् कुले जातान् बहु- श्रुतान् ॥ यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च । न प्रीणाति पितॄन् देवान् स्वर्गञ्च न स गच्छति ब्राह्मणो ह्यनधीयानस्तृणादिरिव शाम्यति । तस्मिन् श्राद्धं न दातव्यं न हि भस्मनि हूयते ॥ ऋषीणां समये नित्यं ये चरन्ति महीपते ! । निश्चिताः सर्व्वधर्म्मज्ञास्तान् देवा ब्राह्मणान् विदुः ॥ स्वाध्यायनिष्ठानिरता ज्ञाननिष्ठास्तथैव च । तपोनिष्ठाश्च बोद्धव्याः कर्म्मनिष्ठाश्च पार्थिव ! । कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भूमिप ! । तत्र ये ब्राह्मणान् केचिन्न निन्दन्ति हि ते वराः ॥ ये तु निन्दन्ति जल्पेषु न तान् श्राद्धेषु योजयेत् । ब्राह्मणा निन्दिता राजन् ! हन्युस्ते पुरुषं सदा ॥ वैखानसानां वचनमृषीणां श्रूयते नृप ! । दूरादेव निरीक्षेत ब्राह्मणान् वेदपारगान् ॥ प्रियो वा यदि वा द्बेष्यस्तेषां न श्राद्धमावपेत् ॥” इति पाद्मे स्वर्गखण्डे श्राद्धपात्रनिर्णयो नाम ३५ अध्यायः ॥ आततायिब्राह्मणवधे दोषाभावो यथा, —
“आत्मानं हन्तुमायान्तमपि वेदान्तपारगम् । न दोषो हनने तस्य न तेन ब्रह्महा भवेत् ॥ प्रायश्चित्तं हिंसकानां न वेदेषु निरूपितम् । वधे समुचिते तेषामित्याह कमलोद्भवः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे २५ अध्यायः ॥ (क्ली, मन्त्रेतरवेदभागः । आशङ्कोपन्यास तन्निर- सनपूर्ब्बकं तल्लक्षणमाह ऋग्वेदभाष्योपद्घात- प्रकरणे यथा । “तत्र ब्राह्मणस्य लक्षणं नास्ति । कुतः ? वेदभागानामियत्तानवधारणेन बाह्मण- भागेष्वन्यभागेषु च लक्षणस्याव्याप्त्यतिव्याप्त्योः शोधयितुमशक्यत्वात् । पूर्ब्बोक्तमन्त्रभाग एकः । भागान्तराणि च कानिचित् पूर्ब्बैरुदाहर्त्तुं संगृहीतानि । “हेतुर्निर्बचनं निन्दा प्रशंसा संशयो विधिः । परक्रिया पुराकल्पो व्यवधारणकल्पना ॥” इति । तेन ह्यन्नं क्रियते इति हेतुः १ । तद्दध्नोदधित्व- मिति निर्वचनम् २ । अमेध्या वै माषाः इति निन्दा ३ वायुर्वै क्षेपिष्ठादेवतेति प्रशंसा ४ । तद्व्यचिकित्स जुहवानीमा हौषामिति संशयः ५ । यजमानेन सम्मितौदुम्भरी भवतीति विधिः ६ । माषानेव मह्यं पचन्तीति परकृतिः ७ पुरा ब्राह्मणा अभैषुरिति पुराकल्पः ८ । यावतो- ऽश्वान् प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपाला- न्निर्वपेदिति विशेषावधारणकल्पना ९ । एव- मन्यदपि उदाहार्य्यम् ॥ न च हेत्वादीनामन्यतमं ब्राह्मणमिति लक्षणम् । मन्त्रेष्वपि हेत्वादि- सद्भावात् । इन्दवोवामुशन्तिहीति हेतुः । उदानिषुर्महीरिति तस्मादुदकसुच्यते इति निर्वचनम् । मोघमन्नं विन्दते अप्रचेताः इति निन्दा । अग्निर्मूर्द्धादिवः इति प्रशंसा । अधः स्विदासीदुपरिस्विदासीति संशयः वसन्ताय कपिञ्जलानालभत इति विधिः सहस्रमयुताद- द्दितिपरकृतिः । यज्ञेन यज्ञमयजन्त देवा इति पुराकल्पः । इति करणबहुलं ब्राह्मणमिति चेत् न इत्यददा इत्ययजथा इत्यपच इति ब्राह्मणो गायेदित्यस्मिन् ब्राह्मणेन गातव्ये मन्त्रेऽतिव्याप्तेः । इत्याहेत्यनेन वाक्येनोपनिबद्धं ब्राह्मणमिति चेन्न राजाचिद्यं भगं भक्षीत्याह यो वा रक्षाः शुचिरस्मीत्याह इत्यनयोर्मन्त्रयो- रतिव्याप्तेः आख्यायिकारूपं ब्राह्मणमिति चेन्न यमयमीसंवादसूक्तादावतिव्याप्तेः तस्मान्नास्ति ब्राह्मणस्य लक्षणमिति प्राप्ते ब्रूमः मन्त्रब्राह्मण- रूपौ द्वावेव वेदभागौ इत्यङ्गीकारात् मन्त्र- लक्षणस्य पूर्ब्बमभिहितत्वादवशिष्टो वेदभागो ब्राह्मणमित्येतल्लक्षणं भविष्यति । तदेतल्लक्षण- द्वयं जैमिनिः सूत्रयामास तच्चोदकेषु मन्त्रा- ख्याशेषे ब्राह्मणशब्द इत्यादि ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । ८४ । “ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥” शिवः । यथा, तत्रैव । १३ । १७ । १३३ । गभस्तिब्रह्मकृद्ब्रह्मा ब्रह्मविद् ब्राह्मणो गतिः ॥” ब्रह्म जानातीति व्युत्पत्त्या परब्रह्मवेत्तरि, त्रि ॥)



Correction: