संस्कृत-शब्दकोशः

ब्राह्मिका ब्राह्मीकन्द

ब्राह्मी

शब्दकल्पद्रुमः

ब्राह्मी || स्त्री (ब्रह्मण इयम् । ब्रह्म + अण् । टिलोपः । स्त्रियां ङीष् ।)
दुर्गा । यथा, —
“बृहदश्वशरीरं यदप्रमेयं प्रमाणतः । बृहद्विस्तीर्णमित्युक्तं ब्राह्मी देवी ततः स्मृता ॥” इति देवीपुराणे ४५ अध्यायः ॥ शिवस्याष्टमातृकान्तर्गतमातृकाविशेषः । सा च ब्रह्मशक्तिः । सरस्वती । शाकभेदः । तत्- पर्य्यायः । मत्स्याक्षी २ वयस्था ३ सोम- वल्लरी ४ । इत्यमरः । २ । ४ । १३७ ॥ चत्वारि सोमलतायां । ब्राह्मीशाके इति केचित् । इति तट्टीकायां भरतः ॥ (यथा, गारुडे १९९ अध्याये । “वचा त्रिकटुकञ्चैव लवणं चूर्णमुत्तमम् । ब्राह्मीरसे भावितञ्च मधुसर्पिसमन्वितम् । सप्ताहं भक्षितं कुर्य्यान्महैश्वर्य्यं मात पराम् ॥”)
ब्रह्मीशाकस्य पर्य्यायान्तरं यथा । सरस्वती ५ सौम्या ६ सुरश्रेष्ठा ७ सुवर्च्चला ८ कपोतवेगा ९ वैधात्री १० दिव्यतेजाः ११ महौषधी १२ स्वायम्भुवी १३ सौम्यलता १४ सुरेष्टा १५ ब्रह्मकन्यका १६ मण्डूकमाता १७ मण्डूकी १८ सुरसा १९ मेध्या २० वीरा २१ भारती २२ वरा २३ परमेष्ठिनी २४ दिव्या २५ शारदा २६ । अस्या गुणाः । हिमत्वम् । कषायत्वम् । तिक्तत्वम् । वातास्रपित्तनाशित्वम् । बुद्धिप्रज्ञा- मेधाकारित्वम् । आयुर्वर्द्धकत्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “ब्राह्मी कपोतवल्ली स्यात् सोमवल्ली सरस्वती ॥” अथ ब्रह्ममाण्डूकी । “मण्डूकपर्णी माण्डूकी त्वाष्ट्री दिव्या महौ- षधी ॥” अस्या गुणाः । “ब्राह्मी हिमा सरा तिक्ता लघुर्मेध्या च शीतला । कषाया मधुरा स्वादुपाकायुष्या रसायनी ॥ स्वर्य्या स्मृतिप्रदा कुष्ठपाण्डुमेहास्रकासजित् । विषशोथज्वरहरी तद्वन्मण्डूकपर्णिनी ॥” इति भावप्रकाशः ॥ * ॥
फञ्जिका । वामनहाटी इति भाषा । पङ्क- मडमत्स्यः । पाँकाल इति भाषा । सोमवल्लरी । सोमलता इति ख्याता । इति मेदिनी ॥ महाज्योतिष्मती । वडी मालकङ्गुनी इति हिन्दी भाषा । मत्स्याक्षी । मच्छाछी इति छछमछरिया इति च हिन्दी भाषा । वाराही- कन्दः । हिलमोचिका । इति राजनिर्घण्टः ॥ हिंचा इति भाषा । रोहिणीनक्षत्रम् । इति हेमचन्द्रः ॥ (ब्रह्म + अण् + ङीप् ।)
ब्रह्माधि- ष्ठातृदेवताकत्वात् तथात्वम् ॥ सूर्य्यमूर्त्तिः । यथा, माकण्डेये । १०९ । ७१ । “ब्राह्मी माहेश्वरी चैव वैष्णवी चैव ते तनुः । त्रिधा यस्य स्वरुपन्तु भानोर्भास्वान् प्रसीदतु ॥” त्रि, ब्रह्मप्राप्तियोग्या । यथा, मनुः । २ । २८ । “स्वाध्यायेन ब्रतैर्होभै स्त्रैविद्येनेज्यया सुतैः । महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥”)
ब्रह्मभवा । यथा गीतायाम् । २ । ७२ । “एषा ब्राह्मी स्थितिः पार्थ ! नैनां पाप्य विमुह्यति ॥”)



Correction: