संस्कृत-शब्दकोशः

ब्रुवाण भ

ब्रू

वाचस्पत्यम्

ब्रू ||‍ कथने अदा० उभ० द्विक० सेट् । ब्रवीति आह ब्रूते । अवा- चत् अवोचत । उवाच ऊचतुः । अस्यार्द्धधातुके वच्यादेशोऽनित्यः तेन “विव्रतिः कटके कृता” । ब्रह्मणब्रु । इत्यादि सिद्धम् । अनु + पश्चात् कथने अनुवादे । वि + विरुद्धतया कथने विवादे च । इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्य- सङ्कलिते वाचस्पत्याभिधाने बकारादि शब्दार्थसङ्कलनम् । भ भकारः पवर्गीयश्चतुर्थोवर्णो व्यञ्जनवर्णभेदः । तस्योच्चारण- स्थानमौष्ठौ । अस्योच्चारणे आभ्यन्तरप्रयत्नः ओष्ठाभ्यां सह जिह्वाग्रस्य स्पर्शः अतस्तस्य स्पर्शवर्णता । बाह्यप्रयत्नाश्च संवारनादघोषाः महाप्राणश्च । तस्य ध्येयरूपं यथा “भकारं शृणु चार्वङ्गि! स्वयंपरमकुण्डली । महा- मोक्षप्रदं वर्णं तरुणादित्यसंप्रभम् । पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा” कामधेनुतन्त्रम् । अस्य अधिष्ठातृ- देवताध्यानं यथा “तडित्प्रभां महादेवीं नागकङ्कण- शोभिताम् । षड्भुजां वरदां भीमां रक्तपङ्कजलोच- नाम् । रक्तवस्त्रपरीधानां रक्तपुष्पोपशोभिताम् । चतु- र्वर्गप्रदां देवीं साधकाभीष्टसिद्धिदाम् । एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत्” । अस्य वाचकशब्दाः यथा “भः क्लिन्ना भ्रमरो भीमो विश्वमूर्त्तिर्निशा- भवम् । द्विरण्डो भूषणोमूलं यज्ञसूत्रप्रवाचकः । नक्षत्रं भ्रमणा दीप्रिर्वयोभूमिः पयो नभः । नाभिर्भदं महाबाहुर्विश्वमूर्त्तिर्विताण्डवः । प्राणात्मा तापिनी वज्रा विश्वरूपी च चन्द्रिका । भीमसेनः सुधासेनः सुखी मयापुरं हरः” । वर्णाभिधानम् । मातृकान्यासेऽस्य नाभौ न्यास्यता काव्यादावस्य प्रयोगे “सुखभयमरणक्लेश- दुःखं पवर्गः” वृ० टी० उक्तेः क्लेशः फलम् ।


शब्दकल्पद्रुमः

ब्रू || ल ञ उक्तौ । इति कविकल्पद्रुमः ॥ (अदा०- उभ०-द्विक०-सेट् ।)
ल ञ ब्रवीति । ब्रूते । विब्रूतिः कटके कृतेत्यत्र अरविहितकार्य्य- स्यानित्यत्वान्न वचादेशः । इति दुर्गादासः ॥



Correction: