संस्कृत-शब्दकोशः

ब्रू भकक्षा

भ

वाचस्पत्यम्

भ ||‍ न० भाति भा—क । १ नक्षत्रे अमरः । २ ग्रहे शब्दरत्ना० । ३ राशौ ज्यो० त० । ४ शुक्राचार्य्ये पु० मेदि० । तेषां दीप्तिमत्त्वात् तथात्त्वम् । ५ भूधरे एकाक्षरकोषः । ६ भ्रान्तौ पु० शब्दरत्ना० । वृ० र० उक्ते ७ आदिगुरुके अन्त्य- लघुद्वये वर्णत्रये । तस्य काव्यादौ प्रयोगे फलं यशः देवताचन्द्रः यथोक्तं वृ० र० टीकायाम् “भश्चन्द्रो यशः उज्ज्वलम्” ।


शब्दकल्पद्रुमः

भं || क्ली (भातीति । भा दीप्तौ + बाहुलकात् डः ।)
नक्षत्रम् । इत्यमरः । १ । ३ । २१ ॥ (यथा, सूर्य्यसिद्धान्ते । १ । २६ । “प्राग्गतित्वमतस्तेषां भगणैः प्रत्यहं गतिः । परिणाहवशाद्भिन्ना तद्वशाद् भानि भुञ्जते ॥”)
ग्रहः । इति शब्दरत्नावली ॥ राशिः । यथा, —
“राशिनामानि च क्षेत्रं भमृक्षं गृहनाम च ॥” इति ज्योतिस्तत्त्वम् ॥


शब्दकल्पद्रुमः

भ || ड इ ङ वाचि । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।)
परिभाषण इति गोविन्द- भट्टः । परिहास इति चतुर्भुजः । इ भण्ड्यते ङ भण्डते षिड्गीं लोकः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

भ || ड इक् शिवे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् । इदित् ।)
शिवं कल्याण- क्रिया वेदेष्वेव । प्रतारणे प्रसिद्धोऽयम् । इक् भण्डयति प्रतारको मुग्धं धनदानाङ्गीकारेण । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

भः || पुं, (भातीति । भा दीप्तौ + बाहुलाद् डः ।)
शुक्राचार्य्यः । इति मेदिनी । भे, १ ॥ भ्रमरः । इत्येकाक्षरकोषः । भ्रान्तिः । इति शब्दरत्ना- वली ॥


शब्दकल्पद्रुमः

भ || भकारः । स च व्यञ्जनचतुर्विंशतितमः पवर्गीय- चतुर्थो वर्णः । अस्योच्चारणस्थानं ओष्ठः । इति व्याकरणम् ॥ (तथा च सिद्धान्तकौमुद्याम् । उपूपध्मानीयानामोष्ठौ ॥”)
तस्य स्वरूपादि यथा, —
“भकारं शृणु चार्व्वङ्गि ! स्वयं परमकुण्डली । महामोक्षप्रदं वर्णं तरुणादित्यसंप्रभम् ॥ पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा ।” इति कामधेनुतन्त्रम् ॥ (वङ्गाक्षराकृतौ)
तस्य लिखनक्रमो यथा, —
“ऊर्द्धाधःक्रमतो रेखा वामे वक्रा तु कुण्डली । पुनश्चाधोगता सैव अत ऊर्द्धगता पुनः ॥ ब्रह्मा शम्भुश्च विष्णुञ्च क्रमतस्तासु तिष्ठति ॥” अस्य लेखनप्रकारान्तरं यथा, —
“किञ्चिदाकुञ्चिता रेखा वामद्दक्षिणतो गता । ततो वक्रा वामगता तासु वाण्यादयः क्रमात् ॥ ऋजुमात्रा मध्यगता कोणाद्दक्षगता पुनः । महाशक्तिस्वरूपा सा ध्यानमस्य प्रचक्षते ॥” तद्यथा, —
“तडित्प्रभां महादेवीं नागकङ्कणशोभिताम् ॥ षड्भुजां वरदां भीमां रक्तपङ्कजलोचनाम् ॥ रक्तवस्त्रपरीधानां रक्तपुष्पोपशोभिताम् । चतुर्वर्गप्रदां देबीं साधकाभीष्टसिद्धिदाम् ॥ एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥” तत्प्रणाममन्त्रो यथा, —
“त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं प्रिये ! । आत्मादितत्त्वसंयुक्तं भकारं प्रणमाम्यहम् ॥” इति वर्णोद्धारतन्त्रम् ॥ तस्य नासानि यथा, —
“भः क्लिन्ना भ्रमरो भीमो विश्वमूर्त्तिर्निशाभवम् । द्बिरण्डो भूषणो मूलं यज्ञसूत्रस्य वाचकः ॥ नक्षत्रं भ्रमणा दीप्तिर्वयो भूमिः पयो नभः । नाभिर्भद्रं महाबाहुर्विश्वमूर्त्तिर्विताण्डकः ॥ प्राणात्मा तापिनी वज्रा विश्वरूपी च चन्द्रिका । भीमसेनः सुधासेनः सुखो मायापुरं हरः ॥” इति नानातन्त्रशास्त्रम् ॥



Correction: